न मा᳚ गरन्न॒द्यो᳚ मा॒तृत᳚मा दा॒सा यदीं॒ सुस᳚मुब्धम॒वाधु᳚ः ।
शिरो॒ यद᳚स्य त्रैत॒नो वि॒तक्ष᳚त्स्व॒यं दा॒स उरो॒ अंसा॒वपि᳚ ग्ध ॥
शिरो॒ यद᳚स्य त्रैत॒नो वि॒तक्ष᳚त्स्व॒यं दा॒स उरो॒ अंसा॒वपि᳚ ग्ध ॥
पदपाठः (Word-by-word)
न । मा॒ । ग॒र॒न् । न॒द्यः᳚ । मा॒तृ॑त᳚माः । दा॒साः । यत् । ई॒म् । सु॑स᳚मुब्धम् । अ॒व॒॑अधुः᳚ ।
शिरः᳚ । यत् । अ॒स्य॒ । त्रै॒त॒नः । वि॒॑तक्ष᳚त् । स्व॒यम् । दा॒सः । उरः᳚ । अंसौ᳚ । अपि᳚ । ग्धेति᳚ग्ध ॥
शिरः᳚ । यत् । अ॒स्य॒ । त्रै॒त॒नः । वि॒॑तक्ष᳚त् । स्व॒यम् । दा॒सः । उरः᳚ । अंसौ᳚ । अपि᳚ । ग्धेति᳚ग्ध ॥
सायणभाष्यम् (Sayana Commentary)
नद्योनद शीलाः मातृतमाः मातृवज्जगतांहितकारिण्यः आपः मामांदीर्घतमसं नगरन् नगिरेयुः निमग्नंमाकुर्युः गॄनिगरणे लेटिव्यत्ययेनशप् गिरणप्राप्तिंदर्शयति यद्यस्माद्दासाअस्मदुपक्षपयितारो- मदीयगर्भदासाः ईंएनंदीर्घतमसंमांसुसमुब्धं सुष्ठुसंकुचितसर्वांगं स्वतीपूजायामिति प्रादिसमासेअ- व्ययपूर्वपदप्रकृतिस्वरत्वम् अवाधुः अवाङ्मुखमपातयन् किंच अस्यममशिरः सत्रैतनः एतन्नामको- दासः अत्यंतनिर्घृणःसन् यद्यस्माद्वितक्षत् विविधंतष्टवान् तस्मात्सदासः स्वयंस्वकीयमेवशिरः तक्ष- तु नकेवलंशिरएव अपितुमदीयमुरः वक्षः स्थलंअंसौचग्ध हतवान् विदारितवानित्यर्थः हंतेर्लुङिछा- न्दसमेतद्रूपम् ततःस्वकीयमुरः अंसावपिस्वशस्त्रेणैवतथाकृतवान् तद्युवयोर्माहात्म्यमितिभावः ॥ ५ ॥