प्रथमं मण्डलम् - सूक्तम् 44

14 ऋचः

ऋषिः: प्रस्कण्वः काण्वः देवता: अग्निरश्विनावुषाः छन्दः: बृहती

सूक्तम् 1.44 - सम्पूर्णम्

1 / 14
ऋक्: 1.44.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (14)
1.44.1
अग्ने॒ विव᳚स्वदु॒षस᳚श्चि॒त्रं राधो᳚ अमर्त्य ।
आ दा॒शुषे᳚ जातवेदो वहा॒ त्वम॒द्या दे॒वा{4} उ᳚ष॒र्बुधः᳚ ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । विव᳚स्वत् । उ॒षसः᳚ । चि॒त्रम् । राधः᳚ । अ॒म॒र्त्य॒ ।
आ । दा॒शुषे᳚ । जा॒त॒॑वे॒दः॒ । व॒ह॒ । त्वम् । अ॒द्य । दे॒वान् । उ॒षः॒॑बुधः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वमुषस उषोदेवतायाः सकाशाद्राधो धनं दाशुषे हविर्दत्तवते यजमानाया वह । आनीय प्रापय । सोऽग्निर्विशेष्यते । अमर्त्य मरणरहित जातवेदो जातानां वेदितः । तमेतं शब्दं यास्को व्याचष्टे । जातवेदाः कस्मात् । जातानि वेद जातानि वैनं विदुर्जाते जाते विद्यत इति वा जातवित्तो वा जातधनो जातविद्यो वा जातप्रज्ञानो यत्तज्जातः पशूनविंदतेति तज्जातवेदसो जातवेदस्त्वमिति ब्राह्मणम् । तस्मात्सर्वानृतून्पशवोऽग्निमभिसस्पंतीति च । नि ७ १९ । इति । कीदृशं राधः । विवस्वत् विशिष्टनिवासोपेतं चित्रं नानाविधम् । किंच अद्यास्मिन्दिन उषर्बुध उषःकाले प्रबुद्धान्देवाना वह ॥ विवस्वत् । विवासनं विवः । तद्युक्तम् । वस निवासे । विपूर्वादंतर्भावितण्यर्थात्संपदादिलक्षणो भावे क्विप् । तदस्यास्तीति मतुप् । मादुपधाया इति वत्वम् । तसौ मत्वर्थ इति भत्वेन पदत्वाभावाद्रुत्वाद्यभावः । वृषादित्वादाद्युदात्तत्वम् । राधः । राध साध संसिद्धौ । राध्नोत्यनेनेति राधो धनम् । करणेऽसुन् । नित्त्वादाद्युदात्तत्वम् । दाशुषे । दाशृ दाने । दाश्वान् साह्वानिति क्वसुप्रत्ययांतो निपातितः । चतुर्थ्येकवचने वसोः संप्रसारणमिति संप्रसारणम् । शासिवसीति षत्वम् । जातवेदः । जातानि वेत्तीति जातवेदाः । गतिकाकयोरपि पूर्वपदप्रकृतिस्वरत्वं चेत्यसुन् । यद्वा । वेद इति धननाम । जातं धनं यस्य स तादृशः । आमंत्रितनिघातः । वह । द्व्यचोऽतस्तिङ इति संहितायां दीर्घत्वम् । देवान् । दीर्घादट समानपाद इति संहितायां नकारस्य रुत्वम् । अतोऽट नित्यमिति सानुनासिक आकारः । उषर्बुधः । उषसि बुध्यंत इत्युषर्बुधः । बुध अवगमने । क्विप्चेति क्विप् । रो रुत्वाभावश्छांदसः कृदुत्तरपदप्रकृतिस्वरत्वं ॥ १ ॥

1.44.2 समानपद
जुष्टो॒ हि दू॒तो असि᳚ हव्य॒वाह॒नो॑ग्ने᳚ र॒थीर᳚ध्व॒राणा᳚म् ।
स॒जूर॒श्विभ्या᳚मु॒षसा᳚ सु॒वीर्य᳚म॒स्मे धे᳚हि॒ श्रवो᳚ बृ॒हत् ॥
▶ पदपाठः (Word-by-word)
जुष्टः᳚ । हि । दू॒तः । असि᳚ । ह॒व्य॒॑वाहनः । अग्ने᳚ । र॒थीः । अ॒ध्व॒राणा᳚म् ।
स॒॑जूः । अ॒श्वि॑भ्या᳚म् । उ॒षसा᳚ । सु॒॑वीर्य᳚म् । अ॒स्मे इति᳚ । धे॒हि॒ । श्रवः᳚ । बृ॒हत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं जुष्टत्वादिविशेषगुणयुक्तोऽसि । जुष्टः सेवितो दूतो देवानां वार्ताहारो हव्यवाहनो हविषो वोढा अध्वराणां क्रतूनां रथीः रथस्थानीयः । तथा च मंत्रांतरं ब्राह्मणेनैव व्याख्यातम् । रथीरद्वराणामित्याहैष हि देवरथ इति । ब्राह्मणांतरं च । रथीरध्वराणामित्याह रथो ह वा एष भूतो देवेभ्यो हव्यं वहतीति । तादृशस्त्वमश्विभ्यां देवताभ्यामुषसा देवतया च सजूः सहितो भूत्वा सुवीर्यं शोभसवीर्योपेतं बृहत् प्रभूतं श्रवोऽन्नमस्मे धेहि । अस्मासु प्रक्षिप ॥ जुष्टः । जुषी प्रीतिसेवनयोः । नित्यं मंत इत्याद्युदात्तत्वम् । आसि । सिपि तासस्त्योर्लोपः (पा ७-४-५०) इति सलोपः । हि चेति निघातप्रतिषेधः । हव्यवाहनः । हव्यं वहतीति हव्यवाहनः । हव्येऽनंतःपाहम् (पा ३-२-६६) इति ञ्युट् । योरसादेशः । ञित्त्वादाद्युदात्तत्वे कृदुरपदप्रकृति स्वरत्वम् । अग्ने । पादादित्वादाष्टमिकनिघाताभावः । रथीः । रथशब्धात्स्वार्थिक ईकार प्रत्ययः । अध्वराणाम् । ध्वरो नास्त्येष्विति चहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । सुवीर्यम् । वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम् । अस्मे । सुपां सुलुगिति सप्तम्याः शे आदेशः ॥ २ ॥

1.44.3
अ॒द्या दू॒तं वृ᳚णीमहे॒ वसु᳚म॒ग्निं पु᳚रुप्रि॒यम् ।
धू॒मके᳚तुं॒ भाऋ᳚जीकं॒ व्यु᳚ष्टिषु य॒ज्ञाना᳚मध्वर॒श्रिय᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒द्य । दू॒तम् । वृ॒णी॒म॒हे॒ । वसु᳚म् । अ॒ग्निम् । पु॒रु॒॑प्रि॒यम् ।
धू॒म॑के᳚तुम् । भाः॑ऋ᳚जीकम् । वि॑उ᳚ष्टिषु । य॒ज्ञाना᳚म् । अ॒ध्व॒र॒॑श्रिय᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अद्यास्मिन्दिनेऽग्निं वृणीमहे । प्रार्थयामहे । कीदृशम् । दूतं वार्ताहारं वसुं निवासहेतुं पुरुप्रियं बहूनां प्रियं धूमकेतुं धूम रूपध्वजयुक्तं भाऋजीकं प्रसिद्धभासालंकृतम् । भाऋजीकं प्रसिद्धभाः (नि ६-४) इति यास्कवचनं व्युष्टिषूषःकालेषु यज्ञानां यजमानानामध्वरश्रियं यागासेविनं ॥ आद्य । निपातस्य चेति दीर्घत्वम् । पुरूणांप्रियः पुरुप्रियः । समासस्येत्यंतोदात्तत्वम् । धूमकेतुम् । इषियुधींधीत्यादिना (उ १-१४४) धूमशब्दो मक्प्रत्ययांतोंऽतोदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । भाऋजीकम् । ऋज गतिस्थानार्जनोपार्जनेषु । ऋजेश्च (उ ४-२२) इतीकन्प्रत्ययः । कित्त्वस्यानुवर्तनाद्गुणाभावः । भासः प्रकाशस्य ऋजीकः प्रार्जयिता । आद्युदात्तप्रकरणे दिवोदासादीनां छंदस्युपसंख्यानम् । पा ६-२-९१-१ । इति पूर्वपदाद्युदात्तत्वम् । यद्वा । भासोऽर्जुनं यस्मिन् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । व्युष्विषु । उछी विवासे । विवासो वर्जनम् । विशेषेणोच्छ्यंते तमसा वर्ज्यंत इति व्युष्टय उषःकालाः । कर्मणि क्तिन् । तितुत्रेत्यादिनेट् प्रतिषेधः । व्रश्चादिना षत्वे ष्टुत्वम् । तादौ चेति पूर्वपदप्रकृतिस्वरत्वम् । यणादेश उदात्तस्वरितयोर्यण इति परस्यानुदात्तस्य स्वरितत्वम् । अध्वरिश्रियम् । अध्वरं श्रयत इत्यध्वरश्रीः । क्विब्दचीत्या दिना । उ २ ५७ क्विप्रुत्ययः । तत्सन्नियोगेन संप्रसारणाभावो दीर्घश्च । द्वितीयैकवचनेऽचिश्नुधात्वित्यादिनेयङादेशः ॥ ३ ॥

1.44.4 समानपद
श्रेष्ठं॒ यवि᳚ष्ठ॒मति᳚थिं॒ स्वा᳚हुतं॒ जुष्टं॒ जना᳚य दा॒शुषे᳚ ।
दे॒वा{4} अच्छा॒ यात᳚वे जा॒तवे᳚दसम॒ग्निमी᳚ळे॒ व्यु᳚ष्टिषु ॥
▶ पदपाठः (Word-by-word)
श्रेष्ठ᳚म् । यवि᳚ष्ठम् । अति᳚थिम् । सु॑आ᳚हुतम् । जुष्टम् । जना᳚य । दा॒शुषे᳚ ।
दे॒वान् । अच्छ᳚ । यात᳚वे । जा॒त॑वे᳚दसम् । अ॒ग्निम् । ई॒ळे॒ । वि॑उ᳚ष्टिषु ॥
▶ सायणभाष्यम् (Sayana Commentary)

व्युष्टिषूषःकालेषु देवान् इतरान्सर्वदेवानच्छाभिमुख्येन यातवे गंतुमग्निं देवमीळे । स्तौमि । कीदृशम् । श्रेष्ठमतिशयेन प्रशस्तं यविष्ठं युवतमं अतिथिं सततगमनक्षमं स्वाहुतं सुष्ठु आ समंताद्धोमाधिकरणं दाशुषे हविर्दत्तवते जनाय यजमानाय जुष्टं प्रीतं जातवेदसं जातानां वेदितारं ॥ यविष्ठम् । युवशब्दादिष्ठनि स्धूलदूरेत्यादिना यणादेः परस्य लोपः । पूर्वस्य च गुणः । अवादेशः । नित्त्वादाद्युदात्तत्वम् । अतिथिम् । अत सातत्यगमने । ऋुतन्यंजीत्यादिना (उ ४-२) इथिन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । स्वाहुतम् । हु दानादनयोः । आहूयतेऽस्मिन्नित्याहुतः । सुः पूजायाम् (पा १-४-९४) इति सुशब्दस्य कर्मप्रवचनीयसंज्ञायां स्वती पूजायाम् (पा २-२-१८) इति समासः । अव्यय पूर्वपदप्रकृतिस्वरत्वम् । न च गतिकारकोपपदाश्कृदिति गतेः प्रकृतिस्वरत्वम् । अस्य सुशब्दस्य गतिसंज्ञाया बाधितत्वात् ॥ ४ ॥

1.44.5 समानपद
स्त॒वि॒ष्यामि॒ त्वाम॒हं विश्व᳚स्यामृत भोजन ।
अग्ने᳚ त्रा॒तार᳚म॒मृतं᳚ मियेध्य॒ यजि᳚ष्ठं हव्यवाहन ॥
▶ पदपाठः (Word-by-word)
स्त॒वि॒ष्यामि᳚ । त्वाम् । अ॒हम् । विश्व᳚स्य । अ॒मृ॒त॒ । भो॒ज॒न॒ ।
अग्ने᳚ । त्रा॒तार᳚म् । अ॒मृत᳚म् । मि॒ये॒ध्य॒ । यजि᳚ष्ठम् । ह॒व्य॒॑वा॒ह॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अमृत मरणरहित विश्वस्य भोजन कृत्स्नस्य जगतः पालक हव्यवाहन हविषो वोढः मियेध्य यज्ञार्ह एवंविध हे अग्ने विश्वस्य त्रातारं सर्वस्य जगतो रक्षकममृतं मरणरहितं यजिष्ठमतिशयेन यष्टारं त्वामहमनुष्ठातास्तविष्यामि । स्तुतिंकरिष्यामि ॥ स्तविष्यामि । ष्टुञ् स्तुतौ । व्यत्ययेनेडागमः । आगमानुदात्तत्वे प्रत्ययस्वरः । भोजन । कर्मफलं भोजयतीति भोजनः । नंद्यादिलक्षणो ल्युः । त्रातारम् । त्रैङ् पालने । आदेच इत्यात्वम् । तृच्येकाच उपदेश इतीट् प्रतिषेधः । अमृतम् । नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वम् । मियेध्य । इयागमश्छांदसः । यजिष्ठम् । यष्टृशब्दात्तुश्छंदसीतीष्ठन्प्रत्ययः । तुरिष्ठेमेयःस्विति तृलोपः ॥ ५ ॥

1.44.6
सु॒शंसो᳚ बोधि गृण॒ते य᳚विष्ठ्य॒ मधु᳚जिह्व॒ः स्वा᳚हुतः ।
प्रस्क᳚ण्वस्य प्रति॒रन्नायु᳚र्जी॒वसे᳚ नम॒स्या दैव्यं॒ जन᳚म् ॥
▶ पदपाठः (Word-by-word)
सु॒शंसः᳚ । बो॒धि॒ । गृ॒ण॒ते । य॒वि॒ष्ठ्य॒ । मधु᳚॑जिह्वः । सु॑आ᳚हुतः ।
प्रस्क᳚ण्वस्य । प्र॒॑ति॒रन् । आयुः᳚ । जी॒वसे᳚ । न॒म॒स्य । दैव्य᳚म् । जन᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे यविष्ठ्य युवतमाग्ने त्वं गृणते स्तुवते यजमानार्थं सुशंसः सुष्ठु शंसनीयो मधुजिह्वो मादयितृज्वालः स्वाहुतः सुष्ठु अभिमुख्येन हुतः सन् बोधि । अस्मदभिप्रायं बुध्यस्व । किंच प्रस्कण्वस्यैतन्नामकस्य कण्वपुत्रस्य । महर्षेः । प्रस्कण्वः कण्वस्य पुत्रः कण्वप्रभवः (नि ३-१७) इति यास्कवचनात् । तस्य जीवसे जीवनार्थमायुः प्रतिरन् प्रकर्षेण वर्धयन्दैव्यं देवसंबंधिनं जनं नमस्य । पूजय ॥ सुशंसः । शन्सुस्तुतौ । भावे घञ् । शोभनः शंसो यस्यासौ सुशंसः । आद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । बोधि । बुध आवगमने लोटो हिः । बहुलं छंदसीति विकरणस्य लुक् । हुझल्भ्यॊहेर्धिरिति हेर्धिरादेशः । वा छंदसीत्यपित्त्वस्य विकल्पितत्वाल्लघूपधगुणः । श्नाभ्यस्तयोरात इत्याकारलोपः । शतुरनुम इति विभक्तेरुदात्तत्वम् । यविष्ठ्य । गतम् । प्रस्कण्वस्य । प्रभूतिरुत्पत्तिः कण्वाद्यस्य स प्रस्कण्वः । प्रस्कण्वहरिश्चंद्रावृषी (पा ६-१-१५३) इति सुडागमो निपातितः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । प्रतिरन् । प्रपूर्वस्तिरतिर्वर्धनार्थः । नमस्य । नमोवरिवश्चित्रङः क्यजिति पूजार्थे क्यच् । प्रत्ययस्वरः । अन्येषामपि दृश्यत इति । संहितायां दीर्घत्वम् । दैव्यम् । देवाद्यञञौ (पा ४-१-८५) ३ । इति तस्येदमित्यर्थे प्राग्दीव्यतीयो यञ्प्रत्ययः ॥ ६ ॥

1.44.7
होता᳚रं वि॒श्ववे᳚दसं॒ सं हि त्वा॒ विश᳚ इ॒न्धते᳚ ।
स आ व᳚ह पुरुहूत॒ प्रचे᳚त॒सो॑ग्ने᳚ दे॒वा{4} इ॒ह द्र॒वत् ॥
▶ पदपाठः (Word-by-word)
होता᳚रम् । वि॒श्व॑वे᳚दसम् । सम् । हि । त्वा॒ । विशः᳚ । इ॒न्धते᳚ ।
सः । आ । व॒ह॒ । पु॒रु॒॑हू॒त॒ । प्र॑चे᳚तसः । अग्ने᳚ । दे॒वान् । इ॒ह । द्र॒वत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

होतारं होमनिष्पादकं विश्ववेदसं सर्वज्ञं त्वामग्निं विशः प्रजाः समिंधते हि । सम्यग्दीपयंति खलु । हे पुरुहूत बहुभिराहूताग्ने स त्वं प्रचेतसः प्रकृष्टज्ञानयुक्तान्देवानिह कर्मणि द्रवत् क्षिप्रमा वह । अभिमुख्येन प्रापय । द्रवदिति क्षिप्रनाम । द्रवदोषमिति तन्नामसु पाठात् । विश्ववेदसम् । विश्वानि वेत्तीति विश्ववेदाः । असुन् । मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वम् । यद्वा । वेद इति धननाम । विश्वानि वेदांसि यस्यासौ विश्ववेदा । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदांतोदात्तत्वम् । इंधशे । ञिइन्धी दीप्रौ । श्नसोरल्लोप इत्यकारलोपः । श्नान्नलोपः (पा ६-४-२३) प्रत्ययस्वरः । हि चेति निघातप्रतिषेधः ॥ ७ ॥

1.44.8
स॒वि॒तार᳚मु॒षस᳚म॒श्विना॒ भग᳚म॒ग्निं व्यु᳚ष्टिषु॒ क्षपः᳚ ।
कण्वा᳚सस्त्वा सु॒तसो᳚मास इन्धते हव्य॒वाहं᳚ स्वध्वर ॥
▶ पदपाठः (Word-by-word)
स॒वि॒तार᳚म् । उ॒षस᳚म् । अ॒श्विना᳚ । भग᳚म् । अ॒ग्निम् । वि॑उ᳚ष्टिषु । क्षपः᳚ ।
कण्वा᳚सः । त्वा॒ । सु॒त॑सो᳚मासः । इ॒न्ध॒ते॒ । ह॒व्य॒॑वाह᳚म् । सु॒॑अ॒ध्व॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्वध्वर शोभनयागयुक्ताग्ने । व्युष्टिपूषःकालेषु श्रवोऽन्नामाहुतिरूपमभिलक्ष्य सवित्रादीन्देवानावहेत्यनुवर्तते । स्वध्वरेत्याहवनीयाग्नेः संबोधनम् । अग्निमिति हविष उद्देश्यं देवतांतरमुच्यते सुतसोमासोऽभिषुतसोमाः कण्वासो मेधाविन ऋत्विजो हव्यवाहं हविषः प्रापकमाहवनीयं त्वामिंधते दीपयंति ॥ व्युष्विषु । उछी विवासे । विवासो वर्जनम् । व्युच्छ्यते तमसा वर्ज्यत इति व्युष्टिरुषःकालः । कर्मणि क्तिनि क्तादौ च नितीति गतेः प्रकृतिस्वरत्वम् । संहितायामुदात्तस्वरितयोर्यण इति परस्यानुदात्तस्य स्वरितत्वम् । क्षपः । क्षपेति । रात्रिनाम । ङस्यातो धातोः (पा ६-४-१४०) इत्यत्रात इति योगविभागादाकारलोपः । सुतसोमासः । सुतः सोमो यैः । निष्ठेति पूर्वनिपातः (पा २-२-३६) बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । हव्यवाहम् । हव्यं वहतीति हव्यवाट् । वहश्चेति ण्विप्रत्ययः ॥ ८ ॥

1.44.9 समानपद
पति॒र्ह्य᳚ध्व॒राणा॒मग्ने᳚ दू॒तो वि॒शामसि᳚ ।
उ॒ष॒र्बुध॒ आ व᳚ह॒ सोम᳚पीतये दे॒वा{4} अ॒द्य स्व॒र्दृशः᳚ ॥
▶ पदपाठः (Word-by-word)
पतिः᳚ । हि । अ॒ध्व॒राणा᳚म् । अग्ने᳚ । दू॒तः । वि॒शाम् । असि᳚ ।
उ॒षः॒॑बुधः᳚ । आ । व॒ह॒ । सोम᳚॑पीतये । दे॒वान् । अ॒द्य । स्वः॒॑दृशः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने विशां प्रजानां संबंधिनो येऽध्वरा यागास्तेषां पतिः पालकस्त्वं दूतोऽसि हि । देवानां वार्ताहारो भवसि खलु । उषर्बुध उषःकाले प्रबुद्धान् स्वर्दृशः सूर्यदर्शिनो देवानद्यास्मिन्दने सोमपीतये सोमपानार्थमा वह । आभिमुख्येन प्रापय ॥ असि । हि चेति निघातप्रतिषेधः । सोमपीतये । पा पाने । स्थागापापचो भाव इति भावे क्तिन् । घुमीस्थेतीत्वम् । सोमस्य पीतिः । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । स्वर्दृशः । सुष्ठ्वर्ति गच्छतीति स्वरादित्यः । अर्तेरन्येभ्योऽपि दृश्यंत इति विच् । तं पश्यंतीति स्वर्दृशः । क्विप्चेति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ९ ॥

1.44.10 समानपद
अग्ने॒ पूर्वा॒ अनू॒षसो᳚ विभावसो दी॒देथ᳚ वि॒श्वद᳚र्शतः ।
असि॒ ग्रामे᳚ष्ववि॒ता पु॒रोहि॒तो॑सि᳚ य॒ज्ञेषु॒ मानु᳚षः ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । पूर्वाः᳚ । अनु᳚ । उ॒षसः᳚ । वि॒भा॒व॒सो॒ इति᳚ विभा॑वसो । दी॒देथ᳚ । वि॒श्व॑द᳚र्शतः ।
असि᳚ । ग्रामे᳚षु । अ॒वि॒ता । पु॒रः॑हि᳚तः । असि᳚ । य॒ज्ञेषु᳚ । मानु᳚षः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विभावसो विशिष्टप्रकाशनरूपधनवन्नग्ने विश्वदर्शतः सर्वैर्दर्शनीयस्त्वम् । पूर्वा उषसोऽनु अतीतानुषःकालाननुलक्ष्य दीदेथ । दीप्तवानसि । तादृशस्त्वं ग्रामेषु जननिवासस्थानेष्ववितानि । रक्षको भवसि । यज्ञेष्वनुष्ठेयकर्मसु पुरोहितो वेदेः पूर्वस्यां दिश्यवस्थितो मानुषोऽसि । ऋत्विग्यजमानानां मनुष्याणां हितोऽसि ॥ दीदेथ । दीदेशिश्छांदसो दीप्ति कर्मा । आगमानुशासनस्यानित्यत्वादिडभावः । द्विर्वचनप्रकरणे छंदसि वेति वक्तव्यम् । का ६-१-८-१ । इति वचनाद्द्विर्वचनाभावः । विश्वदर्शतः । विश्वैर्दर्शनीयः । भृमृदृशीत्यादिना दृशेरतच् । मरुद्वृधाधित्वात्पूर्वपदांतोदात्तत्वम् । पा ६-२-१०६-२ । पुरोहितः । पूर्वाधरावराणामसि पुरधवश्चैषामित्यसिप्रत्ययांतः पुरस् शब्दः । तद्धितश्चासर्वविभक्तिरित्यव्ययत्वात् पुरोऽव्ययम् (पा १-४-६७) इति गतिसंज्ञायां सत्यां गतिसमासे गतिरनंतर इति पूर्वपदप्रकृतिस्वरत्वं ॥ २९ ॥ १० ॥

1.44.11 समानपद
नि त्वा᳚ य॒ज्ञस्य॒ साध᳚न॒मग्ने॒ होता᳚रमृ॒त्विज᳚म् ।
म॒नु॒ष्वद्दे᳚व धीमहि॒ प्रचे᳚तसं जी॒रं दू॒तमम᳚र्त्यम् ॥
▶ पदपाठः (Word-by-word)
नि । त्वा॒ । य॒ज्ञस्य᳚ । साध᳚नम् । अग्ने᳚ । होता᳚रम् । ऋ॒त्विज᳚म् ।
म॒नु॒ष्वत् । दे॒व॒ । धी॒म॒हि॒ । प्र॑चे᳚तसम् । जी॒रम् । दू॒तम् । अम᳚र्त्यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने देव मनुष्वत् यथा मनुर्यागदेशे निदधाति तद्वद्वयं त्वां नि धीमहि । अत्र स्थापयामः । कीदृशम् । यज्ञस्य साधनं यज्ञनिष्पादकं होतारमृत्विजं ऋतौ वसंतादिके यष्थारं प्रचेतसं प्रकृष्टाज्ञानयुक्तं जीरं शत्रूणां वयोहानिकरं दूतं देवानां दूतस्थानीयं आमर्त्यं मरणरहितम् । मनुष्वत् । औणादिकोऽसिप्रत्ययांतो मनस् शब्दः । तेन तुल्यं क्रिया चेद्वतिः (पा ५-१-११५) इति वतिप्रत्ययः । अयस्मयादित्वेन भत्वाद्रुत्वाद्यभावः । धीमहि । डुधाञ् धारणपोषणयोः । लिङ्यभ्यासलोपश्छांदसः । जीरम् । जु इति सौत्रो धातुः । चोरी च (उ २-२३) इति रक्प्रत्ययः । कात्यायन स्त्वाह । रकि ज्यः संप्रसारणे जीर इति ॥ ११ ॥

1.44.12
यद्दे॒वानां᳚ मित्रमहः पु॒रोहि॒तो॑न्त᳚रो॒ यासि᳚ दू॒त्य᳚म् ।
सिन्धो᳚रिव॒ प्रस्व᳚नितास ऊ॒र्मयो॒॑ग्नेर्भ्रा᳚जन्ते अ॒र्चयः᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । दे॒वाना᳚म् । मि॒त्र॒॑म॒हः॒ । पु॒रः॑हि᳚तः । अन्त᳚रः । यासि᳚ । दू॒त्य᳚म् ।
सिन्धोः᳚॑इव । प्र॑स्व᳚नितासः । ऊ॒र्मयः᳚ । अ॒ग्नेः । भ्रा॒ज॒न्ते॒ । अ॒र्चयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रमहो मित्राणां पूजकाग्ने यद्यदा पुरोहितस्त्वं वेदेः पूर्व स्यां दिशि स्थापितोंऽतरो देवयजनमध्ये वर्तमानः सन् देवानां दूत्यं दूत कर्म यासि प्राप्नोषि तदानीमग्नेस्तवार्चयो दीप्तयो भ्राजंते । दीप्यंते । तत्र दृष्टांतः । सिंधोरिव यथा समुद्रस्य प्रस्वनितासः प्रकृष्टध्वनियुक्ता ऊर्मयस्तरंगा भ्राजंते तद्वत् ॥ मित्रमहः । मह पूजायां मित्रैर्ऋत्विग्भिर्मह्यते पूज्यत इति मिश्रमहाः । औणादिकोऽसुन् । यासि । यद्वृत्तयोगादनिघातः । दूत्यम् । दूतस्य कर्म दूत्यम् । दूतस्य भागकर्मणी (पा ४-४-१२०) इति यत्प्रत्ययः । सर्वे विधयश्छंदसि विकल्प्यंत इति वचनाद्यतोऽनाव इत्याद्युदात्तत्वाभावे तित्स्वरितमिति स्वरितत्वम् । प्रस्वनितासः । स्यमु स्वन ध्वन शब्दे । भावे निष्ठा । प्रकृष्टं स्वनितं येषां ते प्रस्वनिताः । असुगागमः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ऊर्मयः । अर्तेरूच्च । उ ४-४-४४ । इति मिप्रत्ययः ॥ १२ ॥

1.44.13
श्रु॒धि श्रु᳚त्कर्ण॒ वह्नि᳚भिर्दे॒वैर᳚ग्ने स॒याव᳚भिः ।
आ सी᳚दन्तु ब॒र्हिषि᳚ मि॒त्रो अ᳚र्य॒मा प्रा᳚त॒र्यावा᳚णो अध्व॒रम् ॥
▶ पदपाठः (Word-by-word)
श्रु॒धि । श्रु॒त्॑क॒र्ण॒ । वह्नि᳚॑भिः । दे॒वैः । अ॒ग्ने॒ । स॒याव᳚॑भिः ।
आ । सी॒द॒न्तु॒ । ब॒र्हिषि᳚ । मि॒त्रः । अ॒र्य॒मा । प्रा॒तः॒॑यावा᳚नः । अ॒ध्व॒रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे श्रुत्कर्ण श्रवणसमर्थाभ्यां कर्णाभ्यां युक्ताग्ने श्रुधि । अस्मदीयं वचनं शृणु । यो मित्रो देवो यश्चार्यमा ये चान्ये प्रातर्यावाणः प्रातःकाले देवयजनं गच्छंतो देवास्तैः सर्वैः सयावभिराहवनीयाग्निना त्वया समानगतिभिरन्यैर्वह्निभिर्देवैः सहाध्वरं क्रतुमुद्दिश्य बर्हिषि दर्भ आ सीदंतु । उपविशंतु ॥ शुध्रि । श्रु श्रवणे । श्रुशृण्वित्यादिना हेर्धिरादेशः । बहुलं छंदसीति विकरणस्य लुक् । श्रुत्कर्ण । शृणोतीति श्रुत् । क्विपि तुगागमः । श्रुतौ कर्णौ यस्यासौ श्रुत्कर्णः । वह्निभिः । वह प्रापणे । वहिश्रियुश्रुग्लाहात्वरिभ्यो निदिति निप्रत्ययः । नित्त्वादाद्युदात्तत्वम् । सयावभिः । समानं यांतीति सयावानः । या प्रापणे । अतो मनन्निति वनिप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । प्रातर्यावाणः । पूर्ववत् । प्रातिपदिकांतनुम् विभक्तिषु च (पा ८-४-११) इति णत्वं ॥ १३ ॥

1.44.14
शृ॒ण्वन्तु॒ स्तोमं᳚ म॒रुतः᳚ सु॒दान᳚वो॑ग्निजि॒ह्वा ऋ᳚ता॒वृधः᳚ ।
पिब᳚तु॒ सोमं॒ वरु᳚णो धृ॒तव्र᳚तो॒॑श्विभ्या᳚मु॒षसा᳚ स॒जूः ॥
▶ पदपाठः (Word-by-word)
शृ॒ण्वन्तु᳚ । सोम᳚म् । म॒रुतः᳚ । सु॒॑दान᳚वः । अ॒ग्नि॒॑जि॒ह्वाः । ऋ॒त॒॑वृधः᳚ ।
पिब᳚तु । सोम᳚म् । वरु᳚णः । धृ॒त॑व्र᳚तः । अ॒श्वि॑भ्या᳚म् । उ॒षसा᳚ । स॒॑जूः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुतो देवाः स्तोममस्मदीयं स्तोत्रं शृण्वंतु । कीदृशाः । सुदानवः सुष्ठु फलस्य दातारः अग्निजिह्वा अग्निर्जिह्वास्थानीयो मुख्यो येषु मरुत्सुतादृशाः ऋुतावृधः सत्यस्य यज्ञस्य वा वर्धकाः । तथा धृतव्रतो गृहीतकर्मा वरुणो देवोऽश्विभ्यां देवाभ्यामुषसा देवतया सजूः सह सोमं पिबतु ॥ सुदानवः । डुदाञ् दाने । दाभाभ्यां नुः (उ ३-३२) इति भावे नुप्रत्ययः । दानुशब्द आद्युदात्तः । शोभनं दानु येषाम् । आद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । अग्निजिह्वाः । अग्नेर्जिह्वायामवस्थिता हविर्भाज इत्यर्थः । तात्स्थ्या त् ताच्छब्द्यम् । अग्निर्जिह्वास्थानीयो येषां ते । छांदसमंतोदात्तत्वम् । ऋतावृधः । ऋतस्य सत्यस्य यज्ञस्य वा वर्धयितारः । वृधेरंतर्भावितण्यर्थात् । क्विप्चेति क्विप् । अन्येषामपि दृश्यत इति पूर्वपदस्य दीर्घत्वं ॥ ३० ॥ १४ ॥