हि॒र॒ण्यया᳚ वां प॒वयः᳚ प्रुषाय॒न्मध्व॒ः पिब᳚न्ता उ॒षसः᳚ सचेथे ॥
पदपाठः (Word-by-word)
हि॒र॒ण्ययाः᳚ । वा॒म् । प॒वयः᳚ । प्रु॒षा॒य॒न् । मध्वः᳚ । पिब᳚न्तौ । उ॒षसः᳚ । स॒चे॒थे॒ इति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेअश्विनौ युवोः युवयोरश्वाः रथवोढारोरजांसिरंजकान् लोकान् सुयमासः शोभननियमाः लोक- त्रयसञ्चारिणइत्यर्थः कदेत्याह यत् यत् यदावांरथः अर्णांसि अरणीयानभिमतदेशान् परिदीयत् परि- गच्छेत् परितोगच्छतिवा तदेत्यर्थः दीयतिर्गतिकर्मा तकतिदीयतीतितत्कर्मसुपाठात् किञ्च त्वदागम- नकालेयुवांयुवयोः पवयः वज्रारथनेमयोवाहिरण्याः हिरण्मयाः प्रुषायन् पुष्णन्तिअभिमतं यद्वाहिर- ण्मयानिपवयोमधुपात्राणिवांयुवाभ्यामर्थाययस्मादेवंतस्मात् युवांमध्वोमधुनोमधुसदृशस्यसोमरस- स्य कर्मणिषष्ठी सोमरसंपिबन्तावास्वादयन्तौउषसः उषः सबन्धिनिकाले सचेथे यज्ञंसङ्गच्छेथे अ- त्रक्रमोन्विवक्षितः उषः कालएवागत्यमधुरंसोमरसंपिबतमित्यर्थः ॥ १ ॥