प्रथमं मण्डलम् - सूक्तम् 66

10 ऋचः

ऋषिः: पराशरः शाक्त्यः देवता: अग्निः छन्दः: द्विपदा विराट्

सूक्तम् 1.66 - सम्पूर्णम्

1 / 10
ऋक्: 1.66.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
1.66.1
र॒यिर्न चि॒त्रा सूरो॒ न सं॒दृगायु॒र्न प्रा॒णो नित्यो॒ न सू॒नुः ॥
▶ पदपाठः (Word-by-word)
र॒यिः । न । चि॒त्रा । सूरः᳚ । न । स॒म्॑दृक् । आयुः᳚ । न । प्रा॒णः । नित्यः᳚ । न । सू॒नुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

रयिरिति दशर्चं द्वैपदमध्ययनतः पंचर्चं द्वितीयं सूक्तं पराशरस्यार्षमाग्नेयम् । अनुक्रांतं च । रयिरिति ॥ विनियोगो लैंगिकः ॥

Sayana bhashya empty

1.66.2
तक्वा॒ न भूर्णि॒र्वना᳚ सिषक्ति॒ पयो॒ न धे॒नुः शुचि᳚र्वि॒भावा᳚ ॥
▶ पदपाठः (Word-by-word)
तक्वा᳚ । न । भूर्णिः᳚ । वना᳚ । सि॒स॒क्ति॒ । पयः᳚ । न । धे॒नुः । शुचिः᳚ । वि॒भा॑वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्नी रयिर्न धनमिव चित्रा चायनीयो विचित्ररूपो वा सूरो न सूर्य इव संदृक् संद्रष्टा सर्वेषां वस्तूनां दर्शयिता आयुर्न प्राण आयुर्मुखे संचरन् प्राणः प्रश्वसन्वायुरिव प्रियतमः । यद्वा । यथा प्राणवायुरायुर्जीवनमवस्थापयति । तथा चाम्नायते । यावद्ध्यस्मिन् शरीरे प्राणो वसति तावदायुरिति । एवमग्निरपि जाठररूपेणायुषोऽवस्थापयिता । नित्यो न सूनुर्नित्यो ध्रुवः पुत्र इव प्रियकारी । यथौरसः पुत्रः पितुर्हितमेवाचरति तद्वदयमपि हितस्य स्वर्गस्य प्रापयिता । तथा चाम्नायते । पुत्रः पित्रे लोककृज्जातवेदः । तै । ब्रा । ३-७-७-१० । इति । तक्वा न गतिमानश्व इव भूर्णिर्भर्ता । यथा श्व उपर्यारूढं पुरुषं बिभर्ति धारयति पोषयति वा तद्वदयमपीत्यर्थः । पयो न धेनुः पय इव प्रीणयिता शुचिर्दीप्तः विभावा विशिष्टप्रकाशयुक्तः । एवंगुणविशिष्टोऽग्निर्वना वनान्यरण्यानि सिषक्ति । दग्धुं समवैति । सेवते वा ॥ चित्रा । सुपां सुलुगिति सोः पूर्वसवर्णदीर्घत्वम् । नित्यः । नेर्ध्रुवे (म ४-७-१०४) इति त्यप् । प्रत्ययस्य पित्त्वादनुदात्तत्व उपसर्गस्वर एव शिष्यते । तक्वा । तक हसने । गतिकर्मसु पठितत्वादत्र गत्यर्थः । तकति गच्छतीति तक्वा । अन्येभोऽपि दृश्यंत इति वनिप् । भूर्णिः । घृणिः पृश्निरित्यदौ भरतेर्निप्रत्ययांतो निपातितः ॥ १ ॥ २ ॥

1.66.3
दा॒धार॒ क्षेम॒मोको॒ न र॒ण्वो यवो॒ न प॒क्वो जेता॒ जना᳚नाम् ॥
▶ पदपाठः (Word-by-word)
दा॒धार᳚ । क्षेम᳚म् । ओकः᳚ । न । र॒ण्वः । यवः᳚ । न । प॒क्वः । जेता᳚ । जना᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

1.66.4
ऋषि॒र्न स्तुभ्वा᳚ वि॒क्षु प्र᳚श॒स्तो वा॒जी न प्री॒तो वयो᳚ दधाति ॥
▶ पदपाठः (Word-by-word)
ऋषिः᳚ । न । स्तुभ्वा᳚ । वि॒क्षु । प्र॒॑श॒स्तः । वा॒जी । न । प्री॒तः । वयः᳚ । द॒धा॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निः क्षेमं लब्धस्य धनस्य रक्षणं दाधार । धारयति । स्तोतृभ्यो दत्तस्य धनस्य रक्षणं कर्तुं शक्नोतीति भावः । ओको न निवासस्थानं गृहमिव रण्वो रमणीयः । यद्वा गंतव्यः । गृहवत्सर्वैः । प्राप्यत इत्यर्थः । यवो न यव इव पक्वः । यथा पक्वो यव उपभोगयोग्यो भवति तद्वदग्निरपि पाकादिकार्यहेतुतयोपभोग्य इत्यर्थः । जनानां जेता शत्रुजनानां मध्येऽभिभविता ऋषिर्न मंत्रद्रष्टा ऋषिरिव स्तुभ्वा देवानां स्तोता विक्षु यजमानलक्षणेषु मनुष्येषु प्रशस्तः । प्रख्यातः वाजी न अश्व इव प्रीतो हर्षयुक्तः । यथाश्वो हर्ष युक्तो युद्धाभिमुखं गच्छति तद्वदयमपि देवानां हविर्वहने हर्षयुक्तो भवतीत्यर्थः । एवंभूतोऽग्निर्वयोऽन्नं दधाति । दधातु । अस्मभ्यं ददात्वित्यर्थः । वय इत्यन्ननाम । वयः क्षद्मेति तन्नामसु पाठात् ॥ दाधाक । तुजादीनामित्यभ्यासस्य दीर्घत्वम् । क्षेमम् । क्षियति निवसत्य नेनेति क्षेमः । अर्तिस्तुस्वित्यादिना मन् । नित्त्वादाद्युदात्तत्वम् । रण्वः । रवि धवि गत्यर्थाः । अस्मात्कर्णणि कप्रत्ययः । इदित्त्वान्नुम् । जेता । तृनंत आद्युदात्तः । जनानाम् । यतश्च निर्धारणम् (पा २-३-४१) इति निर्धारणे षष्ठी । नेयं कर्मणि षष्ठीति न लोकाव्ययनिष्ठेति षष्ठीप्रतिषेधो न भवति । स्तुभ्वा । स्तोभतिः स्तुतिकर्मा । अन्येभ्योऽपि दृश्यंत इति क्वनिप् ॥ ३ ॥ ४ ॥

1.66.5
दु॒रोक᳚शोचि॒ः क्रतु॒र्न नित्यो᳚ जा॒येव॒ योना॒वरं॒ विश्व᳚स्मै ॥
▶ पदपाठः (Word-by-word)
दु॒रोक᳚॑शोचिः । क्रतुः᳚ । न । नित्यः᳚ । जा॒या॑इ᳚व । योनौ᳚ । अर᳚म् । विश्व᳚स्मै ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

1.66.6
चि॒त्रो यदभ्रा᳚ट् छ्वे॒तो न वि॒क्षु रथो॒ न रु॒क्मी त्वे॒षः स॒मत्सु᳚ ॥
▶ पदपाठः (Word-by-word)
चि॒त्रः । यत् । अभ्रा᳚ट् । श्वे॒तः । न । वि॒क्षु । रथः᳚ । न । रु॒क्मी । त्वे॒षः । स॒मत्॑सु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दुरोकशोचिर्दुष्प्रापतेजाः क्रतुर्न नित्यः । क्रतुः कर्मणां कर्ता । स इव ध्रुवः । यथा स कर्मसु ध्रुवोऽप्रमत्तः सन् जागर्ति तद्वदयमप्यग्निः कर्मसु रक्षसां दहने ध्रुवो जागर्तीत्यर्थः । योनौ गृहे वर्तमाना जायेव योषिदिव अग्नि होत्रादिगृहे वर्तमानो वन्हिर्विश्वस्मै सर्वस्मै यष्वृजनायारमलं भूषणं भवति । यथा जायया गृहमलं कृतं भवति तद्वदग्निना यज्ञगृहमप्यलंकृतं सद्दृश्यत इत्यर्थः । चित्रश्चायनीयो विचित्रदीप्तिर्वा यद्यदायमग्निरभ्राट् भ्राजते तदानीं श्वेतो न शुभ्रवर्ण आदित्य इव भवति । रात्रौ ह्यहनि सूर्य इवाग्निः प्रकाशको भवति । विक्षु प्रजासु रथो न रथ इव रुक्मी सुवर्णवद्रोचमानदीप्तियुक्तः समत्सु संग्रामेषु त्वेषो दीप्तः । एवं भूतोऽग्निर्यदभ्राडिति पूर्वेणान्वयः ॥ दुरोकशोचिः । उच समवाये । ईषद्दुःसुष्विति कृच्छ्रार्थे खल् । बहुलवचनात्कुत्वम् । लित्स्वरेण ष्रत्ययात्पूर्वस्योदात्तत्वम् । दुरोकं शोचिस्तेजो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अरम् । वालमूलेत्यादिना (म ८-२-१८) लकारस्य रेफादेशः । अभ्राट् । भ्राजृ दीप्तौ । लङि व्यत्ययेन परस्मैपदम् । बहुलं छंदसीति शपो लुक् । व्रश्चादिषत्वे जश्त्वम् । अडागम उदात्तः । यद्वृत्तयोगादनिघातः । समत्सु । समानं माद्यंत्येष्विति समदः संग्रामाः । औणादिकोऽधिकरणे क्विप् । समानस्य च्छंदसीति सभावः । यद्वा । सम्यगत्ति भक्षयति वीरानिति समत् । संपूर्वादत्तेः क्विप्चेचि क्विप् ॥ ५ ॥ ६ ॥

1.66.7
सेने᳚व सृ॒ष्टामं᳚ दधा॒त्यस्तु॒र्न दि॒द्युत्त्वे॒षप्र᳚तीका ॥
▶ पदपाठः (Word-by-word)
सेना᳚॑इव । सृ॒ष्टा । अम᳚म् । द॒धा॒ति॒ । अस्तुः᳚ । न । दि॒द्युत् । त्वे॒ष॑प्र᳚तीका ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

1.66.8
य॒मो ह᳚ जा॒तो य॒मो जनि᳚त्वं जा॒रः क॒नीनां॒ पति॒र्जनी᳚नाम् ॥
▶ पदपाठः (Word-by-word)
य॒मः । ह॒ । जा॒तः । य॒मः । जनि᳚॑त्वम् । जा॒रः । क॒नीना᳚म् । पतिः᳚ । जनी᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सृष्टा प्रेरिता सेनेव स्वामिना सह वर्तमाना भटसंहतिरवायमग्निरमं शत्रूणां भयं दधाति । सा यथा बलवती तद्वदग्निरपि बलवानित्यर्थः । निदर्शनांतरमुच्यते । दिद्युदिति वज्रनाम । तेन चात्रेषुर्लक्ष्यते । त्वेषप्रतीका दीप्तमुखास्तुर्न दिद्युत् क्षेप्तुः संबंधिनीषुरिव । सा यथा भीषयते तद्वदग्निरपि राक्षसादीन् भीषयत इत्यर्थः । अत्र निरुक्तम् । सेनेव सृष्टा भयं वा बलं वा दधात्यस्तुरिव दिद्युत्त्वेषप्रतीकेत्यादि । नि १०-२१ । यच्छति ददाति स्तोतृभ्यः कामानिति यमोऽग्निरुच्यते । यद्वा । इंद्राग्न्योर्युगपदुत्पन्नत्वादग्नेर्यमत्वम् । अस्मिन्नर्थे यास्केन मंत्रब्राह्मणे दर्शिते । यमो ह जात इंद्रेण सह संगतिः । यमाविहेह मातरेत्यपि निगमो भवतीति । यो जात उत्पन्नो भूतसंघो यच्च जनित्वं जनयितव्यमुत्पत्स्यमानं भूतजातं तदुभयमपि यमो ह अग्निरेव । सर्वेषां भावानामाहुतिद्वाराग्न्यधीनत्वात् । कनीनां कन्यकानां जारो जरयिता । यतो विवाहसमय अग्नौ लाजादिद्रव्यहोमे सति तासां कन्यात्वं निवर्तते । अतो जरयितेत्युच्यते । तथा जनीनां जायानां कृतविवाहानां पतिर्भर्ता । तथा चाख्यायते । अनुपजातपुरुषसंभोगेच्छावस्थां स्त्रियं सोमो लेभे । स च सोम ईषदुपजातभोगेच्छां तां विश्वावसवे गंधर्वाय प्रादात् । स च गंधर्वो विवाहसमयेऽग्नये प्रददौ । अग्निश्च मनुजाय भर्त्रे धनपुत्रैः सहितामिमां प्रायच्छदिति । इममर्थं काचिदृक् स्पष्टं ब्रूते । सोमो ददद्गंधर्वाय गंधर्वो दददग्नये । रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम् । ऋ । सं १०-८५-४१ । इति । यास्कस्त्वाह । तृतीयो अग्निष्टे पतिरित्यपि निगमो भवति । नि १०-२१ । इति । यद्वा । जनीनां पालयिता यतोऽयमनुष्ठितैर्यागैः फलं प्रयच्छति ॥ सेनेव । इनेन सह वर्तत इति सेना । वोपसर्जनस्येति सभावः । बहुव्रीहिस्वरः । जनित्वम् । जनी प्रादुर्भावे । कृत्यार्थे तवैकेनिति कर्मणि त्वन्प्रत्ययः । इडागमः । नित्त्वादाद्युदात्तत्वम् । जारः । जरयतीति जारः । दारजारौ कर्तरि णिलुक्च । पा ३-३-२०-४ । इति निपात्यते । कनीनाम् । कन्याशब्दात् षष्ठ्येकवचने बहुलं छंदसीति बहुलग्रर्हणात्संप्रसारणम् । परपूर्वत्वम् । जनीनाम् । जन्यंत आस्विति जनयः स्त्रियः । इन्सर्वधातुभ्य इतीन्प्रत्ययः । नित्त्वादाद्युदात्तत्वं ॥ ७ ॥ ८ ॥

1.66.9
तं व᳚श्च॒राथा᳚ व॒यं व᳚स॒त्यास्तं॒ न गावो॒ नक्ष᳚न्त इ॒द्धम् ॥
▶ पदपाठः (Word-by-word)
तम् । वः॒ । च॒राथा᳚ । व॒यम् । व॒स॒त्या । अस्त᳚म् । न । गावः᳚ । नक्ष᳚न्ते । इ॒द्धम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

1.66.10
सिन्धु॒र्न क्षोद॒ः प्र नीची᳚रैनो॒न्नव᳚न्त॒ गाव॒ः स्व१॒᳚र्दृशी᳚के ॥
▶ पदपाठः (Word-by-word)
सिन्धुः॒ । न । क्षोदः᳚ । प्र । नीचीः᳚ । ऐ॒नो॒त् । नव᳚न्त । गावः᳚ । स्वः᳚ । दृशी᳚के ॥
▶ सायणभाष्यम् (Sayana Commentary)

व इति व्यत्ययेन बहुवचनम् । हे अग्ने तं त्वां चराथा । चरतीति चरथः पशुः । तत्प्रभवैर्हृदयादिभिः साध्याहुतिरपि चरथेत्युच्यते । उपचारात्कार्ये कारणशब्दः । चराथा चरथया पशुप्रभवहृदयादिसाधनयाहुत्या । वसत्या । वसति निवसतीति स्थावरो व्रीह्यादिर्वसतः । पूर्ववत्तत्साध्याहुतिर्लक्ष्यते । वसत्या पुरुडाशाद्याहुत्या च वयमिद्धं प्रदीप्तमग्निं नक्षंते । व्याप्नुयाम । पुरुषव्यत्ययः । तत्र दृष्टांतः । अस्तं न गावः । अस्तमिति गृहनाम । यथा गावो गृहं व्याप्नुवंति तद्वत् । अत्र यास्कः । तं वश्चराथा चरंत्या पश्वाहुत्या वसत्या च निवसंत्यौषधाहुत्यास्तं यथा गाव आप्नुवंति तथाप्नुयाम । नि १०-२१ । इति । अयमग्निः सिंधुर्न क्षोदः स्यंदनशीलमुदकमिव नीचीर्नितरामंचतीरितस्ततो नितरामुद्गच्छंतीर्ज्वालाः प्रैनोत् । प्रेरयति । यथा जलप्रवाहो निम्नदेशे शीघ्रं गच्छति तद्वदग्नेर्ज्वाला दग्धव्यं प्रति गच्छंतीति भावः । स्वर्नभसि वर्तमाने दृशीके दर्शनीये तस्मिन्नग्नौ गावो गमनस्वभावा रश्मयो नवंत । संगच्छंते । नवतिर्गतिकर्मा ॥ चराथा । चरेरौणादिकोऽथक्प्रत्ययः । दीर्घश्छांदसः । सुपां सुलुगिति विभक्तेराकारः । वसत्या । वहिवस्यर्तिभ्यश्चित् (उ ४-६०) इत्यतिप्रत्ययः । उदात्तयण इति विभक्तेरुदात्तत्वम् । अस्तम् । अस्यतेऽस्मिन्सर्वमित्यस्तं गृहम् । असिहसीत्यादिना तन् । तितुत्रेतीट्प्रतिषेधः । नित्त्वादाद्युदात्तत्वम् । नक्षंते । नक्षतिर्व्याप्तिकर्मा । नक्ष गतौ । व्यत्ययेनात्मनेपदम् । चादिलोपे विभाषेतिः निघाताभावः । नीची । निपूर्वादंचतेश्चोपसंख्यानम् । पा ४-१-६-२ । इति ङीप् । आच इत्यकारलोपे चामिति दीर्घत्वम् । न्यधी च (पा ६-२-५३) इति गतेः प्रकृतिस्वरत्वम् । ऐनोत् । इण् गतौ । अंतर्भावितण्यर्थाच्छंदसि लुङ् लङ् लिट इति वर्तमाने लङि व्यत्ययेन श्नुः । आडागमो वृद्धिश्च । दृशीके । दृशिर् प्रेक्षणे । अनिदृशिभ्यां चेति कीकन्प्रत्ययः । नित्त्यादाद्युदात्तत्वं ॥ ९ ॥ १० ॥