स॒जूर॒श्विभ्या᳚मु॒षसा᳚ सु॒वीर्य᳚म॒स्मे धे᳚हि॒ श्रवो᳚ बृ॒हत् ॥
पदपाठः (Word-by-word)
स॒॑जूः । अ॒श्वि॑भ्या᳚म् । उ॒षसा᳚ । सु॒॑वीर्य᳚म् । अ॒स्मे इति᳚ । धे॒हि॒ । श्रवः᳚ । बृ॒हत् ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने त्वं जुष्टत्वादिविशेषगुणयुक्तोऽसि । जुष्टः सेवितो दूतो देवानां वार्ताहारो हव्यवाहनो हविषो वोढा अध्वराणां क्रतूनां रथीः रथस्थानीयः । तथा च मंत्रांतरं ब्राह्मणेनैव व्याख्यातम् । रथीरद्वराणामित्याहैष हि देवरथ इति । ब्राह्मणांतरं च । रथीरध्वराणामित्याह रथो ह वा एष भूतो देवेभ्यो हव्यं वहतीति । तादृशस्त्वमश्विभ्यां देवताभ्यामुषसा देवतया च सजूः सहितो भूत्वा सुवीर्यं शोभसवीर्योपेतं बृहत् प्रभूतं श्रवोऽन्नमस्मे धेहि । अस्मासु प्रक्षिप ॥ जुष्टः । जुषी प्रीतिसेवनयोः । नित्यं मंत इत्याद्युदात्तत्वम् । आसि । सिपि तासस्त्योर्लोपः (पा ७-४-५०) इति सलोपः । हि चेति निघातप्रतिषेधः । हव्यवाहनः । हव्यं वहतीति हव्यवाहनः । हव्येऽनंतःपाहम् (पा ३-२-६६) इति ञ्युट् । योरसादेशः । ञित्त्वादाद्युदात्तत्वे कृदुरपदप्रकृति स्वरत्वम् । अग्ने । पादादित्वादाष्टमिकनिघाताभावः । रथीः । रथशब्धात्स्वार्थिक ईकार प्रत्ययः । अध्वराणाम् । ध्वरो नास्त्येष्विति चहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । सुवीर्यम् । वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम् । अस्मे । सुपां सुलुगिति सप्तम्याः शे आदेशः ॥ २ ॥