अवा᳚तिरत॒मनृ᳚तानि॒ विश्व᳚ ऋ॒तेन᳚ मित्रावरुणा सचेथे ॥
पदपाठः (Word-by-word)
अव᳚ । अ॒ति॒र॒त॒म् । अनृ᳚तानि । विश्वा᳚ । ऋ॒तेन᳚ । मि॒त्रा॒व॒रु॒णा॒ । स॒चे॒थे॒ इति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेमित्रावरुणौ पीवसा पीनौ युवंयुवां यद्वा पीवसा पीनान्यच्छिन्नानिवस्त्राण्याच्छादनयोग्यानि वासांसि वसाथे आच्छादयथः यद्वा पीवसा स्थूलेन प्रभूतेन तेजसा वस्त्राणिदधाथे अविच्छिन्नानि वस्त्रस्थानीयनितेजांसि धारयथइत्यर्थः किंच युवयोः सर्गाः सृष्टयः अच्छिद्राः अच्छिन्नाः मन्तवोह मननीयाश्च ईदृशौ युवां विश्वा विश्वानि सर्वाणिअनृतानि असत्यानि अप्रियाणि पापान्यवातिरतं नाशयतम् विश्वेत्यत्रसंहितायां ऋत्यकइतिप्रकृतिभावोह्रस्वत्वंच ऋतेनफलेन तत्साधनेनयज्ञेनवास- चेथे संगच्छेथे अस्मभ्यं योजयथइत्यर्थः ॥ १ ॥