तम᳚प्सन्त॒ शव᳚स उत्स॒वेषु॒ नरो॒ नर॒मव᳚से॒ तं धना᳚य ।
सो अ॒न्धे चि॒त्तम᳚सि॒ ज्योति᳚र्विदन्म॒रुत्वा᳚न्नो भव॒त्विन्द्र᳚ ऊ॒ती ॥
सो अ॒न्धे चि॒त्तम᳚सि॒ ज्योति᳚र्विदन्म॒रुत्वा᳚न्नो भव॒त्विन्द्र᳚ ऊ॒ती ॥
पदपाठः (Word-by-word)
तम् । अ॒प्स॒न्त॒ । शव᳚सः । उ॒त्॑स॒वेषु᳚ । नरः᳚ । नर᳚म् । अव᳚से । तम् । धना᳚य ।
सः । अ॒न्धे । चि॒त् । तम᳚सि । ज्योतिः᳚ । वि॒द॒त् । म॒रुत्वा᳚न् । नः॒ । भ॒व॒तु॒ । इन्द्रः᳚ । ऊ॒ती ॥
सः । अ॒न्धे । चि॒त् । तम᳚सि । ज्योतिः᳚ । वि॒द॒त् । म॒रुत्वा᳚न् । नः॒ । भ॒व॒तु॒ । इन्द्रः᳚ । ऊ॒ती ॥
सायणभाष्यम् (Sayana Commentary)
नरो नेतारः स्तोतारः शवसो बलस्य संबंधिषूत्सवेषु संग्रामेषु नरं जयस्य नेतारं तमिंद्रमप्संत । आप्नुवंति । किमर्थम् । अवसेऽन्नार्थं रक्षणार्थं वा । तथा धनाय धनार्थं च तमिंद्रं प्राप्नुवंति । यस्मात्स इंद्रस्तमसि दृष्टिप्रतिबंधकेऽंधे चित् आध्यानरहिते चित्तव्यामोहकरेऽपि संग्रामे ज्योतिर्विजयलक्षणं प्रकाशं विदत् । लंभयति । तस्मात्तमेव प्राप्नुवंतीत्यर्थः अन्यत्समानं ॥ अप्संत । आप्लृव्याप्तौ । लङिव्यत्ययेनात्मनेपदम् । व्यत्ययेन क्सप्रत्ययः । व्यत्ययेन धातोर्ह्रस्वत्वम् । विवत् । विद्लृ लाभे । छंदसि लुङ् लङ् लिट इति वर्तमाने छांदसो लुङ् । लृदित्त्वाच्च्लेरङादेशः । बहुलं छंदस्यमाङ्योगेऽप्रीत्यडभावः ॥ ८ ॥