सु॒जन्म᳚नी धि॒षणे᳚ अ॒न्तरी᳚यते दे॒वो दे॒वी धर्म᳚णा॒ सूर्य॒ः शुचि᳚ः ॥
पदपाठः (Word-by-word)
सु॒जन्म᳚नी॒ इति᳚ सु॒॑जन्म᳚नी । धि॒षणे॒ इति᳚ । अ॒न्तः । ई॒य॒ते॒ । दे॒वः । दे॒वी इति᳚ । धर्म᳚णा । सूर्यः᳚ । शुचिः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
तेहि तेखलुप्रसिद्धे द्यावापृथिवीअन्तः तयोरंतराले शुचिःशुद्धः विशस्यशोचयिता वा देवोदीप्य- मानः सूर्योधर्मणाप्रकाशोदकदानादिधारणेनयुक्तःसन् ईयते सर्वदागच्छति ईङ्गतौ दैवादिकः तादृ- शंकर्मयुवयोरनुग्रहादितिस्तुतिः कीदृश्यौते विश्वशंभुवा विश्वंसुखंभावयितृययोस्तेविश्वशंभुवा विश्व- स्यसुखयित्र्यावित्यर्थः ऋतावरीऋतवत्यौउदकवत्यौ ऋतशब्दाच्छन्दसीवनिपावितिवनिप् वनोर- चेतिङीब्रेफौ रजसः उदकस्य उदकोत्पत्तौ उदकंरजउच्यतेइतिनिरुक्तम् । धारयत्कवी अकृच्छ्रेणधार- कंकवित्वंययोस्तेतादृश्यौ उदकोत्पदनायाप्रयत्नवत्यौइत्यर्थः यद्वा धारयत्कविर्मनीषीआदित्योययो- स्तेतादृश्यौ वृष्ट्युदकधारणवित्सूर्योपेतेइत्यर्थः सुजन्मनीशोभनजन्मवत्यौ धिषणेधर्षणोपेते स्वव्या- पारेषुप्रगल्भेइत्यर्थः देवीद्योतमाने अत्रयद्यपिधिषणेइत्येतत् धिषणेरोदसीइतितन्नामसूक्तत्वात् द्या- वापृथिवीनाम तथापिद्यावापृथिवीइत्यस्यविद्यमानत्वाद्यौगिकंद्रष्टव्यम् ॥ १ ॥