यु॒वमत्य॒स्याव᳚ नक्षथो॒ यद्विप᳚त्मनो॒ नर्य᳚स्य॒ प्रय᳚ज्योः ।
स्वसा॒ यद्वां᳚ विश्वगूर्ती॒ भरा᳚ति॒ वाजा॒येट्टे᳚ मधुपावि॒षे च᳚ ॥
स्वसा॒ यद्वां᳚ विश्वगूर्ती॒ भरा᳚ति॒ वाजा॒येट्टे᳚ मधुपावि॒षे च᳚ ॥
पदपाठः (Word-by-word)
यु॒वम् । अत्य᳚स्य । अव᳚ । न॒क्ष॒थः॒ । यत् । वि॑प᳚त्मनः । नर्य᳚स्य । प्र॑य᳚ज्योः ।
स्वसा᳚ । यत् । वा॒म् । वि॒श्व॒गू॒र्ती॒ इति᳚ विश्व॑गूर्ती । भरा᳚ति । वाजा᳚य । ईट्टे᳚ । म॒धु॒॑पौ॒ । इ॒षे । च॒ ॥
स्वसा᳚ । यत् । वा॒म् । वि॒श्व॒गू॒र्ती॒ इति᳚ विश्व॑गूर्ती । भरा᳚ति । वाजा᳚य । ईट्टे᳚ । म॒धु॒॑पौ॒ । इ॒षे । च॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेअश्विनौ युवंयुवांयत् यदा अत्यस्यातनशीलस्यसततसञ्चारिणोविपत्मनः विविधगमनस्यवि- चित्रगमनस्यवानर्थस्यमनुष्याणांहितस्य प्रयज्योःप्रकर्षेणपूज्यस्यएतानिकर्मणिषष्ठ्यन्तानि उक्त- रूपंरथं अव अवस्तात् तदुद्यात्पूर्वंनक्षथोव्याप्नुथोदेवयजनंगन्तुं किञ्च यत् यदाहेविश्वगूर्तीसर्वस्तुत्यौ- सर्वदोद्गूर्णौवावांयुवयोः स्वसास्वसृस्थानीयाः स्वयंसारिणीवोषाः भराति पोषते त्वदागमनायप्र- भातंकरोति यदाहेमधुपौ मधुरस्यसोमरसस्यपातारौ युवांयजमानोवाजाय बलायगमनायवा इषे- प्रभूतान्नायईटेस्तौति तदारथंप्राप्नुथइत्यर्थः ॥ २ ॥