श्रवणम्

1.100.19
वि॒श्वाहेन्द्रो᳚ अधिव॒क्ता नो᳚ अ॒स्त्वप᳚रिह्वृताः सनुयाम॒ वाज᳚म् ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
▶ पदपाठः (Word-by-word)
वि॒श्वाहा᳚ । इन्द्रः᳚ । अ॒धि॒॑व॒क्ता । नः॒ । अ॒स्तु॒ । अप᳚रि॑ह्वृताः । स॒नु॒या॒म॒ । वाज᳚म् ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वाहा सर्वकालं नोऽस्माकमिंद्रोऽधिवक्तास्तु । अधिवचनं पक्षपातेन वचनम् । यथोक्तम् । ब्राह्मणायाधिब्रूयात् । तै सं २-५-११-९ । इति । सर्वदास्माकमिंद्रः पक्षपातवचनयुक्तो भवतु । वयं चापरिह्वृता अकुटलगतयः संतोवाजं हविर्लक्षणमन्नं सनुयाम । संभजामहे । यदनेन सूक्तेनास्माभिः प्रार्थितं तन्मित्रादयो ममहंताम् । पूजितं कुर्वंतु ॥ विश्वाहा । विश्वान्यहानि विश्वाहानि । अत्यंतसंयोगे द्वितीया । शेश्छंदसि बहुलमिति शेर्लोपः । उपधादीर्घत्वं नलोपः । मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वम् । अपरिह्वृताः । ह्वृ कौटल्ये । निष्ठायामपरिह्वृताश्च (पा ७-२-३२) इति निपातनात् ह्रुभावाभावः । अव्यय पूर्वपदप्रकृतिस्वरत्वम् । सनुयाम । षणु दाने । लिङि तनादित्वादुप्रत्ययः । वन षण संभक्तावित्यस्माद्वा व्यत्ययेनोप्रत्ययः ॥ १९ ॥