श्रवणम्

1.160.2
उ॒रु॒व्यच᳚सा म॒हिनी᳚ अस॒श्चता᳚ पि॒ता मा॒ता च॒ भुव᳚नानि रक्षतः ।
सु॒धृष्ट᳚मे वपु॒ष्ये॒३॒᳚ न रोद᳚सी पि॒ता यत्सी᳚म॒भि रू॒पैरवा᳚सयत् ॥
▶ पदपाठः (Word-by-word)
उ॒रु॒॑व्यच᳚सा । म॒हिनी॒ इति᳚ । अ॒स॒श्चता᳚ । पि॒ता । मा॒ता । च॒ । भुव᳚नानि । र॒क्ष॒तः॒ ।
सु॒धृष्ट᳚मे॒ इति᳚ सु॒॑धृष्ट᳚मे । व॒पु॒ष्येः॒३॒᳚ इति᳚ । न । रोद᳚सी॒ इति᳚ । पि॒ता । यत् । सी॒म् । अ॒भि । रू॒पैः । अवा᳚सयत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उरुव्यचसा प्रभूतवचनवत्यौ अतिविस्तीर्णे महिनी अतएवमहत्यौ असश्चताअसज्यमाने परस्पर- वियुक्तेइत्यर्थः पिता पालयित्रीद्यौः मातानिर्मात्रीपृथिवीचेत्युभे भुवनानिभूतजातानि रक्षतः पाल- यतः द्यौः पितः पृथिवीमातरित्यादिश्रुतेर्मातापितृरूपत्वं किंच सुधृष्टमे अतिश्येनधृष्टे छान्दसस्तका- रलोपः प्रगल्भेरोदसी द्यावापृथिव्यौ वपुष्येन वपुषोहितेइव प्राणिनां पितराविव शरीररक्षकेइत्यर्थः तदेवोपपादयति यद्यस्मात्सीं सर्वतः पिता पितृस्थानीया द्यौः रूपैः निरूपणसाधनैः प्रशस्तैः प्रकाशैः निरूप्यमाणैर्वृष्ट्यादिभिर्वा अभ्यवासयत् अभिवासयति अधितिष्ठति तस्मात्पितामाताचभुवनानि- रक्षतः ॥ २ ॥