प्रथमं मण्डलम् - सूक्तम् 72

10 ऋचः

ऋषिः: पराशरः शाक्त्यः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 1.72 - सम्पूर्णम्

1 / 10
ऋक्: 1.72.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
1.72.1
नि काव्या᳚ वे॒धस॒ः शश्व᳚तस्क॒र्हस्ते॒ दधा᳚नो॒ नर्या᳚ पु॒रूणि᳚ ।
अ॒ग्निर्भु᳚वद्रयि॒पती᳚ रयी॒णां स॒त्रा च᳚क्रा॒णो अ॒मृता᳚नि॒ विश्वा᳚ ॥
▶ पदपाठः (Word-by-word)
नि । काव्या᳚ । वे॒धसः᳚ । शश्व᳚तः । कः॒ । हस्ते᳚ । दधा᳚नः । नर्या᳚ । पु॒रूणि᳚ ।
अ॒ग्निः । भु॒व॒त् । र॒यि॒॑पतिः᳚ । र॒यी॒णाम् । स॒त्रा । च॒क्रा॒णः । अ॒मृता᳚नि । विश्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नि काव्येति दशर्चमष्टमं सूक्तं त्रैष्टुभमाग्नेयं पराशरस्यार्षं अनुक्रांतं च । नि काव्येति ॥ प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥

शश्वतः शाश्वतस्य नित्यस्य वेधसो विधातुर्ब्रह्मणः संबंधीनि काव्या काव्यानि मंत्ररूपाणि स्तोत्राण्ययमग्निर्नि कः । नियमेन स्वात्माभिमुखं करोति किं कुर्वन् । नर्या नृभ्यो हितानि नृषु साधूनि वा पुरूणि बहूनि धनानि हस्ते दधानो हस्ते धारयन् । ईदृग्भूतमग्निमवलोक्य सर्वे जनाः स्तुवंतीति भावः । स्तोतृभ्यो धनेष्वप्यग्नेर्धनं न क्षीयत इत्याह । अग्निरिति । अयमग्नी रयीणां रयिपतिर्भुवत् । धनानां मध्ये यानि धनान्युत्कृष्टानि तेषां स्वामी भवति । किं कुर्वन् । विश्वा विश्वानि सर्वाण्यमृतानि । हिरण्यनामैतत् । अमृतं हिरण्यम् । अथ ५-२८-११ । इति श्रुतेः । सर्वाणि हिरण्यानि स्तोतृभ्यः सत्रा सहैव चक्राणः कुर्वन् । युगपत्प्रयच्छन्नित्यर्थः ॥ कः । करोतेश्छांदसो लुङ् । मंत्रे घसेति च्लेर्लुक् । हल्ङ्याभ्य इति तकारलोपः । नर्या । नरशब्दाद्धितार्थे गवादिलक्षणो यत्प्रत्ययो द्रष्टव्यः (पा ५-१-२) यद्वा । तत्र साधुरिति यत् । चक्राणः । करोतेर्लटः शानच् । बहुलं छंदसीति विकरणस्य श्लुः । नन्वेवं सत्यभ्यस्तानामादिरित्याद्युदात्तत्वं प्राप्नोति । एवम् । तर्हि लिटः कानजस्तु । तस्यार्धधातुकत्वेनाभ्यास्ताद्युदात्तत्वाभावे चित्स्वर एव शिष्यते ॥ १ ॥

1.72.2
अ॒स्मे व॒त्सं परि॒ षन्तं॒ न वि᳚न्दन्नि॒च्छन्तो॒ विश्वे᳚ अ॒मृता॒ अमू᳚राः ।
श्र॒म॒युवः᳚ पद॒व्यो᳚ धियं॒धास्त॒स्थुः प॒दे प᳚र॒मे चार्व॒ग्नेः ॥
▶ पदपाठः (Word-by-word)
अ॒स्मे इति᳚ । व॒त्सम् । परि᳚ । सन्त᳚म् । न । वि॒न्द॒न् । इ॒च्छन्तः᳚ । विश्वे᳚ । अ॒मृताः᳚ । अमू᳚राः ।
श्र॒म॒॑युवः᳚ । प॒द॒॑व्यः᳚ । धि॒य॒म्॑धाः । त॒स्थुः । प॒दे । प॒र॒मे । चारु᳚ । अ॒ग्नेः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मे अस्माकं वत्सं वत्सवदत्यंतं प्रियम् । यद्वा । वत्सः पुत्रः पश्चादुत्पन्नत्वात् । तद्वदग्निरप्यस्याकं पुत्रः । तथा चाम्नायते । ममैव सन्वह हव्यान्यग्ने । पुत्रः पित्रे लोककृज्जातवेदः । तै ब्रा ३-७-७-१० । इति । परि षंतं परितः । सर्वत्रवर्तमानम् । देवेभ्यो निर्गत्याश्वत्थवेण्वादिषु निलीनं संतमित्यर्थः । एवंविधमग्निमिच्छंतो विश्वेऽमृताः सर्वेऽमरणधर्माणो देवा अमूरा अमूढा मरुतश्च न विंदन् । तमग्निं नालभंत । अलभमानाश्च ते श्रमयुवो हव्यवाहनस्याभावेन हविषामभावात्तज्जन्येन श्रमेण क्लेशेनैकीभूताः तस्याग्नेरन्वेषणाय पदव्यः पादैर्गच्छंतः धियंधा धियामग्नेः शयनासनस्थानादिलक्षणानां कर्मणां धारयितारः । एवंविधा संतश्चारु चारुणि शोभनेऽग्नेः परम उत्तमेऽंत्ये पदे । यत्र ह्यग्निर्निलीनो वर्तते तत्रेत्यर्थः । तस्मिन्पदे तस्थुः । स्थितिवंतः । बहुविधेन प्रयासेनाग्निं ददृशुरित्यर्थः ॥ परि षंतम् । उपसर्गप्रादुर्भ्यामस्तिर्यच् परः (पा ८-३-८७) इति षत्वम् । श्रमयुवः । यु मिश्रणे । श्रमेण यूयंत इति श्रमयुवः । क्विब्वचिप्रच्छीत्यादिना (उ २-५७) विधीयमानौ क्विब्दीर्घावस्मादपि धातोर्भवतः । तन्वादित्वादुवङ् । पदव्यः । वी गत्यादिषु । पादेन वियंति गच्छंतीति पदव्यः । क्विप्चेति क्विप् । धियंधाः । आतोऽनुपसर्गे क इति कः । तत्पुरुषे कृति बहुलमिति बहुलवचनाद्द्वितीयाया अप्यलुक् । तस्थुः । पादादित्वान्निघाताभावः । चारु । सुपां सुलुगिति सप्तम्या लुक् ॥ २ ॥

1.72.3
ति॒स्रो यद᳚ग्ने श॒रद॒स्त्वामिच्छुचिं᳚ घृ॒तेन॒ शुच᳚यः सप॒र्यान् ।
नामा᳚नि चिद्दधिरे य॒ज्ञिया॒न्यसू᳚दयन्त त॒न्व१॒᳚ः सुजा᳚ताः ॥
▶ पदपाठः (Word-by-word)
ति॒स्रः । यत् । अ॒ग्ने॒ । श॒रदः᳚ । त्वाम् । इत् । शुचि᳚म् । घृ॒तेन᳚ । शुच᳚यः । स॒प॒र्यान् ।
नामा᳚नि । चि॒त् । द॒धि॒रे॒ । य॒ज्ञिया᳚नि । असू᳚दयन्त । त॒न्वः᳚ । सु॑जा᳚ताः ॥
▶ सायणभाष्यम् (Sayana Commentary)

शुचयः शोधयितारो दीप्ता वा मरुतो हे अग्ने शुचिं शुद्धं दीप्यमानं वा त्वामिद्देवेभ्यो निर्गतं त्वामेवोद्दिश्य तिस्रः शरदस्त्रीन् संवत्सरान्घृतेनाज्येन यद्यदा सपर्यान् पूजां कुर्युः तदानीं त्वमाविरभूः । तदनंतरं ते मरुतस्त्वयानुगृहीताः । संतो यज्ञियानि यज्ञार्हाणि यज्ञे प्रयोक्तुं योग्यानि नामानि चित् नामान्यपि दधिरे । अधारयन् । नामानि च तैत्तिरीयके समाम्नायंते । ईदृक् । चान्याद्यक् च तादृङ् च प्रतिदृङ् च मितश्च संमितश्च सभराः । तै । सं ४-६-५-५ । इद्यादीनि । एतैश्चाग्निचयने मारुताः सप्तकपाला हूयंते । नामानि धारयित्वा च सुजाताः पूर्वं रूपं परित्यज्य शोभनममृतत्वं प्राप्ताः संतस्तन्वः स्वकीयानि शरीराण्यसूदयंत । स्वर्गं प्रापितवंतः ॥ तिस्रः शसि त्रिचतुरोः स्त्रियां तिसृचतसृ इति पूर्वसवर्णदीर्घत्वे प्राप्तेऽचि र ऋत इति रेफादेशः । त्रिशब्दः फिषः । फि । १-१ । इत्यंतोदात्तः । तिस्रादेशस्यापि स्थानिवद्भावेनांतोदात्तत्व उदात्तयणो हल्पूर्वादिति शस उदात्तत्वम् । शरदः । शृ हिंसायाम् । शीर्यंतेऽस्यामोषधय इति शरत्संवत्सरः । शृदृभसोऽदि (उ १-१२९) इत्यदिप्रत्ययः । उभयत्र कालाध्वनोरत्यंतसंयोगे (पा २-३-५) इति द्वितीया । सपर्यान् । सपर पूजायाम् । कंड्वादिः । लेट्याडागमः । इतश्च लोप इतीकारलोपः । यज्ञियानि । यज्ञर्त्विग्भ्यां घखञावित्यर्हार्थे घप्रत्ययः ॥ ३ ॥

1.72.4 समानपद
आ रोद᳚सी बृह॒ती वेवि᳚दाना॒ः प्र रु॒द्रिया᳚ जभ्रिरे य॒ज्ञिया᳚सः ।
वि॒दन्मर्तो᳚ ने॒मधि᳚ता चिकि॒त्वान॒ग्निं प॒दे प᳚र॒मे त᳚स्थि॒वांस᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । रोद᳚सी॒ इति᳚ । बृ॒ह॒ती इति᳚ । वेवि᳚दानाः । प्र । रु॒द्रिया᳚ । ज॒भ्रि॒रे॒ । य॒ज्ञिया᳚सः ।
वि॒दत् । मर्तः᳚ । ने॒म॑धि᳚ता । चि॒कि॒त्वान् । अ॒ग्निम् । प॒दे । प॒र॒मे । त॒स्थि॒॑वांस᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

बृहती महत्यौ रोदसी द्यावापृथिव्यावा वेविदाना अत्यर्थं ज्ञापयंतः । कुत्राग्निर्वर्तत इति परस्परं वदंतो द्यावापृथिव्योर्मध्ये वर्तमाना इत्यर्थः । यद्वा । महत्योर्द्यावापृथिर्व्योर्मध्य आ वेविदाना अग्निमुपलभमानाः । एवंभूता यज्ञियासो यज्ञार्हा देवा रुद्रियाः । रुद्रोऽग्निः । देवानामसुरैः सह युद्ध समये तैर्देवैः स्थापितं धनमपहृत्य गतवंतमग्निं देवा आगत्याग्निसकाशाद्बलेन तद्धनमगृह्णन् । तदानीं सोऽग्निररोदित् । तस्माद्रुद्र इत्याख्यायते । तथा च तैत्तिरीयकम् । तदग्निर्न्यकामयत तेनापाक्रामत् तद्देवा विजित्यावरुरुत्समाना अन्वायन् तदस्य सहसादित्संत सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम् । तै । सम् । १-५-१-१ । इति । तस्य रुद्रस्यार्हाणि स्तोत्राणि प्र जभ्रिरे । प्रजह्रिरे । चक्रुरित्यर्थः । नेमधिता । नेमशब्दोऽर्धवचनः । तथा च यास्कः । त्वो नेम इत्यर्धस्य (नि ३-२०) इति । सर्वेषां देवानामर्धभागेन धीयते धार्यत इति नेमधित इंद्रः । सर्वे देवा एकोऽर्धः । इंद्र एक एवापरोऽर्ध इति यावत् । तथा च तैत्तिरीयकम् । यत्सर्वेषामर्धमिंद्रः प्रति तस्मादिंद्रो देवतानां भूयिष्ठभाक्तमः । तै सं ५-४-८-३ । इति । तेनेंद्रेण सहितो मर्तो मरुद्गणः परम उत्तमेऽत्ये पदे स्थानेऽश्वत्थादौ तस्थिवांसं स्थितवंतमग्निं चिकित्वाञ्जानन्निदत् । अलभत ॥ वेविदानाः । विदेर्ज्ञानार्थाल्लाभार्थाद्वा यङंताल्लटः शानच् । बहुलं छंदसीति शपो लुक् । छंदस्युभयथेति शानच आर्धधातुकत्वादतोलोपयलोपौ । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । विदत् । विद्लृलाभे । लुङिल्बदित्वात् च्लेरङादेशः । नेमधिता । दधातेः कर्मणि निष्ठा । सुधित वसुधित नेमधित (पा ७-४-४५) इति धिभावो निपात्यते । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । सुपां सुलुगिति तृतीयाया अकारः । तस्थिवांसम् । तिष्ठतेर्लिटः क्वसुः । वस्वेकाजाद्घसामितीडागमः ॥ ४ ॥

1.72.5
सं॒जा॒ना॒ना उप᳚ सीदन्नभि॒ज्ञु पत्नी᳚वन्तो नम॒स्यं᳚ नमस्यन् ।
रि॒रि॒क्वांस᳚स्त॒न्व᳚ः कृण्वत॒ स्वाः सखा॒ सख्यु᳚र्नि॒मिषि॒ रक्ष᳚माणाः ॥
▶ पदपाठः (Word-by-word)
स॒म्॑जा॒ना॒नाः । उप᳚ । सी॒द॒न् । अ॒भि॒॑ज्ञु । पत्नी᳚॑वन्तः । न॒म॒स्य᳚म् । न॒म॒स्य॒न्निति᳚ नमस्यन् ।
रि॒रि॒क्वांसः᳚ । त॒न्वः᳚ । कृ॒ण्व॒त॒ । स्वाः । सखा᳚ । सख्युः᳚ । नि॒॑मिषि᳚ । रक्ष᳚माणाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

घर्माभिष्टवे संजानाना इत्येषा । अथोत्तरमिति खंडे सूत्रितम् । संजानाना उप सीदन्नभिज्ञ्वादशभिर्विवस्वतः (आ ४-७) इति ॥

हे अग्ने त्वां संजानानाः सम्यग्जानंतो देवा उप सीदन् । उपसीदंतिप्राप्नुवंति । उपसत्तिं कृत्वा च पत्नीवंतः सपत्नीकाः संतो नमस्यं नमस्कारार्हमभिज्ञु अभिमुख्येनावस्थितजानुयुक्तं त्वां नमस्यन् । अपूजयन् । पूजयित्वा च सख्युर्मित्रस्य तव निमिषि दर्शने निमित्तभूते सति रक्षमाणास्त्वया परिरक्ष्यमाणाः सखा सखायो देवाः स्वास्तन्वः स्वकीयानि शरीराणि रिरिक्वांसोऽनशनादिरूपेण दीक्षानियमेन रिक्तीकुर्वंतः शोषयंतः कृण्वत । यागानकुर्वन् । देवा वै यज्ञमतन्वत । ऐ ब्रा २-११ । इति श्रुतेः ॥ नमस्यन् । नमोवरिवश्चित्रङ इति पूजार्थे क्यच् । लङि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । रिरिक्वांसः । रिचिर् विरेचने । लिटः क्वसुः । निमिषि । मिष स्वर्धायाम् । अत्रोपसर्गवशाद्दर्शनार्थः । संपदादिलक्षणो भावे क्विप् । रक्षमाणाः । कर्मणि लटः शानच् । यकि प्राप्ते व्यत्ययेन शप् ॥ ५ ॥

1.72.6 समानपद
त्रिः स॒प्त यद्गुह्या᳚नि॒ त्वे इत्प॒दावि᳚द॒न्निहि᳚ता य॒ज्ञिया᳚सः ।
तेभी᳚ रक्षन्ते अ॒मृतं᳚ स॒जोषा᳚ः प॒शूञ्च᳚ स्था॒तॄञ्च॒रथं᳚ च पाहि ॥
▶ पदपाठः (Word-by-word)
त्रिः । स॒प्त । यत् । गुह्या᳚नि । त्वे इति᳚ । इत् । प॒दा । अ॒वि॒द॒न् । नि॑हि᳚ता । य॒ज्ञिया᳚सः ।
तेभिः᳚ । र॒क्ष॒न्ते॒ । अ॒मृत᳚म् । स॒॑जोषाः᳚ । प॒शून् । च॒ । स्था॒तॄन् । च॒रथ᳚म् । च॒ । पा॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्रिः सप्त एकविंशतिसंख्याकानि गुह्यानि रहस्यानि वेदैकसमधिगम्यानि यद्यानि पदा पदानि । पद्यते गम्यते स्वर्ग एभिरिति व्युत्पत्त्या पदशब्देनात्र यज्ञा उच्यंते । ते चैकविंशतिसंख्याकाः । औपासनहोमवैश्वदेवादयः सप्त पाकयज्ञाः । अग्न्याधेयदर्शपूर्णमासादयः सप्त हविर्यज्ञाः । अग्निष्टोमात्यग्निष्टोमादयः सप्त सोमयज्ञाः । एवमेकविंशतिसंख्याकानि यज्ञलक्षणानि पदानि हे अग्ने त्वे इत् त्वय्येव निहिता स्थापितानि । तेषां सर्वेषां त्वत्प्रधानत्वात् । न ह्यग्निमंतरेण यागा अनुष्ठातुं शक्यंते । यज्ञियासो यज्ञार्हा अर्थित्वसामर्थ्यवैदुष्यादिभिरधिकारहेतुभिर्युक्ताः । तथा चोक्तम् । अर्थी समर्थो विद्वान् शास्त्रेणापर्युदस्तः कर्मण्यधिकारीति । एवंविधलक्षणोपेता यजमानास्तानि पदान्यविदन् । अलभंत । लब्ध्वा च तेभिर्यज्ञलक्षणैः पदैरमृतममरणधर्माणं त्वां रक्षंते । पालयंति । यजंतीत्यर्थः । सजोषास्तैर्यजमानैः समानप्रीतिस्त्वं पशून् गवाश्वादिपशूंश्चस्थातृन् व्रीह्यादिस्थावराणि चरथं पशुव्यतिरिक्तमन्यद्यत्प्राणिजातमस्ति तच्छ पाहि । रक्ष । तेषु हि रक्षितेषु त्वदीया यागाः कर्तुं शक्यंते नान्यथा । अतस्त्वमेवमुच्यस इत्यर्थः ॥ यत् । सुपां सुलुगिति विभक्तेर्लुक् । गुह्यानि । गुहायां भवानि । भवे छंदसीति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । त्वे सुपां सुलुगिति सप्तम्याः शे आदेशः । अविदन् । विद्लृ लाभे । लुङि लृदित्त्वादङ् । पशून् स्थातृन् । उभयत्रोभयथर्क्षु (पा ८-३-८) इत्युभयथाभावान्नकारस्य रुत्वाभावः ॥ ६ ॥

1.72.7
वि॒द्वा{4} अ᳚ग्ने व॒युना᳚नि क्षिती॒नां व्या᳚नु॒षक्छु॒रुधो᳚ जी॒वसे᳚ धाः ।
अ॒न्त॒र्वि॒द्वा{4} अध्व᳚नो देव॒याना॒नत᳚न्द्रो दू॒तो अ᳚भवो हवि॒र्वाट् ॥
▶ पदपाठः (Word-by-word)
वि॒द्वान् । अ॒ग्ने॒ । व॒युना᳚नि । क्षि॒ती॒नाम् । वि । आ॒नु॒षक् । शु॒रुधः᳚ । जी॒वसे᳚ । धाः॒ ।
अ॒न्तः॒॑वि॒द्वान् । अध्व᳚नः । दे॒व॒॑याना᳚न् । अत᳚न्द्रः । दू॒तः । अ॒भ॒वः॒ । ह॒विः॒॑वाट् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने वयुनानि । ज्ञाननामैतत् इह तु ज्ञातव्ये वर्तते । सर्वाणि ज्ञातव्यानि विद्वान् जानंस्त्वं क्षितीनां यजमानलक्षणानां प्रजानां जीवसे जीवितुं शुरुधः क्षुद्रूपस्य शोकस्य रोधयित्रीरिषोऽन्नान्यानुषक् अनुषक्तं संततं यथा भवति तथा वि धाः । विधेहि । कुर्वित्यर्थः । एवं यजमानानन्न समृद्धान्कृत्वानंतरम् । हविर्वाट् । तैर्देवेभ्यः प्रत्तं हविर्वहन्दूतोऽभवः । देवानां दूतो भवसि । कीदृशस्त्वम् । अंतर्विद्वान् द्यावापृथिव्योर्मध्ये जानन् । किं जानन् । अध्वनो मार्गान् । कीदृशान् । देवयानान् । देवा यैर्मार्गैर्यांति गच्छंति ताञ्चानन्नित्यर्थः । अतंद्रः पुनर्हविर्वहनेऽप्यनलसः ॥ । वयुनानि । अज गतिक्षेपणयोः । अजियमिशीङ् भ्यश्च (उ ३-६१) इति कर्मण्युनप्रत्ययः । अजेर्व्यघञपोः (पा २-४-५६) इति वीभावः । क्षितीनाम् । क्षियंति, निवसंतीति क्षितयो मनुष्याः । क्तिच् क्तौ च संज्ञायामिति कर्तरि क्तिच् । अंतोदात्ताद्ध्रस्वांतात्क्षितिशब्दादुत्तरस्य नामो नामन्यतरस्यामित्युदात्तत्वम् । शुरुधः । शुचम् । रुंधंतीति शुरुधः । क्विप्चेति क्विप् । पूर्वपदस्यांत्यलोपः । पृषोदरादित्वात् ॥ ७ ॥

1.72.8
स्वा॒ध्यो᳚ दि॒व आ स॒प्त य॒ह्वी रा॒यो दुरो॒ व्यृ᳚त॒ज्ञा अ᳚जानन् ।
वि॒दद्गव्यं᳚ स॒रमा᳚ दृ॒ळ्हमू॒र्वं येना॒ नु कं॒ मानु᳚षी॒ भोज᳚ते॒ विट् ॥
▶ पदपाठः (Word-by-word)
स्वु॒॑आध्यः᳚ । दि॒वः । आ । स॒प्त । य॒ह्वीः । रा॒यः । दुरः᳚ । वि । ऋ॒त॒॑ज्ञाः । अ॒जा॒न॒न् ।
वि॒दत् । गव्य᳚म् । स॒रमा᳚ । दृ॒ळ्हम् । ऊ॒र्वम् । येन᳚ । नु । क॒म् । मानु᳚षी । भोज᳚ते । विट् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वाध्यः शोभनकर्मयुक्ता यह्वीर्यह्वो महत्यः सप्त गंगाद्याः सप्त नद्यो दिवो द्युलोकादागत्य भूम्यां प्रवहंतीति शेषः । हे अग्ने ईदृग्विधा नद्यस्त्वया स्थापिताः । अग्नौ होमे सति हि तेन तृप्तः सूर्यो वृष्टिं करोति । तस्मिन्नर्थे स्मृतिः पूर्वमुदाहृता । अतो वृष्टिद्वाराग्निरेव नदीः करोतीत्युच्यते । तथा ऋतज्ञा ऋतं यज्ञं जानंतोऽंगिरसो रायो वलनाम्नासुरेणापहृतस्यगोरूपस्य धनस्य दुरो द्वाराणि गमनमार्गानजानन् । त्वया ज्ञानवंतः । त्वत्साध्येन यागेन प्रीत इंद्रो गवामन्वेषणाय सरमां नाम देवशुनीं प्रेषितवान् । सा च सरमा गवां स्थानमवगत्येंद्रस्य न्यवेदयत् । इंद्रश्च तानंगिरसो गाः प्रापयत् । अत एतत्सर्वं त्वमेव कृतवान् । अंगिरोभ्यः सकाशाद्गव्यं गवि भवं दृळ्हं स्थूलं बहुलमित्यर्थः । एवंविधं पयोलक्षणमूर्वमन्नं सरमा देवशुनी विदत् । अलभत । कमित्येतत्पादपूरणम् । येन नु येन हि गव्येन मानुषी विट् मनोः संबंधिनी प्रजा भोजते इदानीं भुंक्ते । तद्गव्यमपि परंपरयाग्निरेव करोति ॥ स्वाद्यः । सुअङ् पूर्वाद्धीशब्दाज्जस्येरनेकाच इति यणादेशः । यह्वीः । वा छंदसीति पूर्वसवर्णदीर्घत्वम् । गव्यम् । सर्वत्र गोरजादिप्रत्ययप्रसंगे यद्वक्तव्यमिति भावार्थे यत् । ऊर्वम् । उर्वी हिंसार्थः । ऊर्वति क्षुधं हिनस्तीत्यूर्वमन्नम् । पचाद्यच् । भोजते । भुज पालनाभ्यवहारयोः । श्नमि प्राप्ते व्यत्ययेन शप् ॥ ८ ॥

1.72.9
आ ये विश्वा᳚ स्वप॒त्यानि᳚ त॒स्थुः कृ᳚ण्वा॒नासो᳚ अमृत॒त्वाय᳚ गा॒तुम् ।
म॒ह्ना म॒हद्भि᳚ः पृथि॒वी वि त᳚स्थे मा॒ता पु॒त्रैरदि᳚ति॒र्धाय᳚से॒ वेः ॥
▶ पदपाठः (Word-by-word)
आ । ये । विश्वा᳚ । सु॒॑अ॒प॒त्यानि᳚ । त॒स्थुः । कृ॒ण्वा॒नासः᳚ । अ॒मृ॒त॒॑त्वाय᳚ । गा॒तुम् ।
म॒ह्ना । म॒हत्॑भिः᳚ । पृ॒थि॒वी । वि । त॒स्थे॒ । मा॒ता । पु॒त्रैः । अदि᳚तिः । धाय᳚से । वेरिति॒ वेः ॥
▶ सायणभाष्यम् (Sayana Commentary)

य आदित्या अमृतत्वायामरणत्वसिद्धये गातुं मार्गमुपायं कृण्वानासः कुर्वाणाः संतो विश्वा विश्वानि सर्वाणि स्वपत्यानि शोभनान्यपतनहेतुभूतानि चतुर्दशरात्रषट् त्रिंशद्रात्रादित्यानामयनादीनि कर्माण्या तस्थुः आस्थितवंतः । कृतवंत इत्यर्थः । तथा च तैत्तिरीयकम् । आदित्या अकामयंत सुवर्गं लोकमियामेतीति । त एतग्ं षट् त्रिंशद्रात्रमपश्यन् तमाहरन् तेनायजंतेति च । तै सं ७-४-६-१ । महद्भिरनुष्ठानेन महानुभावैस्तैः पुत्रैः सहिता माता जनयित्र्यदितिरदीना पृथिवी धायसे सर्वस्य जगतो धारणाय मह्ना स्वकीयेन महत्त्वेन वि तस्थे । विशेषेण तिष्ठति । हे अग्ने यतस्त्वं वेः आदित्यैरनुष्ठितेषु यागेषु चरुपुरोडाशादीनि हवींष्यभक्षयः । अत एतत्सर्वं जातमित्यर्थः ॥ कृण्वानासः । कृवि हिंसाकरणयोश्च । व्यत्ययेनात्मनेपदम् । धिन्विकृण्व्योरच्चेत्युप्रत्ययः । तत्संनियोगेनाकारांतादेशश्च । तस्यतो लोपे सति स्थानिवद्भावाद्गुणाभावः । शानचश्चित्त्वादंतोदात्तत्वम् । अज्जसेरसुक् । मह्ना । महिम्नेत्यस्य । वर्णलोपश्छांदसः । धायसे । वहिहाधाञ्भ्यश्छंदसीति दधातेर्भावेऽसुन् । णिदित्यनुवृत्तेरातो युक् चिण्कृतोरिति युक् । वेः । वी गतिप्रजनकांत्यशनखादनेषु । लङि सिप्यदादित्वाच्छपो लुक् । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । धायस इत्यस्य वाक्यांतरगतत्वादस्य निघाताभावः ॥ ९ ॥

1.72.10
अधि॒ श्रियं॒ नि द᳚धु॒श्चारु᳚मस्मिन्दि॒वो यद॒क्षी अ॒मृता॒ अकृ᳚ण्वन् ।
अध᳚ क्षरन्ति॒ सिन्ध᳚वो॒ न सृ॒ष्टाः प्र नीची᳚रग्ने॒ अरु᳚षीरजानन् ॥
▶ पदपाठः (Word-by-word)
अधि᳚ । श्रिय᳚म् । नि । द॒धुः॒ । चारु᳚म् । अ॒स्मि॒न् । दि॒वः । यत् । अ॒क्षी इति᳚ । अ॒मृताः᳚ । अकृ᳚ण्वन् ।
अध᳚ । क्ष॒र॒न्ति॒ । सिन्ध᳚वः । न । सृ॒ष्टाः । प्र । नीचीः᳚ । अ॒ग्ने॒ । अरु᳚षीः । अ॒जा॒न॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मिन्नग्नौ चारु शोभनां श्रियं परिस्तरणपरिषेचनादिरूपां यज्ञ संपदमधि नि दधुः । यजमाना स्थापितवंतः । निधाय च यद्यदाक्षी यज्ञस्याज्यभागलक्षणे चक्षुषी अकृण्वन् कुर्वंति । चक्षुषी वा एते यज्ञस्य यदाज्यभागौ । तै सं २-६-२-१ । इति श्रुतेः । तदानीं दिवो द्युलोकादमृता अमरणधर्माणो देवा यागसमयो जात इत्यवगम्यागच्छंतीति शेषः । अधाज्यभागानंतरं सृष्टा अग्नेरुत्पन्नाः सिंधवो न शीघ्रं गच्छंत्यो नद्य इव नीचीर्नितरां सर्वासु दिक्षु गच्छंतीररुषीरारोचमानाः । यद्वा । निर्मलरूपाः । हे अग्ने एवंभूतास्त्वदीया ज्वालाः क्षरंति । संचलंति । सर्वासु दिक्षूद्गच्छंतीत्यर्थः । आगता देवाश्च प्राजानन् । अस्माकं होमायेदृश्यो ज्वाला उत्पन्ना इति हृष्टाः संतः प्रकर्षेण जानंति ॥ अक्षी । परत्वान्नुमं बाधित्वा ई च द्विवचने (पा ७-१-७७) इत्यक्षिशब्दस्येकारांतादेशः । स चोदात्तः । ईत्वे कृते सकृद्गतपरिभाषया । परि ४० । पुनर्नुम्नभवति । सवर्णदीर्घः । नीचीः । निपूर्वादंचतेर्ऋत्विगित्यादिना क्विन् । अनिदितामिति नलोपः । अंचतेश्चोपसंख्यानमिति ङीप् । अच इत्यकारलोपे चाविति दीर्घत्वम् । न्यधी च (पा ६-२-५३) इति गतेः प्रकृतिस्वरत्वम् । अरुषी । अरुषमिति रूपनाम । ऋहनिभ्यामुषजित्यर्तेरुषच् । छंदसीवनिपाविति मत्वर्थीय ईकारः ॥ १० ॥