श्रवणम्

1.100.2
यस्याना᳚प्त॒ः सूर्य᳚स्येव॒ यामो॒ भरे᳚भरे वृत्र॒हा शुष्मो॒ अस्ति᳚ ।
वृष᳚न्तम॒ः सखि᳚भि॒ः स्वेभि॒रेवै᳚र्म॒रुत्वा᳚न्नो भव॒त्विन्द्र᳚ ऊ॒ती ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । अना᳚प्तः । सूर्य᳚स्य॑इव । यामः᳚ । भरे᳚॑भरे । वृ॒त्र॒॑हा । शुष्मः᳚ । अस्ति᳚ ।
वृष᳚न्॑तमः । सखि᳚॑भिः । स्वेभिः᳚ । एवैः᳚ । म॒रुत्वा᳚न् । नः॒ । भ॒व॒तु॒ । इन्द्रः᳚ । ऊ॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्येंद्रस्य यामो गतिरनाप्तः परैरप्राप्ता सूर्यस्येव । यथा सूर्यस्य गतिरन्यैर्न प्राप्तुं शक्यते तद्वत् । स्वेभिरात्मीयैरेवैर्गमनशीलैः सखिभिर्मित्रभूतैर्मरुद्भिः सह वृषंतमोऽतिशयेन कामानां वर्षिता । भरे भरे सर्वेषु संग्रामेषु वृत्रहा शत्रूणां हंता शुष्मः सर्वेषामसुराणां शोषकः । एवंभूतो य इंद्रोऽस्ति विद्यते स मरुत्वानिंद्रो नोऽस्माकं रक्षणाय भवतु ॥ यामः । या प्रापणे । अर्तिस्तुस्वित्यादिना भावे मन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । शुष्मः । शुष शोषणे अविसिविसिशुषिभ्यः कित् (उ १-१४३) इति मन् प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । अस्ति । यद्वृत्तयोगादनिघातः । वृषंतमः । वृषञ्शतब्दादुत्तरस्य तमपो नाद्घस्य (पा ८-२-१७) इति नुट् । एवैः । इण् गतौ । इण् शीङ् भ्यां वन् ॥ २ ॥