श्रवणम्

1.152.3
अ॒पादे᳚ति प्रथ॒मा प॒द्वती᳚नां॒ कस्तद्वां᳚ मित्रावरु॒णा चि᳚केत ।
गर्भो᳚ भा॒रं भ᳚र॒त्या चि᳚दस्य ऋ॒तं पिप॒र्त्यनृ᳚तं॒ नि ता᳚रीत् ॥
▶ पदपाठः (Word-by-word)
अ॒पात् । ए॒ति॒ । प्र॒थ॒मा । प॒त्॑वती᳚नाम् । कः । तत् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । आ । चि॒के॒त॒ ।
गर्भः᳚ । भा॒रम् । भ॒र॒ति॒ । आ । चि॒त् । अ॒स्य॒ । ऋ॒तम् । पिप᳚र्ति । अनृ᳚तम् । नि । ता॒री॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्रावरुणा मित्रावरुणौ पद्वतीनां मनुष्यादीनां प्रजानां प्रथमाप्रथमभाविनी अपात् पादर- हितोषाः प्रतिदिनं सूर्यचन्द्रादिवत् स्वस्याः परिभ्रमणाभावात् सूर्यगमनेनैव स्वगमनादपादितिच- एतीतिचोपचर्यते तत् तादृशंवां युवयोः प्रसिद्धंकर्म कःआचिकेत कःआभिमुख्येनजानाति कितज्ञाने अतःस्तुत्यमित्यर्थः मित्रावरुणयोरहोरात्रदेवत्वादहोरात्रयोरन्तरालस्यैवोषस्त्वादेतत्कर्मत्वं किंचा- स्यलोकस्यभारंनिर्वाहं गर्भः युवयोः गर्भस्थानीयः शिशुरादित्यः अहोरात्रयोर्मध्यकालउत्पत्तेस्ता- भ्यामेव मित्रावरुणत्वात् अहोरात्रेवैमित्रावरुणावितिश्रुतेः । सआभरतिचित् समन्तान्निर्वहत्येवहर- तिवास्यभारंजाड्यं चिदित्यवधारणे तत्कथमितितदुच्यतेऋतंसत्यंजगतः प्रकाशगमनादिरूपं पिपर्ति पूरयति अनृतं उक्तविलक्षणं अन्धकारं गमनादि निरोधंच नितारीत् नितरति निमज्जयति नाशयती- त्यर्थः शिशोर्जगद्भारवहनरूपं कर्मयुष्मत्सामर्थ्यादिति ॥ ३ ॥