श्रवणम्

1.100.17
ए॒तत्त्यत्त᳚ इन्द्र॒ वृष्ण᳚ उ॒क्थं वा᳚र्षागि॒रा अ॒भि गृ᳚णन्ति॒ राधः᳚ ।
ऋ॒ज्राश्व॒ः प्रष्टि᳚भिरम्ब॒रीषः᳚ स॒हदे᳚वो॒ भय᳚मानः सु॒राधा᳚ः ॥
▶ पदपाठः (Word-by-word)
ए॒तत् । त्यत् । ते॒ । इ॒न्द्र॒ । वृष्णे᳚ । उ॒क्थम् । वा॒र्षा॒गि॒राः । अ॒भि । गृ॒ण॒न्ति॒ । राधः᳚ ।
ऋ॒ज्र॑अ᳚श्वः । प्रष्टि᳚॑भिः । अ॒म्ब॒रीषः᳚ । स॒ह॑दे᳚वः । भय᳚मानः । सु॒॑राधाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र वृष्णे कामानां वर्षितुस्ते तव त्यत्तदेतदुक्थं स्तोत्रं राधः संराधकं त्वत्प्रीतिहेतु वार्षागिरा वृषागिरो राज्ञः पुत्रा ऋज्राश्वादयोऽभि गृणंति । अभिमुख्येन वदंति । वार्षागिरा इत्येतद्विवृणोति । ऋज्राश्व एतत्संज्ञो राजर्षिः प्रष्टिभिः पार्श्वस्थैरन्यैर्ऋषिभिः सहेंद्रमस्तौत् । के ते पार्श्वस्थाः । अंबरीषादयश्च त्वारो राजर्षयः ॥ वार्षागिराः । तस्यापत्यम् (पा ४-१-९२) इत्यण्प्रत्ययः । गृणंति । गृ शब्दे । प्वादीनां ह्रस्व इति ह्रस्वत्वम् । राधः । राध साध संसिद्धौ । राध्नोति समृद्धो भवत्यनेनेति राधः । करणेऽसुन् । ऋज्राश्च । ऋज्रा गतिमंतोऽश्वा यस्य स तथोक्तः । अंबरीषः । अभि शब्जे । औणादिक ईषन्प्रत्ययः उ ४-२९ । सहदेवः । देवैः सह वर्तत इति सहदेवः । वोपसर्जनस्येति विकल्पनात्सभावाभावः । भयमानः । ञिभी भये । अस्मादंतर्भावितण्यर्थाद्व्यत्ययेन शानच् । बहुलं छंदसीति शपः श्लोरभावः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वर एव शिष्यते । सुराधाः । राध इति धननाम । शोभनं राधो यस्य । सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वं ॥ १७ ॥