श्रवणम्

1.72.7
वि॒द्वा{4} अ᳚ग्ने व॒युना᳚नि क्षिती॒नां व्या᳚नु॒षक्छु॒रुधो᳚ जी॒वसे᳚ धाः ।
अ॒न्त॒र्वि॒द्वा{4} अध्व᳚नो देव॒याना॒नत᳚न्द्रो दू॒तो अ᳚भवो हवि॒र्वाट् ॥
▶ पदपाठः (Word-by-word)
वि॒द्वान् । अ॒ग्ने॒ । व॒युना᳚नि । क्षि॒ती॒नाम् । वि । आ॒नु॒षक् । शु॒रुधः᳚ । जी॒वसे᳚ । धाः॒ ।
अ॒न्तः॒॑वि॒द्वान् । अध्व᳚नः । दे॒व॒॑याना᳚न् । अत᳚न्द्रः । दू॒तः । अ॒भ॒वः॒ । ह॒विः॒॑वाट् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने वयुनानि । ज्ञाननामैतत् इह तु ज्ञातव्ये वर्तते । सर्वाणि ज्ञातव्यानि विद्वान् जानंस्त्वं क्षितीनां यजमानलक्षणानां प्रजानां जीवसे जीवितुं शुरुधः क्षुद्रूपस्य शोकस्य रोधयित्रीरिषोऽन्नान्यानुषक् अनुषक्तं संततं यथा भवति तथा वि धाः । विधेहि । कुर्वित्यर्थः । एवं यजमानानन्न समृद्धान्कृत्वानंतरम् । हविर्वाट् । तैर्देवेभ्यः प्रत्तं हविर्वहन्दूतोऽभवः । देवानां दूतो भवसि । कीदृशस्त्वम् । अंतर्विद्वान् द्यावापृथिव्योर्मध्ये जानन् । किं जानन् । अध्वनो मार्गान् । कीदृशान् । देवयानान् । देवा यैर्मार्गैर्यांति गच्छंति ताञ्चानन्नित्यर्थः । अतंद्रः पुनर्हविर्वहनेऽप्यनलसः ॥ । वयुनानि । अज गतिक्षेपणयोः । अजियमिशीङ् भ्यश्च (उ ३-६१) इति कर्मण्युनप्रत्ययः । अजेर्व्यघञपोः (पा २-४-५६) इति वीभावः । क्षितीनाम् । क्षियंति, निवसंतीति क्षितयो मनुष्याः । क्तिच् क्तौ च संज्ञायामिति कर्तरि क्तिच् । अंतोदात्ताद्ध्रस्वांतात्क्षितिशब्दादुत्तरस्य नामो नामन्यतरस्यामित्युदात्तत्वम् । शुरुधः । शुचम् । रुंधंतीति शुरुधः । क्विप्चेति क्विप् । पूर्वपदस्यांत्यलोपः । पृषोदरादित्वात् ॥ ७ ॥