प्रथमं मण्डलम् - सूक्तम् 158

6 ऋचः

ऋषिः: दीर्घतमा औचथ्यः देवता: अश्विनौ छन्दः: त्रिष्टुप्

सूक्तम् 1.158 - सम्पूर्णम्

1 / 6
ऋक्: 1.158.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
1.158.1
वसू᳚ रु॒द्रा पु᳚रु॒मन्तू᳚ वृ॒धन्ता᳚ दश॒स्यतं᳚ नो वृषणाव॒भिष्टौ᳚ ।
दस्रा᳚ ह॒ यद्रेक्ण᳚ औच॒थ्यो वां॒ प्र यत्स॒स्राथे॒ अक᳚वाभिरू॒ती ॥
▶ पदपाठः (Word-by-word)
वसू॒ इति᳚ । रु॒द्रा । पु॒रु॒मन्तू॒ इति᳚ पु॒रु॒॑मन्तू᳚ । वृ॒धन्ता᳚ । द॒श॒स्यत᳚म् । नः॒ । वृ॒ष॒णौ॒ । अ॒भिष्टौ᳚ ।
दस्रा᳚ । ह॒ । यत् । रेक्णः᳚ । औ॒च॒थ्यः । वा॒म् । प्र । यत् । स॒स्राथे॒ इति᳚ । अक᳚वाभिः । ऊ॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यनिः श्वसितंवेदायोवेदेभ्योऽखिलंजगत् । निर्ममेतमहंवन्देविद्यातीर्थमहेश्वरम् ॥ १ ॥

अथतृतीयाध्यायआरभ्यते वसूरुद्रेत्येतदनुवाकापेक्षयाद्वितीयंसूक्तं षळृचंदैर्घतमसं पूर्वत्राश्विनं- त्वित्युक्तत्वादिदमप्याश्विनं अनादेशपरिभाषयात्रैष्टुभं दीर्घतमामामतेयइत्यन्त्यानुष्टुप् तथाचानु- क्रान्तं—वसूअन्त्यानुष्टुबिति अस्यविशेषविनियोगोलैङ्गिकः ।

हेवृषणौ कामानांवर्षितारौ दस्रा अस्मद्विरोध्युपक्षपयितारौ हेअश्विनौ युवां नोऽस्मभ्यं दशस्यतं दत्तं दित्सितंफलं कीदृशौवां युवां वसू वासयितारौ प्रजानांवसुनाधनेनतद्वन्तौवा मत्व र्थोलुप्यते रुद्रा रुद्रौ रुत् दुःखंतद्धेतुभूतंपापंवा तस्यद्रावयितारौ संग्रामेभयंकरंशब्दयन्तौवा रुद्रोरौतीतिसत- इतियास्कः । पुरुमन्तू बहूनांज्ञातारौ मनेरौणादिकस्तुन्प्रत्ययः वृधन्तावर्धमानौ स्तोत्रादिना अभि- ष्टौआभिमुख्येनपूजितौ अभीष्टसाधकौवा हशब्दौक्तगुणप्रसिद्धिद्योतनार्थः किमर्थंदीयतइतिचेत् यद्यस्मात् औचथ्यः उचथस्यपुत्रोदीर्घतमाः वांयुवांरेक्णः धनंस्तुतिव्याजेनप्रार्थयते तदर्थं यद्वा अयंयजमानोयद्यस्माद्रेक्णोहविर्लक्षणमन्नं वांयुवांददातीतिशेषः यस्माच्च अकवाभिः अकुत्सितैः ऊती ऊतिभिः रक्षणैः सुपांसुलुगितितृतीयायाः पूर्वसवर्णदीर्घः प्रसस्राथे प्रसारयथः प्रकर्षेणदत्थः तस्माद्दशस्यतं यस्मादभिमतप्रदोयस्माच्चायंप्रार्थयते ददातिवाहविः तस्माद्दशस्यतमित्यर्थः ॥ १ ॥

1.158.2
को वां᳚ दाशत्सुम॒तये᳚ चिद॒स्यै वसू॒ यद्धेथे॒ नम᳚सा प॒दे गोः ।
जि॒गृ॒तम॒स्मे रे॒वती॒ः पुरं᳚धीः काम॒प्रेणे᳚व॒ मन᳚सा॒ चर᳚न्ता ॥
▶ पदपाठः (Word-by-word)
कः । वा॒म् । दा॒श॒त् । सु॒॑म॒तये᳚ । चि॒त् । अ॒स्यै । वसू॒ इति᳚ । यत् । धेथे॒ इति᳚ । नम᳚सा । प॒दे । गोः ।
जि॒गृ॒तम् । अ॒स्मे इति᳚ । रे॒वतीः᳚ । पुर᳚म्॑धीः । का॒म॒प्रेण᳚॑इव । मन᳚सा । चर᳚न्ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवसू वासयितारावश्विनौ वां युवयोः संबन्धिन्यैअस्यैवक्ष्यमाणरूपायै सुमतयेचित् शोभनबुद्भ्यै चित् पूजायामप्यर्थेवा स्वल्पेनैवहविषामहत्फलप्रदानरूपायै ईदृश्याअपिबुद्धेः प्रीणनायकोदाशत् कोदद्यात् दातुंशक्रुयात् युवयोः प्रभावस्यातिमहत्त्वादितिभावः दाशतेर्लेट्यडागमः कथंमतेः सौष्ठ- वमितितदुच्यते यद्यस्मात्कारणात् गोःपदे भूम्याः सर्वैर्गन्तव्यायाःस्तुत्यायावा वेदिरूपायाःस्थाने एतावतीवैपृथिवीयावतीवेदिरितिश्रुतेः । गौरितिभूतिनाम तथाचनिरुक्तं—गौरितिपृथिव्यानाम- धेयंयद्दूरंगताभवतियच्चास्यांभूतानिगच्छन्तिगातेर्वौकारोनामकरणइति । तादृशेस्थाने अस्माभिः प्रार्थितौसन्तौ नमसा हविर्लक्षणेनयवमात्रप्रकारेणअन्नेन धेथे धारयथः बहुप्रदानविषयांबुद्धिं दधा- तेर्लटिबहुलंछन्दसीतिविकरणस्यलुक् धातोर्ह्रस्वत्वं आतोङितइति इयादेशः यस्मादेवंतस्मात् अस्मे अस्मभ्यं रेवतीः क्षीरादिधनवतीः पुरन्धीः शरीरधारकाः शरीराभिवृद्धिहेतूर्गाः जिगृतंशब्दयतं द- दतमित्यर्थः गॄशब्दे छान्दसःशपःश्लुः अभ्यासस्येत्वंह्रस्वत्वंच पुनस्तावेवविशेष्येते कामप्रेणेव इव- शब्दएवकारार्थः कामपूरकेणैव मनसासहचरन्ता चरन्तौयजमानस्यकामाः पूरणीयाइतिकृतसंक- ल्पावित्यर्थः प्रापूरणे कामंप्रीणातोतिकामप्रः आतोनुपसर्गेकः ॥ २ ॥

1.158.3
यु॒क्तो ह॒ यद्वां᳚ तौ॒ग्र्याय᳚ पे॒रुर्वि मध्ये॒ अर्ण᳚सो॒ धायि᳚ प॒ज्रः ।
उप᳚ वा॒मवः᳚ शर॒णं ग᳚मेयं॒ शूरो॒ नाज्म᳚ प॒तय᳚द्भि॒रेवै᳚ः ॥
▶ पदपाठः (Word-by-word)
यु॒क्तः । ह॒ । यत् । वा॒म् । तौ॒ग्र्याय᳚ । पे॒रुः । वि । मध्ये᳚ । अर्ण᳚सः । धायि᳚ । प॒ज्रः ।
उप᳚ । वा॒म् । अवः᳚ । श॒र॒णम् । ग॒मे॒य॒म् । शूरः᳚ । न । अज्म᳚ । प॒तय᳚त्॑भिः । एवैः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रेतिहासमाहुः—तौग्र्यनामकंराजानं युद्धेशत्रवःपराभाव्यपाशैर्दृढंबद्ध्वासमुद्रमध्येप्रचिक्षिपुः सचोत्तरीतुमशक्तःसन् अश्विनौतुष्टाव तौचतुष्टौशीघ्रमेवरथमश्वैर्योजयित्वासमुद्रमागत्य तमुत्तार्य- अपालयतामिति अयमर्थः—अजोहवीदश्विनातौग्र्यइत्यादिमन्त्रान्तरेप्रसिद्धः । सोऽत्रोच्यते—हेअ- श्विनौ वां युवयोःसंबन्धी पेरुःपारणकुशलोरथः युक्तोह अश्वैर्युक्तःखलु हशब्दोमन्त्रांतरप्रसिद्धिद्योत- नार्थः सचोदाहृतः कस्मैतौग्र्याय एतन्नाम्नेराज्ञे तद्बंधमोचनार्थं कुत्रेतितदुच्यतेअर्णसः अंभसोमध्येस- मुद्रस्यमध्ये सचपज्रः पाजसाबलेनतीर्णः सन् विधायि धारितः स्थापितः यस्मादेवंतस्माद्वां युवयोः अवः रक्षणं शरणंउपगमेयं संप्राप्नुयां ऎहिकदुःखाद्विमुक्तोयुष्मत्स्थानंसंभजेयं गतौदृष्टान्तः-पतयद्भ- रेवैरश्वैः शूरोन शूरइव सयथाअज्मजित्वानिर्भयंस्वगृहंप्राप्नोतितद्वत् ॥ ३ ॥

1.158.4
उप᳚स्तुतिरौच॒थ्यमु᳚रुष्ये॒न्मा मामि॒मे प᳚त॒त्रिणी॒ वि दु᳚ग्धाम् ।
मा मामेधो॒ दश᳚तयश्चि॒तो धा॒क्प्र यद्वां᳚ ब॒द्धस्त्मनि॒ खाद᳚ति॒ क्षाम् ॥
▶ पदपाठः (Word-by-word)
उप᳚॑स्तुतिः । औ॒च॒थ्यम् । उ॒रु॒ष्ये॒त् । मा । माम् । इ॒मे इति᳚ । प॒त॒त्रिणी॒ इति᳚ । वि । दु॒ग्धा॒म् ।
मा । माम् । एधः᳚ । दश᳚॑तयः । चि॒तः । धा॒क् । प्र । यत् । वा॒म् । ब॒द्धः । त्मनि᳚ । खाद᳚ति । क्षाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्राख्यानमाहुः—जराजरितगात्रंजात्यन्धंदीर्घतमसंमामतेयंवरिवसितुमशक्नुवानाःस्वगर्भदासाः अग्नौप्रदाहायप्रचिक्षिपुः तत्रक्षिप्तः अश्विनावस्तावीत् तौचैनमरक्षतां ततोप्यम्नियमाणमुदकेषुप्रापा- तयन् तत्रनिमग्नःपुनरश्विनौतुष्टाव तुष्टौसन्तौतौजलादुदहार्ष्टां एवमवध्यं तं त्रैतनोनामकः कश्चिद्दा- सोस्यशिरोवक्षश्चाविध्यत् ततोऽप्यपालयतामिति तदिदंऋग् द्वयेनोच्यतेहेअश्विनौ उपस्तुतिः युवां- बुद्भ्याउपेत्यक्रियमाणास्तुतिः औचथ्यंउचथस्यपुत्रदीर्घतमसंमांउरुष्येत् रक्षेत् दाहाद्युपद्रवात् उरुष्य- तीरक्षाकर्मेतियास्कः । एवंसामान्येनोक्त्वा विशेषेणप्रत्युपद्रवपरिहारंमार्थयते इमेप्रसिद्धेपतन्त्रिणी पतनशीलेपुनरावर्तनशीलेअहोरात्रे मांमाविदुग्धाम् विशेषेणदोहगतसारं माकार्ष्टां प्राणनिर्गमनानु- कूल्यं माकुरुतामित्यर्थः किंच मांदशतयोदशवारः चितः संचितः संपादितः एधः प्रज्वालितेन्धनसं- घोमाधाक् माधाक्षीत् दहतेर्लुङिसिचिहलन्तलक्षणावृद्धिः बहुलंछन्दसीतीडभावः हल्ङ्यादिसंयोगा- न्तलोपौ दुःसहदुःखप्राप्तिंदर्शयति यद्यस्माद्वांयुवयोःसंबंधीअयंजनोबद्धः पाशैर्दृढंवेष्टितःसन् त्मनि- आत्मनिआत्मनाक्षांभूमिंखादतिभक्षयति गन्तुमशक्तःसन् भूमिंपरिलुठतीत्यर्थः तस्मादुपस्तुतिरौच- थ्यमुरुष्येदिति ॥ ४ ॥ अस्याःपंचम्याविनियोगमाहशौनकः—आततायिनमायान्तंदृष्ट्वाव्याघ्रमथोवृकम् । नमागरन्नि- तिजपंस्तेभ्यएवप्रमुच्यते ॥ १ ॥ त्रिरात्रोपोषितोरात्रौजपेदासूर्यदर्शनात् । आप्लुत्यप्रयतः सूर्यमुपतिष्ठे- द्दिवाकरम् ॥ २ ॥ पश्यंतितस्करानैनंतथान्येपापबुद्धयः । एकःशतानित्रायेततस्करेभ्यश्चरन्पथीति ॥ ३ ॥

1.158.5
न मा᳚ गरन्न॒द्यो᳚ मा॒तृत᳚मा दा॒सा यदीं॒ सुस᳚मुब्धम॒वाधु᳚ः ।
शिरो॒ यद᳚स्य त्रैत॒नो वि॒तक्ष᳚त्स्व॒यं दा॒स उरो॒ अंसा॒वपि᳚ ग्ध ॥
▶ पदपाठः (Word-by-word)
न । मा॒ । ग॒र॒न् । न॒द्यः᳚ । मा॒तृ॑त᳚माः । दा॒साः । यत् । ई॒म् । सु॑स᳚मुब्धम् । अ॒व॒॑अधुः᳚ ।
शिरः᳚ । यत् । अ॒स्य॒ । त्रै॒त॒नः । वि॒॑तक्ष᳚त् । स्व॒यम् । दा॒सः । उरः᳚ । अंसौ᳚ । अपि᳚ । ग्धेति᳚ग्ध ॥
▶ सायणभाष्यम् (Sayana Commentary)

नद्योनद शीलाः मातृतमाः मातृवज्जगतांहितकारिण्यः आपः मामांदीर्घतमसं नगरन् नगिरेयुः निमग्नंमाकुर्युः गॄनिगरणे लेटिव्यत्ययेनशप् गिरणप्राप्तिंदर्शयति यद्यस्माद्दासाअस्मदुपक्षपयितारो- मदीयगर्भदासाः ईंएनंदीर्घतमसंमांसुसमुब्धं सुष्ठुसंकुचितसर्वांगं स्वतीपूजायामिति प्रादिसमासेअ- व्ययपूर्वपदप्रकृतिस्वरत्वम् अवाधुः अवाङ्मुखमपातयन् किंच अस्यममशिरः सत्रैतनः एतन्नामको- दासः अत्यंतनिर्घृणःसन् यद्यस्माद्वितक्षत् विविधंतष्टवान् तस्मात्सदासः स्वयंस्वकीयमेवशिरः तक्ष- तु नकेवलंशिरएव अपितुमदीयमुरः वक्षः स्थलंअंसौचग्ध हतवान् विदारितवानित्यर्थः हंतेर्लुङिछा- न्दसमेतद्रूपम् ततःस्वकीयमुरः अंसावपिस्वशस्त्रेणैवतथाकृतवान् तद्युवयोर्माहात्म्यमितिभावः ॥ ५ ॥

1.158.6
दी॒र्घत᳚मा मामते॒यो जु᳚जु॒र्वान्द᳚श॒मे यु॒गे ।
अ॒पामर्थं᳚ य॒तीनां᳚ ब्र॒ह्मा भ᳚वति॒ सार᳚थिः ॥
▶ पदपाठः (Word-by-word)
दी॒र्घ॑त᳚माः । मा॒म॒ते॒यः । जु॒जु॒र्वान् । द॒श॒मे । यु॒गे ।
अ॒पाम् । अर्थ᳚म् । य॒तीना᳚म् । ब्र॒ह्मा । भ॒व॒ति॒ । सार᳚थिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

दीर्घतमाः एतन्नामामहर्षिः सचमामतेयः ममतायाःपुत्रः दशमेयुगेदशयुगपर्यन्तं महानुभावयोर श्विनोःप्रभावत्पूर्वोक्तादृउःखाद्विमुक्तः अत्यंतसुखी स्वपुत्रभायादिभिःसहितोजीवितवान् दशमेयुगे- तीतेसति जुजुर्वान् जीर्णोवलीपलितगात्रोबभूव एवंभूतःसन् अर्थं पुरुषैरर्थ्यमानंकर्मफलंस्वर्गादिकं- यतीनांप्राप्नुवन्तीनां अपांअप्कार्यणांप्रजानां यद्वा अपांअपसांकर्मणांअर्थंप्रयोजनंयतीनां तासांप्रजा- ना ब्रह्माब्रह्मसदृशः परिवृढोभवति किंच सारथिः तद्वन्निर्वाहकोभवति देवोभवतीत्यर्थः एवमस्य- वृत्तांतंमन्त्रोनोवदतिस्वयंवास्वात्मानं पारोक्ष्येणाशिनोर्महानुभावत्वंप्रकटयितुंब्रवीति ॥ ६ ॥

प्रद्यावेतिपंचर्चंतृतीयंसूक्तं दैर्घतमसंजागतंद्यावापृथिव्यं अनुक्रान्तंच—प्रद्यावापंचद्यावापृथिव्यं- तुजागतंत्विति अग्निष्टोमेपृष्ठ्यस्यषष्ठेहनिचद्यावापृथिव्यनिविद्धानमेतत्सूक्तम् तथाचसूत्रं—प्रद्यावे- तिदैर्घतमसमिति आद्याद्यावापृथिव्येपशौहविषोयाज्या तथाचसूत्रितम्—प्रद्यावायज्ञैः पृथिवीऋता- वृधामृळानोरुद्रोतनोमयस्कृधीतिद्वेइति ।