म॒ह्ना म॒हद्भि᳚ः पृथि॒वी वि त᳚स्थे मा॒ता पु॒त्रैरदि᳚ति॒र्धाय᳚से॒ वेः ॥
पदपाठः (Word-by-word)
म॒ह्ना । म॒हत्॑भिः᳚ । पृ॒थि॒वी । वि । त॒स्थे॒ । मा॒ता । पु॒त्रैः । अदि᳚तिः । धाय᳚से । वेरिति॒ वेः ॥
सायणभाष्यम् (Sayana Commentary)
य आदित्या अमृतत्वायामरणत्वसिद्धये गातुं मार्गमुपायं कृण्वानासः कुर्वाणाः संतो विश्वा विश्वानि सर्वाणि स्वपत्यानि शोभनान्यपतनहेतुभूतानि चतुर्दशरात्रषट् त्रिंशद्रात्रादित्यानामयनादीनि कर्माण्या तस्थुः आस्थितवंतः । कृतवंत इत्यर्थः । तथा च तैत्तिरीयकम् । आदित्या अकामयंत सुवर्गं लोकमियामेतीति । त एतग्ं षट् त्रिंशद्रात्रमपश्यन् तमाहरन् तेनायजंतेति च । तै सं ७-४-६-१ । महद्भिरनुष्ठानेन महानुभावैस्तैः पुत्रैः सहिता माता जनयित्र्यदितिरदीना पृथिवी धायसे सर्वस्य जगतो धारणाय मह्ना स्वकीयेन महत्त्वेन वि तस्थे । विशेषेण तिष्ठति । हे अग्ने यतस्त्वं वेः आदित्यैरनुष्ठितेषु यागेषु चरुपुरोडाशादीनि हवींष्यभक्षयः । अत एतत्सर्वं जातमित्यर्थः ॥ कृण्वानासः । कृवि हिंसाकरणयोश्च । व्यत्ययेनात्मनेपदम् । धिन्विकृण्व्योरच्चेत्युप्रत्ययः । तत्संनियोगेनाकारांतादेशश्च । तस्यतो लोपे सति स्थानिवद्भावाद्गुणाभावः । शानचश्चित्त्वादंतोदात्तत्वम् । अज्जसेरसुक् । मह्ना । महिम्नेत्यस्य । वर्णलोपश्छांदसः । धायसे । वहिहाधाञ्भ्यश्छंदसीति दधातेर्भावेऽसुन् । णिदित्यनुवृत्तेरातो युक् चिण्कृतोरिति युक् । वेः । वी गतिप्रजनकांत्यशनखादनेषु । लङि सिप्यदादित्वाच्छपो लुक् । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । धायस इत्यस्य वाक्यांतरगतत्वादस्य निघाताभावः ॥ ९ ॥