श्रवणम्

1.100.3
दि॒वो न यस्य॒ रेत᳚सो॒ दुघा᳚ना॒ः पन्था᳚सो॒ यन्ति॒ शव॒साप᳚रीताः ।
त॒रद्द्वे᳚षाः सास॒हिः पौंस्ये᳚भिर्म॒रुत्वा᳚न्नो भव॒त्विन्द्र᳚ ऊ॒ती ॥
▶ पदपाठः (Word-by-word)
दि॒वः । न । यस्य᳚ । रेत᳚सः । दुघा᳚नाः । पन्था᳚सः । यन्ति᳚ । शव᳚सा । अप᳚रि॑इताः ।
त॒रत्॑द्वे᳚षाः । स॒स॒हिः । पौंस्ये᳚भिः । म॒रुत्वा᳚न् । नः॒ । भ॒व॒तु॒ । इन्द्रः᳚ । ऊ॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्येंद्रस्य पंथासो रश्मयो रेतसो वृष्व्युदकानि दुघाना दुहंतः प्रवर्षंतो यंति निर्गच्छंति द्युलोकादितस्ततः प्रसरंति । तत्र दृष्टांतः । दिवो न । यथा द्योतमानस्य सूर्यस्य किरणा वृष्टिं कुर्वंतो नभःस्थलान्निर्गच्छंति तद्वत् । कीदृशा रश्मयः । शवसा बलेन सहिताः । अपरीताः । परैरनभिगताः । दुःष्प्रापा इत्यर्थः । सोऽयमिंद्रस्तरद्द्वेषा द्वेषांसि शत्रूंस्तरन् । जितशत्रुक इत्यर्थः । पौंस्येभिर्बलैः ससहिः शत्रूणामभिभविता एवंभूतो मरुत्वानिंद्रो नोऽस्माकं रक्षणाय भवतु ॥ रेतसः । रेत इत्युदकनाम । रीयते गच्छतीति रेतः । रीगतिरेषणयोः । स्रुरीभ्यां तुट्च (उ ४-२०१) इत्यसुन् तुडागमश्च । शसो व्यत्ययेन ङसादेशः । दुघानाः । दुह प्र पूरणे । कर्तरि लटः शानच् । अदादित्वाच्छपो लुक् । व्यत्ययेन घत्वम् । वृषादेराकृतिगणत्वादाद्युदात्तत्वम् । पंथासः । पतंतीति पंथानो रश्मयः । पतेस्थ च (उ ४-१२) इतीनिप्रत्ययस्थकारांतादेशश्च । जसि पथिमथ्यृभुक्षामादिति व्यत्ययेनात्वम् । आज्जसेरसुक् । यद्वा । पंथान इत्यत्र वर्णव्यापत्त्या नकारस्य सकारः । पथिमथोः सर्वनामस्थान इत्याद्युदात्तत्वम् । ससहिः । षह अभिभवे । उत्सर्गश्छंदसीति वचनादादृगमहन इति किप्रत्ययः । लिड्वद्भावाद्द्विर्वचनं ॥ ३ ॥