प्रथमं मण्डलम् - सूक्तम् 100

19 ऋचः

ऋषिः: वार्षागिराः ऋज्राश्वांबरीष-सहदेव-भयमान-सुराधसः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 1.100 - सम्पूर्णम्

1 / 19
ऋक्: 1.100.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (19)
1.100.1
स यो वृषा॒ वृष्ण्ये᳚भि॒ः समो᳚का म॒हो दि॒वः पृ᳚थि॒व्याश्च᳚ स॒म्राट् ।
स॒ती॒नस᳚त्वा॒ हव्यो॒ भरे᳚षु म॒रुत्वा᳚न्नो भव॒त्विन्द्र᳚ ऊ॒ती ॥
▶ पदपाठः (Word-by-word)
सः । यः । वृषा᳚ । वृष्ण्ये᳚भिः । सम्॑ओ᳚काः । म॒हः । दि॒वः । पृ॒थि॒व्याः । च॒ । स॒म्॑राट् ।
स॒ती॒न॑स᳚त्वा । हव्यः᳚ । भरे᳚षु । म॒रुत्वा᳚न् । नः॒ । भ॒व॒तु॒ । इन्द्रः᳚ । ऊ॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

स यो वृषेत्येकोनविंशत्यृचं सप्तमं सूक्तम् । अत्रानुक्रम्यते । स यो वृषैकोना वार्षागिरा ऋज्राश्वांबरीषसहदेवभयमानसुराधस इति । वृषागिरो महाराजस्य पुत्रभूता ऋज्राश्वादयः पंच राजर्षयः सहेदं सूक्तं ददृशुः । अतस्तेऽस्य सूक्तस्य ऋषयः । उक्तं ह्यार्षानुक्रमण्याम् । सूक्तं स यो वृषेत्येतत्पंच वार्षागिरा विदुः । नियुक्ता नामधेयैः स्वैरपि चैतत्त्यदित्यृचीति । अनादेशपरिभाषया त्रिष्टुप् । इंद्रो देवता ॥ दशरात्रस्य षष्ठेऽहनि मरुत्वतीय इदं सूक्तम् । तथा च सूत्रितम् । यं त्वं रथमिंद्र स यो वृषेंद्र मरुत्व इति तिस्र इति मरुत्वतीयम् (आ ८-१) इति ॥

य इंद्रो वृषा कामानां वर्षिता वृष्ण्येभिर्वृष्णि भवैर्वीर्यैः समोकाः सम्यक् समवेतः संगतो महो महतो दिवो द्युलोकस्य पृथिव्याः प्रथिताया भूमेश्च सम्राडीश्वरः सतीनसत्वा । सतीनमित्युदकनाम । उदकस्य सत्वा सादयिता गमयिता । भरेषु संग्रामेषु हव्यः सर्वैः स्तोतृभिराह्वातव्यः एवंभूतो मरुत्वान्मरुद्भिर्युक्तः स इंद्रो नोऽस्माकमूती ऊतये रक्षणाय भवतु ॥ वृष्ण्येभिः । वृषञ्शब्दाद्भवे छंदसीति यत् । अल्लोपोऽन इत्यकारलोपः । ये चाभावकर्मणोरिति प्रकृतिभावस्तु व्यत्ययेन न भवति । महः । मह पूजायां क्विप् । यद्वा । महच्छब्देऽच्छब्दलोपः । सावेकाच इति विभक्तेरुदात्तत्वम् । सम्राट् । णो राजि समः क्वौ (पा ८-३-२५) इति राजतौ क्विबंत उत्तरपदे समो मकारस्य मकारादेशः । मकारस्य च मकारवचनमनुस्वारबाधनार्थं सतीनसत्वा । षद्लृविशरणगत्यवसादनेषु । मेघेषु निषीदतीति सतीनं वृष्व्युदकम् । औणादिक ईनप्रत्ययस्तकारांतादेशश्च । यद्वा । सती माध्यमिका वाक् । सा इना ईश्वरा यस्य तत्सतीनम् । व्यत्ययेन पुंवद्भावाभावः । तत्सत्वा । सदेरंतर्भावितण्यर्थात्प्र ईरसद्योस्तुट्च (उ ४-११६) इत्यौणादिको वनिप् तुडागमश्च । मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वम् । मरुत्वान् । झय इति मतुपो वत्वम् । ऊती । ऊतियूतीत्यादिना क्तिन उदात्तत्वम् । सुपां सुलुगिति चतुर्थ्याः पूर्वसवर्णदीर्घः ॥ १ ॥

1.100.2
यस्याना᳚प्त॒ः सूर्य᳚स्येव॒ यामो॒ भरे᳚भरे वृत्र॒हा शुष्मो॒ अस्ति᳚ ।
वृष᳚न्तम॒ः सखि᳚भि॒ः स्वेभि॒रेवै᳚र्म॒रुत्वा᳚न्नो भव॒त्विन्द्र᳚ ऊ॒ती ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । अना᳚प्तः । सूर्य᳚स्य॑इव । यामः᳚ । भरे᳚॑भरे । वृ॒त्र॒॑हा । शुष्मः᳚ । अस्ति᳚ ।
वृष᳚न्॑तमः । सखि᳚॑भिः । स्वेभिः᳚ । एवैः᳚ । म॒रुत्वा᳚न् । नः॒ । भ॒व॒तु॒ । इन्द्रः᳚ । ऊ॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्येंद्रस्य यामो गतिरनाप्तः परैरप्राप्ता सूर्यस्येव । यथा सूर्यस्य गतिरन्यैर्न प्राप्तुं शक्यते तद्वत् । स्वेभिरात्मीयैरेवैर्गमनशीलैः सखिभिर्मित्रभूतैर्मरुद्भिः सह वृषंतमोऽतिशयेन कामानां वर्षिता । भरे भरे सर्वेषु संग्रामेषु वृत्रहा शत्रूणां हंता शुष्मः सर्वेषामसुराणां शोषकः । एवंभूतो य इंद्रोऽस्ति विद्यते स मरुत्वानिंद्रो नोऽस्माकं रक्षणाय भवतु ॥ यामः । या प्रापणे । अर्तिस्तुस्वित्यादिना भावे मन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । शुष्मः । शुष शोषणे अविसिविसिशुषिभ्यः कित् (उ १-१४३) इति मन् प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । अस्ति । यद्वृत्तयोगादनिघातः । वृषंतमः । वृषञ्शतब्दादुत्तरस्य तमपो नाद्घस्य (पा ८-२-१७) इति नुट् । एवैः । इण् गतौ । इण् शीङ् भ्यां वन् ॥ २ ॥

1.100.3
दि॒वो न यस्य॒ रेत᳚सो॒ दुघा᳚ना॒ः पन्था᳚सो॒ यन्ति॒ शव॒साप᳚रीताः ।
त॒रद्द्वे᳚षाः सास॒हिः पौंस्ये᳚भिर्म॒रुत्वा᳚न्नो भव॒त्विन्द्र᳚ ऊ॒ती ॥
▶ पदपाठः (Word-by-word)
दि॒वः । न । यस्य᳚ । रेत᳚सः । दुघा᳚नाः । पन्था᳚सः । यन्ति᳚ । शव᳚सा । अप᳚रि॑इताः ।
त॒रत्॑द्वे᳚षाः । स॒स॒हिः । पौंस्ये᳚भिः । म॒रुत्वा᳚न् । नः॒ । भ॒व॒तु॒ । इन्द्रः᳚ । ऊ॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्येंद्रस्य पंथासो रश्मयो रेतसो वृष्व्युदकानि दुघाना दुहंतः प्रवर्षंतो यंति निर्गच्छंति द्युलोकादितस्ततः प्रसरंति । तत्र दृष्टांतः । दिवो न । यथा द्योतमानस्य सूर्यस्य किरणा वृष्टिं कुर्वंतो नभःस्थलान्निर्गच्छंति तद्वत् । कीदृशा रश्मयः । शवसा बलेन सहिताः । अपरीताः । परैरनभिगताः । दुःष्प्रापा इत्यर्थः । सोऽयमिंद्रस्तरद्द्वेषा द्वेषांसि शत्रूंस्तरन् । जितशत्रुक इत्यर्थः । पौंस्येभिर्बलैः ससहिः शत्रूणामभिभविता एवंभूतो मरुत्वानिंद्रो नोऽस्माकं रक्षणाय भवतु ॥ रेतसः । रेत इत्युदकनाम । रीयते गच्छतीति रेतः । रीगतिरेषणयोः । स्रुरीभ्यां तुट्च (उ ४-२०१) इत्यसुन् तुडागमश्च । शसो व्यत्ययेन ङसादेशः । दुघानाः । दुह प्र पूरणे । कर्तरि लटः शानच् । अदादित्वाच्छपो लुक् । व्यत्ययेन घत्वम् । वृषादेराकृतिगणत्वादाद्युदात्तत्वम् । पंथासः । पतंतीति पंथानो रश्मयः । पतेस्थ च (उ ४-१२) इतीनिप्रत्ययस्थकारांतादेशश्च । जसि पथिमथ्यृभुक्षामादिति व्यत्ययेनात्वम् । आज्जसेरसुक् । यद्वा । पंथान इत्यत्र वर्णव्यापत्त्या नकारस्य सकारः । पथिमथोः सर्वनामस्थान इत्याद्युदात्तत्वम् । ससहिः । षह अभिभवे । उत्सर्गश्छंदसीति वचनादादृगमहन इति किप्रत्ययः । लिड्वद्भावाद्द्विर्वचनं ॥ ३ ॥

1.100.4
सो अङ्गि᳚रोभि॒रङ्गि᳚रस्तमो भू॒द्वृषा॒ वृष᳚भि॒ः सखि᳚भि॒ः सखा॒ सन् ।
ऋ॒ग्मिभि᳚रृ॒ग्मी गा॒तुभि॒र्ज्येष्ठो᳚ म॒रुत्वा᳚न्नो भव॒त्विन्द्र᳚ ऊ॒ती ॥
▶ पदपाठः (Word-by-word)
सः । अङ्गि᳚रः॑भिः । अङ्गि᳚रः॑तमः । भू॒त् । वृषा᳚ । वृष᳚॑भिः । सखि᳚॑भिः । सखा᳚ । सन् ।
ऋ॒ग्मि॑भिः᳚ । ऋ॒ग्मी । गा॒तु॑भिः᳚ । ज्येष्ठः᳚ । म॒रुत्वा᳚न् । नः॒ । भ॒व॒तु॒ । इन्द्रः᳚ । ऊ॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इंद्रोऽंगिरोभिः । अंगंति गच्छंतीत्यंगिरसो गंतारः । तेभ्योऽप्यंगिरस्तमोऽभूत् । अतिशयेन गंता भवति । वृषभिर्वृषा वर्षितृभ्योऽप्यतिशयेन वर्षिता सखिभिः समानख्यानेभ्यो मित्रभूतेभ्योऽपि सखातिऽशयेन हितकारी एवंभूतः सन् ऋग्मिभिरर्चनीयेभ्योऽपि ऋग्म्यर्चनीयो भवति गातुभिर्गातव्येभ्यः स्तोतव्येभ्योऽपि ज्येष्ठोऽतिशयेन स्तोतव्यः एवंगुणविशिष्टो मरुत्वानिंद्रो रक्षणाय भवतु ॥ अंगिरोभिः । अगि रगि लगि गत्यर्थाः । अंगिरा अप्सराः । उ उ ४-२३५, २३६ । इत्यौणादिकोऽसुन्प्रत्ययो निपात्यते । इदमादिषु सर्वत्र पंचम्यर्थे तृतीया । ऋग्मिभिः । ऋच स्तुतौ । संपदादिलक्षणो भावे क्विप् । मत्वर्थीयो मिनिः । पदत्वात्कुत्वं जश्त्वं च । गातुभिः । गा स्तुतौ । कमिमनिजनीत्यादिना कर्मणि तुप्रत्ययः ॥

1.100.5
स सू॒नुभि॒र्न रु॒द्रेभि॒रृभ्वा᳚ नृ॒षाह्ये᳚ सास॒ह्वा{4} अ॒मित्रा᳚न् ।
सनी᳚ळेभिः श्रव॒स्या᳚नि॒ तूर्व᳚न्म॒रुत्वा᳚न्नो भव॒त्विन्द्र᳚ ऊ॒ती ॥
▶ पदपाठः (Word-by-word)
सः । सू॒नु॑भिः᳚ । न । रु॒द्रेभिः᳚ । ऋभ्वा᳚ । नृ॒॑सह्ये᳚ । स॒स॒ह्वान् । अ॒मित्रा᳚न् ।
स॑नी᳚ळेभिः । श्र॒व॒स्या᳚नि । तूर्व᳚न् । म॒रुत्वा᳚न् । नः॒ । भ॒व॒तु॒ । इन्द्रः᳚ । ऊ॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

सूनुभिर्न पुत्रैरिव रुद्रेभी रुद्रपुत्रैर्मरुद्भिर्युक्त ऋभ्वा महान् एवंभूतः स इंद्रो नृषाह्ये नृभिः पुरुषैः सोढव्ये संग्रामेऽमित्रान् शत्रून् ससह्वानभिभूतवान् । अपि च सनीळेभिः समाननिलयैर्मरुद्भिः सह श्रवस्यानि । श्रव इत्यन्ननाम । तद्धेतुभूतान्युदकानि तूर्वन् मेघात्प्रच्यावयन् मरुत्वानिंद्रोऽस्माकं रक्षणाय भवतु ॥ नृषाह्ये । षह मर्षणे । शकिसहोश्च (पा ३-१-९९) इति कर्मणि यत् । अन्येषामपि दृश्यत इति संहितायां धात्वकारस्य दीर्घत्वम् । यतोऽनाव इत्याद्युदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् । ससह्वान् । षह अभिभवे । लिटः क्वसुः । अभ्यासदीर्घत्वं छांदसम् । अमित्रान् । मित्राण्येषु न संतीत्यमित्राः नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वम् । सनीळेभिः । समानं नीळं येषां ते सनीळाः । समानस्य छंदसीति सभावः ॥ ५ ॥

1.100.6
स म᳚न्यु॒मीः स॒मद᳚नस्य क॒र्तास्माके᳚भि॒र्नृभि॒ः सूर्यं᳚ सनत् ।
अ॒स्मिन्नह॒न्त्सत्प᳚तिः पुरुहू॒तो म॒रुत्वा᳚न्नो भव॒त्विन्द्र᳚ ऊ॒ती ॥
▶ पदपाठः (Word-by-word)
सः । म॒न्यु॒॑मीः । स॒॑मद᳚नस्य । क॒र्ता । अ॒स्माके᳚भिः । नृ॑भिः᳚ । सूर्य᳚म् । स॒न॒त् ।
अ॒स्मिन् । अह᳚न् । सत्॑प᳚तिः । पु॒रु॒॑हू॒तः । म॒रुत्वा᳚न् । नः॒ । भ॒व॒तु॒ । इन्द्रः᳚ । ऊ॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

शत्रुभिरपहृतासु गोषु तैः सह युद्धार्थं विनिर्गता ऋज्राश्वादयोऽनेन सूक्तेनेंद्रमस्तुवन् । स इंद्रो मन्युमीर्मन्योः कोपस्य निर्माता । यद्वा । अभिमन्यमानस्य शत्रोर्हिंसकः । अपि च समदनस्य संग्रामस्य कर्ता । सत्पतिः सतां पालयिता । पुरुहूतो बहुभिर्यजमानैराहूतः एवंगुणविशिष्टः स अस्मिन्नहन् अस्मिन्धिवसेऽस्माकेभिरस्माकैरस्मदीयैर्नृभिः पुरुषैः सूर्यं सूर्यप्रकाशं सनत् । संभक्तं करोतु । शत्रुपुरुषैस्तु दृष्टिनिरोधकमंधकारं संयोजयतु । स च मरुत्वानिंद्रोऽस्माकं रक्षणाय भवतु ॥ मन्यमीः । मन्युं मिनातीति मन्युमीः । मीञ् हिंसायाम् । क्विप् । समदनस्य । सह माद्यंत्यस्मिन्निति समदनः संग्रामः । मदी हर्षे । अधिकरणे ल्युट् । सहस्य सः संज्ञायाम् (पा ६-३-७८) इति सभावः । अस्माकेभिः । तस्मिन्नणि च युष्माकास्माकावित्यण्यस्मच्छब्दस्यास्माकादेशः । संज्ञापूर्वकस्य विधेरनित्यत्वाद्वृद्ध्यभावः । बहुलं छंदसीति भिस ऐसभावः । स्वरस्तु प्रास्माकासश्च सूरयः । ऋ १-९७-३ । इत्यत्रोक्तः । सनत् । वन षण संभक्तौ । लेट्यडागमः । अहन् । सुपां सुलुगिति सप्तम्या लुक् सत्पतिः । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरत्वं ॥ ६ ॥

1.100.7
तमू॒तयो᳚ रणय॒ञ्छूर᳚सातौ॒ तं क्षेम᳚स्य क्षि॒तयः᳚ कृण्वत॒ त्राम् ।
स विश्व᳚स्य क॒रुण᳚स्येश॒ एको᳚ म॒रुत्वा᳚न्नो भव॒त्विन्द्र᳚ ऊ॒ती ॥
▶ पदपाठः (Word-by-word)
तम् । ऊ॒तयः᳚ । र॒ण॒य॒त् । शूर᳚॑सातौ । तम् । क्षेम᳚स्य । क्षि॒तयः᳚ । कृ॒ण्व॒त॒ । त्राम् ।
सः । विश्व᳚स्य । क॒रुण᳚स्य । ई॒शे॒ । एकः᳚ । म॒रुत्वा᳚न् । नः॒ । भ॒व॒तु॒ । इन्द्रः᳚ । ऊ॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

तमिंद्रं शूरसातौ शूरैर्वीरपुरुषैः संभजनीये संग्राम ऊतयो गंतारो मरुतो रणयन् । रमयंति । यद्वा प्रहर भगवो जहि वीरयस्वेत्येवंरूपं शब्दमिंद्रमुद्दिश्य कुर्वंति । अपि च क्षितयो मनुष्यास्तमिंद्रं क्षेमस्य रक्षणीयस्य सर्वस्य धनस्य त्रां त्रातारं रक्षितारं कृण्वत । कुर्वंति । देवतांतरादस्य कोऽतिशय इति चेत् । उच्यते । स इंद्रो विश्वस्य सर्वस्य करुणस्याभिमतफलनिष्पादनरूपस्य कर्मण एकोऽसहाय एवेशे । ईष्टे । अन्यत्पूर्ववत् ॥ ऊतयः । अवतेर्गत्यर्थात् कृत्यल्युटो बहुलमिति कर्तरि क्तिन् । तितुत्रेतीट् प्रतिषेधः । ज्वरत्वरेत्यादिना वकारस्योपधायाश्च ऊट् । ऊतियूतीत्यादिना क्तिन उदात्तत्वम् । यद्वा । कर्तरि क्तिच् । रणयन् । रमतेर्हेतुमण्णिजंताद्वर्तमाने छांदसो लङ् । अंत्यविकारश्छांदसः । यद्वा । रण शब्दार्थः । अस्माण्णिजंतात्पूर्ववल्लङ् । त्राम् । त्रैङ् पालने । त्रायत इति त्राः । क्विप् प्चेति चशब्देन दृशिग्रहणानुकर्षणान्निरुपपदादपि क्विप् । करुणस्य । डुकृञ् करणे । कृवृ तृदारिभ्य उनन् (उ ३-५३) इति भावे उनन् । व्यत्ययेन प्रत्ययाद्युदात्तत्वम् । ईशे । ईश ऐश्वर्ये । लोपस्त आत्मनेपदेष्टिति तलोपः ॥ ७ ॥

1.100.8
तम᳚प्सन्त॒ शव᳚स उत्स॒वेषु॒ नरो॒ नर॒मव᳚से॒ तं धना᳚य ।
सो अ॒न्धे चि॒त्तम᳚सि॒ ज्योति᳚र्विदन्म॒रुत्वा᳚न्नो भव॒त्विन्द्र᳚ ऊ॒ती ॥
▶ पदपाठः (Word-by-word)
तम् । अ॒प्स॒न्त॒ । शव᳚सः । उ॒त्॑स॒वेषु᳚ । नरः᳚ । नर᳚म् । अव᳚से । तम् । धना᳚य ।
सः । अ॒न्धे । चि॒त् । तम᳚सि । ज्योतिः᳚ । वि॒द॒त् । म॒रुत्वा᳚न् । नः॒ । भ॒व॒तु॒ । इन्द्रः᳚ । ऊ॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

नरो नेतारः स्तोतारः शवसो बलस्य संबंधिषूत्सवेषु संग्रामेषु नरं जयस्य नेतारं तमिंद्रमप्संत । आप्नुवंति । किमर्थम् । अवसेऽन्नार्थं रक्षणार्थं वा । तथा धनाय धनार्थं च तमिंद्रं प्राप्नुवंति । यस्मात्स इंद्रस्तमसि दृष्टिप्रतिबंधकेऽंधे चित् आध्यानरहिते चित्तव्यामोहकरेऽपि संग्रामे ज्योतिर्विजयलक्षणं प्रकाशं विदत् । लंभयति । तस्मात्तमेव प्राप्नुवंतीत्यर्थः अन्यत्समानं ॥ अप्संत । आप्लृव्याप्तौ । लङिव्यत्ययेनात्मनेपदम् । व्यत्ययेन क्सप्रत्ययः । व्यत्ययेन धातोर्ह्रस्वत्वम् । विवत् । विद्लृ लाभे । छंदसि लुङ् लङ् लिट इति वर्तमाने छांदसो लुङ् । लृदित्त्वाच्च्लेरङादेशः । बहुलं छंदस्यमाङ्योगेऽप्रीत्यडभावः ॥ ८ ॥

1.100.9
स स॒व्येन᳚ यमति॒ व्राध᳚तश्चि॒त्स द᳚क्षि॒णे संगृ᳚भीता कृ॒तानि᳚ ।
स की॒रिणा᳚ चि॒त्सनि᳚ता॒ धना᳚नि म॒रुत्वा᳚न्नो भव॒त्विन्द्र᳚ ऊ॒ती ॥
▶ पदपाठः (Word-by-word)
सः । स॒व्येन᳚ । य॒म॒ति॒ । व्राध᳚तः । चि॒त् । सः । द॒क्षि॒णे । सम्॑गृ᳚भीता । कृ॒तानि᳚ ।
सः । की॒रिणा᳚ । चि॒त् । सनि᳚ता । धना᳚नि । म॒रुत्वा᳚न् । नः॒ । भ॒व॒तु॒ । इन्द्रः᳚ । ऊ॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इंद्रः सव्येन वावहस्तेनैकहस्तेन व्राधतश्चित् हिंसतो महतः शत्रूनपि यमति । नियमयति । तथा स इंद्रो दक्षिणे दक्षिणपार्श्वास्थेन हस्तेनैकेन यजमानैः कृतानि हवींषि संगृभीता । संगृह्णाति । अपि च स इंद्रः कीरिणा चित् कीर्तयित्रा स्तोत्रा च स्तुतः सन्धनानि सनिता प्रदानशीलो भवति । हविःष्प्रदातृणामिव स्तोतृणामपि धनं प्रयच्छतीत्यर्थः । शिष्टं स्पष्टं ॥ यमति । यम उपरमे । णिच्यमंतत्वान्मित्त्वे मितां ह्रस्व इति ह्रस्वत्वम् । छंदस्युभयथेति शप अर्धधातुकत्वाण्णेरनिटीति णिलोपः । व्राधतः । वधु वृद्धौ । अस्मादतिप्रत्यय औणादिक आमागमश्च । वृषादित्वादाद्युदात्तत्वम् । संगृभीता । ग्रह उपादाने । लिङि बहुलं छंदसीति विकरणस्य लुक् । लिङः सलोप इति सलोपः । ग्रहिज्यादिना संप्रसारणम् । हृग्रहोर्भ इति भत्वम् । द्व्यचोऽतस्तिङ इति दीर्घः । सनिता । षणु दाने । ताच्छीलिकस्तृन् । धनानि । न लोकाव्ययेति षष्ठीप्रतिषेधः ॥ ९ ॥

1.100.10
स ग्रामे᳚भि॒ः सनि᳚ता॒ स रथे᳚भिर्वि॒दे विश्वा᳚भिः कृ॒ष्टिभि॒र्न्व१॒᳚द्य ।
स पौंस्ये᳚भिरभि॒भूरश᳚स्तीर्म॒रुत्वा᳚न्नो भव॒त्विन्द्र᳚ ऊ॒ती ॥
▶ पदपाठः (Word-by-word)
सः । ग्रामे᳚भिः । सनि᳚ता । सः । रथे᳚भिः । वि॒दे । विश्वा᳚भिः । कृ॒ष्टि॑भिः᳚ । नु । अ॒द्य ।
सः । पौंस्ये᳚भिः । अ॒भि॒॑भूः । अश᳚स्तीः । म॒रुत्वा᳚न् । नः॒ । भ॒व॒तु॒ । इन्द्रः᳚ । ऊ॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इंद्रो ग्रामेभिर्मरत्संघैः सह सनिता फलानां प्रदाता भवति । स चाद्यास्मिन्नहनि नु क्षिप्रं विश्वाभिः कृष्विभिः सर्वैर्मनुष्यै रथेभिरिंद्रसंबंधिभीः रथैः कारणभूतैर्विदे । विज्ञायते । अपि च स इंद्रः पौंस्येभिः स्वकीयैर्बलैरशस्तीरशंसनीयान् शत्रूनभिभूः । अभिभवन्वर्तते । मरुत्वान्स इंद्रो नोऽस्माकं रक्षणाय भवतु ॥ ग्रामेभिः । बहुलं छंदसीति भिस ऐसभावः । ग्रामादीनां च (फि २-१५) इत्याद्युदात्तत्वम् । विदे । विद ज्ञाने । कर्मणि लट् । बहुलं छंदसीति विकरणस्य लुक् । लोपस्त आत्मनेपदेष्विति तलोपः ॥ १० ॥

1.100.11
स जा॒मिभि॒र्यत्स॒मजा᳚ति मी॒ळ्हे॑जा᳚मिभिर्वा पुरुहू॒त एवै᳚ः ।
अ॒पां तो॒कस्य॒ तन᳚यस्य जे॒षे म॒रुत्वा᳚न्नो भव॒त्विन्द्र᳚ ऊ॒ती ॥
▶ पदपाठः (Word-by-word)
सः । जा॒मि॑भिः᳚ । यत् । स॒म्॑अजा᳚ति । मी॒ळ्हे । अजा᳚मि॑भिः । वा॒ । पु॒रु॒॑हू॒तः । एवैः᳚ ।
अ॒पाम् । तो॒कस्य᳚ । तन᳚यस्य । जे॒षे । म॒रुत्वा᳚न् । नः॒ । भ॒व॒तु॒ । इन्द्रः᳚ । ऊ॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरुहूतो बहुभिर्यजमानैराहूतः स इंद्रो मीळ्हे संग्रामे । मीळ्हमिति धननाम । तद्धेतुत्वात्संग्रामोऽपि मीळ्हशब्देनोच्यते । जामिभिर्बंधुभिरजामिभिर्वा बांधवरहितैर्वैवैर्युद्धार्थं मरुद्भिः सह यद्यदा समजाति संगच्छते । तेषामुभयविधानामपामिंद्रं प्राप्नुवतां पुरुषाणां तोकस्य पुत्रस्य तनयस्य तत्पुत्रस्य च जेषे जयप्राप्तये स इंद्रो भवति । किमु वक्तव्यमस्माकं स्तोतृतमानां जयो भवतीति । अन्यत्समानं ॥ समजाति । अज गतिक्षेपणयोः । लेट्याडागमः । जेषे । जि जये । औणादिकः सप्रत्ययः । चतुर्थ्यर्थे सप्तमी । यद्वा । जेषृ णेषृ प्रेषृ गतौ । क्विप्चेति क्विप् । सावेकाच इति विभक्तेरुदात्तत्वं ॥ ११ ॥

1.100.12
स व᳚ज्र॒भृद्द᳚स्यु॒हा भी॒म उ॒ग्रः स॒हस्र᳚चेताः श॒तनी᳚थ॒ ऋभ्वा᳚ ।
च॒म्री॒षो न शव᳚सा॒ पाञ्च᳚जन्यो म॒रुत्वा᳚न्नो भव॒त्विन्द्र᳚ ऊ॒ती ॥
▶ पदपाठः (Word-by-word)
सः । व॒ज्र॒॑भृत् । द॒स्यु॒॑हा । भी॒मः । उ॒ग्रः । स॒हस्र᳚॑चेताः । श॒त॑नी᳚थः । ऋभ्वा᳚ ।
च॒म्री॒षः । न । शव᳚सा । पाञ्च᳚॑जन्यः । म॒रुत्वा᳚न् । नः॒ । भ॒व॒तु॒ । इन्द्रः᳚ । ऊ॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इंद्रो वज्रभृत् अन्यैर्भर्तुमशक्यस्य वज्रस्य भर्ता । दस्युहा दस्यूनामुपक्षपयितृणामसुराणां हंता । भीमः सर्वेषां भयहेतुः उग्र उद्गूर्णतेजाः सहस्रचेता जहुविधज्ञानः । सर्वज्ञ इत्यर्थः । शतनीथो बहुस्तुतिर्बहुविधप्रापणो वा ऋभ्वा उरु भासमानो महान्वा । चम्रीषो न चम्वा चमसे रसात्मनावस्थितः सोम इव शवसा बलेन पांचजन्यः । गंधर्वा आप्सरसो देवा असुरा रक्षांसि पंच जनाः । निषादपंचमाश्चत्वारो वर्णा वा । तेषु रक्षकत्वेन भवः । एवंभूतं स मरुत्वानिंद्रो नोऽस्माकं रक्षणाय भवतु ॥ दस्युहा । बहुलं छंदसीति हंतेः क्विप् । भीमः । ञिभी भये । भीमादयोऽपादाने (पा ३-४-७४) इत्यपादाने भियः षुग्वा (उ १-१४७) इति मक् । शतनीथः । णीञ् प्रापणे । हनिकुषिनीरमिकाशिभ्यः क्थन् (उ २-२) इति क्थन्प्रत्ययः । चम्रीषः । इष गतौ । चम्वामिष्यति गच्छतीति चम्रीषः । इगुपधलक्षणः कप्रत्ययः । वर्णव्यापत्त्यारेपो दीर्घश्च । यद्वा चमेरौणादिकः ईषन्प्रत्ययः । पूर्ववद्रेफः । पांचजन्यः । भवार्थे बहिर्देवपंचजनेभ्यश्चेति वक्तव्यम् । का ४-३-५८-१ । इति ञ्यप्रत्ययः । ञित्त्वादाद्युदात्तत्वं ॥ १२ ॥

1.100.13
तस्य॒ वज्र᳚ः क्रन्दति॒ स्मत्स्व॒र्षा दि॒वो न त्वे॒षो र॒वथ॒ः शिमी᳚वान् ।
तं स᳚चन्ते स॒नय॒स्तं धना᳚नि म॒रुत्वा᳚न्नो भव॒त्विन्द्र᳚ ऊ॒ती ॥
▶ पदपाठः (Word-by-word)
तस्य᳚ । वज्रः᳚ । क्र॒न्द॒ति॒ । स्मत् । स्वः॒॑साः । दि॒वः । न । त्वे॒षः । र॒वथः᳚ । शिमी᳚॑वान् ।
तम् । स॒च॒न्ते॒ । स॒नयः᳚ । तम् । धना᳚नि । म॒रुत्वा᳚न् । नः॒ । भ॒व॒तु॒ । इन्द्रः᳚ । ऊ॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

तस्येंद्रस्य वज्रः कुलिशः स्मत् भृशं क्रंदति । शत्रूनाक्रंदयति । रोदयतीत्यर्थः । य इंद्रः स्वर्षाः शोभनस्योदकस्य दाता दिवो न दिवः संबंधी सूर्य इव त्वेषो दीप्तः रवथः शब्दस्य गर्जनलक्षणस्य कर्ता शिमीवान् । शिमीति कर्मनाम । लोकानुग्राहकेण कर्मणा युक्तस्तमिंद्रं सनयो धनस्य दानानि सचंते । सेवंते । तथा तं धनानि च सेवंते । स मरुत्वानिंद्रो नोऽस्माकं रक्षणाय भवतु ॥ क्रंदति । कदि क्रदि क्लदि आह्वाने रोदने च । छंदस्युभयथेति शप आर्धधातुकत्वाण्णेरनिटीति णिलोपः । स्वर्षाः । सुपूर्वादर्तेर्विच् । सुष्ठ्वर्ति गच्छतीति स्वरुदकम् । तत्सनोतीति स्वर्षाः । षणु दाने । जनसनखनक्रमगमो विट् । विड्वनोरनुनासिकस्यादित्यात्वम् । सनोतेरनः (पा ८-३-१०८) इति षत्वम् । त्वेषः । त्विष दीप्तौ । पचाद्यच् । रवथः । रु शब्दे । शीङ् शपिरुगमिवंचिजीविप्राणिभ्योऽथः (उ ३-११३) इत्यथप्रत्ययः । गुणावादेशौ । सनयः । सनोतेर्भाव औणादिक इप्रत्ययः ॥ १३ ॥

1.100.14
यस्याज᳚स्रं॒ शव᳚सा॒ मान᳚मु॒क्थं प᳚रिभु॒जद्रोद᳚सी वि॒श्वतः᳚ सीम् ।
स पा᳚रिष॒त्क्रतु᳚भिर्मन्दसा॒नो म॒रुत्वा᳚न्नो भव॒त्विन्द्र᳚ ऊ॒ती ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । अज᳚स्रम् । शव᳚सा । मान᳚म् । उ॒क्थम् । प॒रि॒॑भु॒जत् । रोद᳚सी॒ इति᳚ । वि॒श्वतः᳚ । सी॒म् ।
सः । पा॒रि॒ष॒त् । क्रतु᳚॑भिः । म॒न्द॒सा॒नः । म॒रुत्वा᳚न् । नः॒ । भ॒व॒तु॒ । इन्द्रः᳚ । ऊ॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्येंद्रस्योक्थं प्रशस्यं शवसा मानं बलेन सर्वस्य परिच्छेदकं सर्वेषां बलस्योपमानभूतं वा रोधसी द्यावापृथिव्यौ विश्वतः सीं सर्वतोऽजस्रमनवरतं परिभुजत् परितः सर्वतो भुनक्ति पालयति स इंद्रः क्रतुभिरस्माभिः कृतैर्यागैर्मंदसानोमोदमानः सन्पारिषत् । अस्मान्दुरितात्पारयतु ॥ उक्थम् । वच परिभाषणे । पातृतु दिवचीत्यादिना कर्मणि थक् । वचिस्वपीत्यादिना संप्रसारणम् । परिभुजत् । भुज पालनाभ्यवहारयोः । लेट्यडागमः । व्यत्ययेन शः । पारिषत् । पार तीर कर्मसमाप्तौ । लेट्यडागमः । सिब्बहुलं लेटीति सिप् । तस्यार्धधातुकत्वादिट् । व्यत्ययेन णिलोपः । मंदसानः । मदि स्तुतिमोदमदस्वप्नकांतिगतिषु । ऋंजिवृधिमंदिसहिभ्यः कित् (उ २-८७) इत्यसानच् प्रत्ययः ॥ १४ ॥

1.100.15
न यस्य᳚ दे॒वा दे॒वता॒ न मर्ता॒ आप᳚श्च॒न शव᳚सो॒ अन्त᳚मा॒पुः ।
स प्र॒रिक्वा॒ त्वक्ष᳚सा॒ क्ष्मो दि॒वश्च᳚ म॒रुत्वा᳚न्नो भव॒त्विन्द्र᳚ ऊ॒ती ॥
▶ पदपाठः (Word-by-word)
न । यस्य᳚ । दे॒वाः । दे॒वता᳚ । न । मर्ताः᳚ । आपः᳚ । च॒न । शव᳚सः । अन्त᳚म् । आ॒पुः ।
सः । प्र॒॑रिक्वा᳚ । त्वक्ष᳚सा । क्ष्मः । दि॒वः । च॒ । म॒रुत्वा᳚न् । नः॒ । भ॒व॒तु॒ । इन्द्रः᳚ । ऊ॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवता देवस्य दानादिगुणयुक्तस्य यस्येंद्रस्य शवसो बलस्यांतमवसानं देवा वस्वाद्या देवगणा नापुः नानाशिरे तथा मर्ता मनुष्या आपश्चनापोऽपि न प्रापुः स तादृश इंद्रस्त्वक्षसा शत्रूणां तनूकर्तात्मीयेन बलेन क्ष्मः पृथिव्या दिवश्च स्वर्गस्य च प्ररिक्वा प्रकर्षेण रेचको भवति । लोकद्वयादप्यस्य बलमतिरिच्यत इत्यर्थः । मरुद्भिर्युक्तः स इंद्रो नोऽस्माकमूती ऊतये रक्षणाय भवतु ॥ देवता । देव एव देवता । देवात्तलिति स्वार्थे तल् । सुपां सुलुगिति षष्ठ्यालुक् । मर्ताः । मृङ् प्राणत्यागे । असिहसीत्यादिना तन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । प्ररिक्वा । रिचिर् विरेचने । अन्येभ्योऽपि दृश्यंत इति क्वनिप् । अंत्यविकारश्छांदसः । त्वक्षसा । तक्षू त्वक्षू तनूकरणे । असुन् । नित्त्वादाद्युदात्तत्वम् । क्ष्मः । क्ष्मेति पृथिवीनाम । अतो धातोरित्यत्रात इति योगविभागादिष्टसिद्धिरित्यभिधानात् ङसि भसंज्ञायामाकारलोपः । यद्वा । क्ष्मायी विधूनने । अस्मात्क्विप्चेति क्विप् । वेरपृक्तलोपात्पूर्वं वलि लोपः । अन्यत्समानम् । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वं ॥ १५ ॥

1.100.16
रो॒हिच्छ्या॒वा सु॒मदं᳚शुर्लला॒मीर्द्यु॒क्षा रा॒य ऋ॒ज्राश्व᳚स्य ।
वृष᳚ण्वन्तं॒ बिभ्र᳚ती धू॒र्षु रथं᳚ म॒न्द्रा चि᳚केत॒ नाहु᳚षीषु वि॒क्षु ॥
▶ पदपाठः (Word-by-word)
रो॒हित् । श्या॒वा । सु॒मत्॑अं᳚शुः । ल॒ला॒मीः । द्यु॒क्षा । रा॒ये । ऋ॒ज्र॑अ᳚श्वस्य ।
वृष᳚ण्॑वन्तम् । बिभ्र᳚ती । धूः॒॑सु । रथ᳚म् । म॒न्द्रा । चि॒के॒त॒ । नाहु᳚षीषु । वि॒क्षु ॥
▶ सायणभाष्यम् (Sayana Commentary)

रोहित् रोहितवर्णा श्यावा श्यामवर्णा । उभयोः पार्श्वयोरुभयविधवर्णयुक्तेत्यर्थः । सुमदंशुः । सुमत् स्वतः प्रांशुः । उक्तं च यास्केन । सुमत् स्वयमित्यर्थः (नि ६-२२) इति । अतिदीर्घावयवा ललामीः पुंड्रवती अश्वभूषणयुक्ता वा । द्युक्षा दिवि द्युलोके कृतनिवासा ऋज्राश्वस्यैतत्संज्ञस्य राजर्षे राये धनार्थं वृषण्वंतं वृण्णा सेक्त्रेंद्रेण युक्तं रथं धूर्षु युगसंबंधिषु वहनप्रदेशेषु बिभ्रती वहंती मंद्रा सर्वेषामाह्लादकर्यश्वपंक्तिर्नाहुषीषु । नहुषा मनुष्याः । तत्संबंधिनीषु विक्षु सेनालक्षणासु प्रजासु चिकेत । ज्ञायते । ईदृश्याश्वपंक्त्या युक्त इंद्रः संग्रामेष्वनुग्राहकतया प्रादुर्भवतीत्यर्थः ॥ ललामीः ललामशब्दाच्छंदसीवनिपौ । पा ५-२-१०९-२ । इति मत्वर्थीय इकारः । अङ्यंतत्वश्सुलोपाभावः । ध्युक्षा । क्षि निवासगत्योः औणादिको डप्रत्ययः । ततष्टाप् । ऋज्राश्वस्य । ऋज गतिस्थानार्जनोपार्जनेषु ऋजेंद्रेत्यादिना रक्प्रत्ययांतो निपातितः । ऋज्रा गतिमंतोऽश्वा यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं वृषण्वंतम् । अनो नुट् (पा ८-२-१६) इति मतुपो नुट् । चिकेत् । कित ज्ञाने । छंदसि लुङ् लिङ् लिट इति वर्तमाने कर्माणि लिट् । व्यत्ययेन तिप् ॥ १६ ॥

1.100.17
ए॒तत्त्यत्त᳚ इन्द्र॒ वृष्ण᳚ उ॒क्थं वा᳚र्षागि॒रा अ॒भि गृ᳚णन्ति॒ राधः᳚ ।
ऋ॒ज्राश्व॒ः प्रष्टि᳚भिरम्ब॒रीषः᳚ स॒हदे᳚वो॒ भय᳚मानः सु॒राधा᳚ः ॥
▶ पदपाठः (Word-by-word)
ए॒तत् । त्यत् । ते॒ । इ॒न्द्र॒ । वृष्णे᳚ । उ॒क्थम् । वा॒र्षा॒गि॒राः । अ॒भि । गृ॒ण॒न्ति॒ । राधः᳚ ।
ऋ॒ज्र॑अ᳚श्वः । प्रष्टि᳚॑भिः । अ॒म्ब॒रीषः᳚ । स॒ह॑दे᳚वः । भय᳚मानः । सु॒॑राधाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र वृष्णे कामानां वर्षितुस्ते तव त्यत्तदेतदुक्थं स्तोत्रं राधः संराधकं त्वत्प्रीतिहेतु वार्षागिरा वृषागिरो राज्ञः पुत्रा ऋज्राश्वादयोऽभि गृणंति । अभिमुख्येन वदंति । वार्षागिरा इत्येतद्विवृणोति । ऋज्राश्व एतत्संज्ञो राजर्षिः प्रष्टिभिः पार्श्वस्थैरन्यैर्ऋषिभिः सहेंद्रमस्तौत् । के ते पार्श्वस्थाः । अंबरीषादयश्च त्वारो राजर्षयः ॥ वार्षागिराः । तस्यापत्यम् (पा ४-१-९२) इत्यण्प्रत्ययः । गृणंति । गृ शब्दे । प्वादीनां ह्रस्व इति ह्रस्वत्वम् । राधः । राध साध संसिद्धौ । राध्नोति समृद्धो भवत्यनेनेति राधः । करणेऽसुन् । ऋज्राश्च । ऋज्रा गतिमंतोऽश्वा यस्य स तथोक्तः । अंबरीषः । अभि शब्जे । औणादिक ईषन्प्रत्ययः उ ४-२९ । सहदेवः । देवैः सह वर्तत इति सहदेवः । वोपसर्जनस्येति विकल्पनात्सभावाभावः । भयमानः । ञिभी भये । अस्मादंतर्भावितण्यर्थाद्व्यत्ययेन शानच् । बहुलं छंदसीति शपः श्लोरभावः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वर एव शिष्यते । सुराधाः । राध इति धननाम । शोभनं राधो यस्य । सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वं ॥ १७ ॥

1.100.18
दस्यू॒ञ्छिम्यू{4}᳚श्च पुरुहू॒त एवै᳚र्ह॒त्वा पृ᳚थि॒व्यां शर्वा॒ नि ब᳚र्हीत् ।
सन॒त्क्षेत्रं॒ सखि᳚भिः श्वि॒त्न्येभि॒ः सन॒त्सूर्यं॒ सन᳚द॒पः सु॒वज्र᳚ः ॥
▶ पदपाठः (Word-by-word)
दस्यू᳚न् । शिम्यू᳚न् । च॒ । पु॒रु॒॑हू॒तः । एवैः᳚ । ह॒त्वा । पृ॒थि॒व्याम् । शर्वा᳚ । नि । ब॒र्ही॒त् ।
सन᳚त् । क्षेत्र᳚म् । सखि᳚॑भिः । श्वि॒त्न्येभिः᳚ । सन᳚त् । सूर्य᳚म् । सन᳚त् । अ॒पः । सु॒॑वज्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरुहूतो बहुभिर्यजमानैराहूत इंद्र एवैर्गमनशीलैर्मरुद्भिर्युक्तः सन् पृथिव्यां भूमौ वर्तमानान्दस्यूनुपक्षपयितृ ञ्भत्रून् शिम्यूंश्च शमयितृन्वधकारिणो राक्षसांदीश्च हत्वा प्रहृत्य तदनंतरं शर्वा हिंसकेन वज्रेण नि बर्हीत् । अवधीत् । निबर्हयति वधकर्मा । एवं शत्रून्निरस्य श्वित्न्येभिः श्वेतवर्णैरलंकारेण दीप्तांगैः सखिभिर्मित्रभूतैर्मरुद्भिः सह क्षेत्रं शत्रूणां स्वभूतां भूमिं सनत् । समभाक्षीत् । तथा वृत्रेण तिरोहितं सूर्यं तस्य वृत्रस्य हननेन सनत् । अभजत । प्राप्तवानित्यर्थः । तथा सुवज्रः शोभनवज्रयुक्त इंद्रो वृत्रेण निरुद्धा अपो वृष्ट्युदकानि सनत् । समभजत ॥ दस्यून् । दसु उपक्षये । यजिमनिशुंधिदसिजनिभ्यो युः । वृषादित्वादाद्युदात्तत्वम् । शिम्यून् । शमु उपशमे । शमयति सर्वं तिरस्करोतीति राक्षसादिः शिम्युः । औणादिको युन्प्रत्ययः । वर्णव्यापत्त्याकारस्येत्वम् । शर्वा । शृ हिंसायाम् । अन्येभ्योऽपि दृश्यंत इति वनिप् । सुपां सुलुगिति तृतीयाया डादेशः । सनत् । वन षण संभक्तौ । लङिबहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । श्वित्न्येभिः । श्विता वर्णे । औणादिको नक्प्रत्ययः । श्वित्नं शुक्लवर्णमर्हंतीति श्वित्न्याः । छंदसि चेति यः । सुवज्रः । आद्युदात्तं द्वृच्छंदसीत्युत्तरपदाद्युदात्तत्वं ॥ १८ ॥

1.100.19
वि॒श्वाहेन्द्रो᳚ अधिव॒क्ता नो᳚ अ॒स्त्वप᳚रिह्वृताः सनुयाम॒ वाज᳚म् ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
▶ पदपाठः (Word-by-word)
वि॒श्वाहा᳚ । इन्द्रः᳚ । अ॒धि॒॑व॒क्ता । नः॒ । अ॒स्तु॒ । अप᳚रि॑ह्वृताः । स॒नु॒या॒म॒ । वाज᳚म् ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वाहा सर्वकालं नोऽस्माकमिंद्रोऽधिवक्तास्तु । अधिवचनं पक्षपातेन वचनम् । यथोक्तम् । ब्राह्मणायाधिब्रूयात् । तै सं २-५-११-९ । इति । सर्वदास्माकमिंद्रः पक्षपातवचनयुक्तो भवतु । वयं चापरिह्वृता अकुटलगतयः संतोवाजं हविर्लक्षणमन्नं सनुयाम । संभजामहे । यदनेन सूक्तेनास्माभिः प्रार्थितं तन्मित्रादयो ममहंताम् । पूजितं कुर्वंतु ॥ विश्वाहा । विश्वान्यहानि विश्वाहानि । अत्यंतसंयोगे द्वितीया । शेश्छंदसि बहुलमिति शेर्लोपः । उपधादीर्घत्वं नलोपः । मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वम् । अपरिह्वृताः । ह्वृ कौटल्ये । निष्ठायामपरिह्वृताश्च (पा ७-२-३२) इति निपातनात् ह्रुभावाभावः । अव्यय पूर्वपदप्रकृतिस्वरत्वम् । सनुयाम । षणु दाने । लिङि तनादित्वादुप्रत्ययः । वन षण संभक्तावित्यस्माद्वा व्यत्ययेनोप्रत्ययः ॥ १९ ॥