प्रथमं मण्डलम् - सूक्तम् 88

6 ऋचः

ऋषिः: गोतमो राहूगणः देवता: मरुतः छन्दः: प्रस्तारपंक्तिः

सूक्तम् 1.88 - सम्पूर्णम्

1 / 6
ऋक्: 1.88.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
1.88.1 समानपद
आ वि॒द्युन्म᳚द्भिर्मरुतः स्व॒र्कै रथे᳚भिर्यात ऋष्टि॒मद्भि॒रश्व᳚पर्णैः ।
आ वर्षि᳚ष्ठया न इ॒षा वयो॒ न प᳚प्तता सुमायाः ॥
▶ पदपाठः (Word-by-word)
आ । वि॒द्युन्म᳚त्॑भिः । म॒रु॒तः॒ । सु॒॑अ॒र्कैः । रथे᳚भिः । या॒त॒ । ऋ॒ष्टि॒मत्॑भिः᳚ । अश्व᳚॑पर्णैः ।
आ । वर्षि᳚ष्ठया । नः॒ । इ॒षा । वयः᳚ । न । प॒प्त॒त॒ । सु॒॑मा॒याः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आ विद्युन्मद्भिरिति षडृचं चतुर्थं सूक्तम् । अत्रानुक्रम्यते । आ विद्युन्मद्भिराद्यांते प्रस्तारपंक्ती पंचमी विराड्रूपेति । पूर्ववदृषिदेवते । आद्या षष्ठी च द्वे प्रस्तारपंक्ती । आद्यौ पादौ जागतौ तृतीयचतुर्थौ गायत्रौ यस्याः सा प्रस्तारपंक्तिः । सूत्रितं च । प्रस्तारपंक्तिः पुरतः । पिं ३-४० इति । अस्यायमर्थः । जागतौ गायत्रौ चेत्यनुवर्तते । यदि पुरतः पुरस्ताद्द्वौ जागतौ पादौ स्यातामंत्यौ गायत्रौ सा प्रस्तारपंक्तिरिति । एतत्त्यदित्येषा पंचमी विराड्रूपा । आदितस्त्रयः पादा एकादशका अंत्योऽष्टकः सा मीड्रूपेत्युच्यते ॥ विनियोगो लैंगिकः ॥

हे मरुतः । मितं निर्मितमंतरिक्षं प्राप्य रुवंति शब्दं कुर्वंतीति मरुतः । यद्वा । अमितं भृशं शब्दकारिणः । अथवा मितं स्वैर्निर्मितं मेघं प्राप्य विद्युदात्मना रोचमानाः । अथवा महत्यंत्यरिक्षे द्रवंतीति मरुतः । ये मध्यमस्थाने देवगणाः समाम्नातास्ते सर्वे मरुत आख्यायंते । तथा चाहुः । सर्वा स्त्री मध्यमस्थाना पुमान् वायुश्च सर्वगः । गणाश्च सर्वे मरुत इति वृद्धानुशासनमिति । पौराणिकास्त्वाचक्षते । मारीचात्कश्यपात्सप्तगणात्मका एकोनपंचाशत्सख्याका मरुतो जज्ञिर इति । एवंभूता हे मरुतो रथेभिरात्मीयै रथैरा यात अस्मदीयं यज्ञमागच्छत । कीदृशै रथैः । विद्युन्मद्भिः । विद्योतनं विद्युत् । विशिष्टदीप्तियुक्तैः स्वर्कैः स्वर्चनैः शोभनगमनयुक्तैः । यद्वा । शोभनमर्कोऽर्चनं स्तुतिर्येषामस्ति तादृशैः । अथवा शोभनदीप्तियुक्तैः । ऋष्विमद्भिः । ऋष्टयः शक्तिरूपाण्यायुधानि । स्थूणा इत्यन्ये । तद्वद्भिः । अश्वपर्णैः । अश्वानां पतनं गमनं येषामस्ति तादृशैः । यद्वा । रंहणशीला मेघा रथाः । तैः सहांतरिक्षे वर्षणार्थमागच्छथ । कीदृशैः विद्युन्मद्भिः । विद्युता तडिता तद्वद्भिः स्वर्कैः शोभनगमनैः ऋष्विमद्भिः । अर्षणं गमनम् । तत्स्वभावनीरयुक्तैः । आश्वपणैः । अश्वं व्याप्तं पर्णं पतनं गमनं येषाम् । अंतरिक्षं व्याप्य वर्तमानैरित्यर्थः । हे सुमायाः । मायेति कर्मणो ज्ञानस्य च नामधेयम् । शोभनकर्माणः शोभनप्रज्ञा वा मरुतो वर्षिष्ठया प्रवृद्दतरयेषास्मभ्यं दातव्येनान्नेन सह नोऽस्मान्प्रति वयो न पक्षिण इव शीघ्रमा पप्तत । आपतत । आगच्छतेत्यर्थः । अत्र निरुक्तम् । अथातो मध्यस्थाना देवगणास्तेषां मरुतः प्रथमागामिनो भवंति । मरुतो मितराविणो वा मितरोचिनो वा महद्ब्रवंतीति वेति । विद्युन्मद्भिर्मरुतः स्वर्कैः स्वंचनैरिति वा स्वर्चनैरितिवा स्वर्चिभिरिति वा रथैरायात ऋष्विमद्भिरश्वपर्णैरश्वपतनैर्वर्षिष्ठेन च नोऽन्नेन वय इवापतत सुमायाः कल्याणकर्माणो वा कल्याण प्रज्ञा वा । नि ११-१३, १४ । इति ॥ विद्युन्मद्भिः । यवादेराकृतिगणत्वेन विद्युच्छब्डस्य यवाद्यंतर्भावादयवादिभ्य इत्यत्रानुवृत्तेर्झयः (पा ८-२-१०) इति मतुपो वत्वं न प्रवर्तते । ऋष्विमद्भिः । ह्रस्वनुड्भ्यां मतुबिति मतुप उदात्तत्वम् । अश्वपर्णैः । अशू व्याप्तौ । अशिप्रुषीत्यादिना क्वन्प्रत्ययः । बहुव्रीहौ पूर्वपद प्रकृतिस्वरत्वम् । वर्षिष्ठया । वृद्दशब्दादातिशायनिक इष्ठनि प्रियस्थिरेत्यादिना वर्षादेशः । पप्तत । पत्लृगतौ । लुङिलृदित्त्वात् च्लेरङादेशः । पतः पुम् (पा ७-४-१९) इति पुगागमः ॥ १ ॥

1.88.2
ते᳚॑रु॒णेभि॒र्वर॒मा पि॒शङ्गै᳚ः शु॒भे कं या᳚न्ति रथ॒तूर्भि॒रश्वै᳚ः ।
रु॒क्मो न चि॒त्रः स्वधि᳚तीवान्प॒व्या रथ᳚स्य जङ्घनन्त॒ भूम᳚ ॥
▶ पदपाठः (Word-by-word)
ते । अ॒रु॒णेभिः᳚ । वर᳚म् । आ । पि॒शङ्गैः᳚ । शु॒भे । कम् । या॒न्ति॒ । र॒थ॒तूः॑भिः᳚ । अश्वैः᳚ ।
रु॒क्मः । न । चि॒त्रः । स्वधि᳚ति॑वान् । प॒व्या । रथ᳚स्य । ज॒ङ्घ॒न॒न्त॒ । भूम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ते पूर्वोक्ता मरुतोऽरुणेभिररुणवर्णैः पिशंगैः पिंगलवर्णैरुभयवर्णोपेतै रथतूर्भी रथस्य प्रेरयितृभिरश्वैर्वरं देवानां वरीतारं कं शब्दयितारं स्तुवंतं यजमानमा यांति । आगच्छंति । किमर्थम् । शुभे तस्य शोभां कर्तुम् । अथवा शुभ उदकाय य वृष्ट्यर्थमित्यर्थः । तेषां मरुतां गणो रुक्मो न रोचमानं सुवर्णमिव चित्रोऽतिशयेन दर्शनीयः स्वधितीवान् स्वधितिरिति वज्रनाम । शत्रूणां खंडकेनायुधेनोपेतः । एवंविधगणरूपास्ते मरुतो रथस्य पव्या चक्रधारया भूम भूमिं जंघनंत । अत्यर्थं घ्नंति । स्तोतृरक्षणार्थमागतानां तेषां मरुतां भारमसहमाना भूमिरतिपीडिता बभूवेत्यर्थः ॥ वरं व्रियंते देवा अनेनेति वरः । ग्रहवृदृनिश्चीति करणेऽप् । कम् । कै गै शब्दे । कायतीति कः । बहुलवचनात्कप्रत्ययः । रथतूर्भिः । तुर त्वरणे । रथं तुतुरिति त्वरायुक्तं कुर्वंतीति रथतुरः । क्विप्चेति क्विप् । भिसि हलि चेति दीर्घत्वम् । पव्या पवी रथनेमिर्भवंतीति यास्कः (नि ५-५) पूङ् पवने । अस्मादच इतीप्रत्ययः । उदात्तयण इति विभक्तेरुदात्तत्वम् । जंघनंत । हंतेर्यङंताद्वर्तमाने छांदसो लङ् । छंदस्युभयथेत्यार्धधातुकत्वादतोलोपयलोपौ । भूम । भूमिशब्दादुत्तर स्यामः सुपां सुलुगिति डादेशः । छांदसं ह्रस्वत्वं ॥ २ ॥

1.88.3
श्रि॒ये कं वो॒ अधि᳚ त॒नूषु॒ वाशी᳚र्मे॒धा वना॒ न कृ᳚णवन्त ऊ॒र्ध्वा ।
यु॒ष्मभ्यं॒ कं म᳚रुतः सुजातास्तुविद्यु॒म्नासो᳚ धनयन्ते॒ अद्रि᳚म् ॥
▶ पदपाठः (Word-by-word)
श्रि॒ये । कम् । वः॒ । अधि᳚ । त॒नूषु᳚ । वाशीः᳚ । मे॒धा । वना᳚ । न । कृ॒ण॒व॒न्ते॒ । ऊ॒र्ध्वा ।
यु॒ष्मभ्य᳚म् । कम् । म॒रु॒तः॒ । सु॒॑जा॒ताः॒ । तु॒वि॒॑द्यु॒म्नासः᳚ । ध॒न॒य॒न्ते॒ । अद्रि᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतो वो युष्माकं तनूषु शरीरेष्वंसप्रदेशेषु वाशीः शत्रूणामाक्रोशकमाराख्यमायुधं श्रिये कमैश्वर्यार्थं वर्तत इति शेषः । कमित्ये तत्पादपूरणम् । तदुक्तम् । अथापि पादपूरणाः कमीमिद्वितीति । तादृशा मरुतो वना न उच्छ्रितान्वृक्षसमूहानिव मेधा मेधान्यज्ञानूर्ध्वा ऊर्ध्वान् एकाहाहीनसत्ररूपेणोच्छ्रितन्कृणवंते । यजमानैः कारयंति । हे सुजाताः शोभनजननयुक्ता मरुतो यष्मभ्यं युष्मदर्थं कं सुखकरमद्रिं सोमाभिषवे प्रवृत्तं ग्रावाणं तुविद्युम्नासः प्रभूतधना यजमाना धनयंते । धनं कुर्वंति युष्माकं यागाय ग्रावभिरषुण्वंतीत्यर्थः ॥ वाशीः । शत्रूणां भयोत्पादनेनाक्रोशशब्दकरणं वाशः । ततश्चंदसीवनिपाविति मत्वर्थीय ईकारः । व्यत्ययेनाद्युदात्तत्वम् । मेधा । सुपां सुलुगिति शसो डादेशः । वना । शेश्छंदसि बहुलमिति शेर्लोपः । कृणवंते । कृवि हिंसाकरणयोश्च । लट व्यत्ययेनात्मनेपदम् । धिन्विकृण्वोरच्चेत्युप्रत्ययः । पुनरपि व्यत्ययेनांतादेशः । छंदस्युभयथेत्यार्धधातुकत्वेन झस्याङित्त्वाद्गुणेऽवादेशः । ऊर्ध्वा । पूर्ववड्डादेशः । धनयंते । धनशब्दात्तत्करोतीतिणिच् ॥ ३ ॥

1.88.4
अहा᳚नि॒ गृध्रा॒ः पर्या व॒ आगु᳚रि॒मां धियं᳚ वार्का॒र्यां च᳚ दे॒वीम् ।
ब्रह्म᳚ कृ॒ण्वन्तो॒ गोत᳚मासो अ॒र्कैरू॒र्ध्वं नु᳚नुद्र उत्स॒धिं पिब᳚ध्यै ॥
▶ पदपाठः (Word-by-word)
अहा᳚नि । गृध्राः᳚ । परि᳚ । आ । वः॒ । आ । अ॒गुः॒ । इ॒माम् । धिय᳚म् । वा॒र्का॒र्याम् । च॒ । दे॒वीम् ।
ब्रह्म᳚ । कृ॒ण्वन्तः᳚ । गोत᳚मासः । अ॒र्कैः । ऊ॒र्ध्वम् । नु॒नु॒द्रे॒ । उ॒त्स॒॑धिम् । पिब᳚ध्यै ॥
▶ सायणभाष्यम् (Sayana Commentary)

तृषितैर्गोतमैः स्तुता मरुतस्तेभ्यो गोतमेभ्यो देशांतरे वर्तमानं कूपमुत्खायानीय प्रददुः । एतद्दृष्ट्वा कश्चिदृषिब्रूर्ते । हे गोतमा गृध्रा जिलाभिकांक्षायुक्तान्वो युष्मानहानि शोभनोदकोपेतानि दिनानि पर्यागुः । पर्यागतानि । परित अभिमुख्येन प्राप्तनि । प्राप्य च वार्कार्यां वार्भिरुदकैर्निष्पाद्यां धियं ज्योतिष्टोमादिलक्षणं कर्म च देवीं द्योतमानमकुर्वन् । येष्वहस्तु ब्रह्म हविर्लक्षणमन्नमर्कैर्मंत्रसाध्यैः स्तोत्रैः सह कृण्वंतो मरुद्भ्यः कुर्वंतो गोतमासो गोतमा ऋषय उत्सधिम् । उत्सो जलप्रवाहोऽस्मिन्धीयत इत्युत्सधिः कूपम् । तं पिबध्यै स्वकीयपानायोर्ध्वं नुनुद्रे नुनुदिरे देशांतरे वर्तमानं कूपमुत्खातवंतः । एतदीयस्तोत्रैः स्तुता मरुतः कूपमुत्खातवंत इति यत्तदेतदीयस्तोत्रकारितमित्येतेषूपचर्यते ॥ गृध्राः । गृधु अभिकांक्षायाम् । सुसूधागृधिभ्यः क्रन्निति क्रन्प्रत्ययः । सुपां सुपो भवंतीति शसो जस् । नित्त्वादाद्युदात्तत्वम् । अगुः । एतेर्लुङीणो गा लुङीति गादेशः । आत इति झेर्जुस् । वार्कार्याम् । डुकृङ् करणे । ऋहलोर्ण्यत् । वार्भिः कार्यावार्कार्या । त्रिचक्रादित्वादुत्तरपदांतोदात्तत्वम् । ननुद्रे । णुद प्रेरणे । इरयो र इति रेआदेशः । उत्सधिम् । कर्मण्यधिकरणे चेति दधातेरधिकरणे किप्रत्ययः । पिबध्यै । पा पाने । तुमर्थे सेसेनिति शध्यैन्प्रत्ययः । पाघ्रेत्यादिना पिबादेशः ॥ ४ ॥

1.88.5
ए॒तत्त्यन्न योज᳚नमचेति स॒स्वर्ह॒ यन्म᳚रुतो॒ गोत᳚मो वः ।
पश्य॒न्हिर᳚ण्यचक्रा॒नयो᳚दंष्ट्रान्वि॒धाव᳚तो व॒राहू᳚न् ॥
▶ पदपाठः (Word-by-word)
ए॒तत् । त्यत् । न । योज᳚नम् । अ॒चे॒ति॒ । स॒स्वः । ह॒ । यत् । म॒रु॒तः॒ । गोत᳚मः । वः॒ ।
पश्य᳚न् । हिर᳚ण्य॑चक्रान् । अयः᳚॑दंष्ट्रान् । वि॒॑धाव᳚तः । व॒राहू᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुत एतद्योजनम् । युज्यतेऽनेन देवतेति योजनमेतत्सूक्तसाध्यं स्तोत्रम् । त्यन्न त्यत् प्रसिद्धमन्यदुत्कृष्टं स्तोत्रमिवाचेति । सर्वैर्ज्ञायते । वो युष्मदर्थं यत् यदेतत्सूक्तरूपं स्तोत्रं गोतम ऋषिः सस्वर्ह उच्चारितवान् खलु । किं कुर्वन् । हिरण्यचक्रान् हिरण्मयचक्ररथारूढान् हितरमणीयकर्मयुक्तान्वायोदंष्ट्रान् । दशतीति दंष्ट्रा चक्रधारा । अयोमयीभिश्चक्रधाराभिर्युक्तान् । यद्वा । दंशनसाधना ऋष्टयो दंष्ट्राः । अयोमया ऋष्टयो येषाम् । तान्विधावतो विविधमितस्ततः प्रवर्तमानान्वराहून् वरस्योत्कृष्टस्य शत्रोर्हंतृन् । यद्वा । उत्कृष्वस्य वृष्व्युदकस्याहर्तृन् । अथवा उत्कृष्टानां देवतानामाह्वातृन् वरस्य हविषो भक्षयितृन्वा । एवऽंभूतान्मरुतः पश्यन् सम्यग्जानन् गोतमो यत्सोत्रं कृतवान् तदेतत्सर्वोत्कृष्टं सदस्माभिः सर्वेरुपलभ्यत इत्यर्थः । अत्र निरुक्तम् । अथाप्येते माध्यमका देवगणा वराहव उच्यंते पश्यन्हिरण्यचक्रान् (नि ५-४) इति॥ अचेति । चिती संज्ञाने । छांदसो वर्तमाने कर्मणि लुङ् । सस्वः । स्वृ शब्दोपतापयोः । लङि तिपि बहुलं छंदसीति शपः श्लुः । गुणे हल्ङ्याब्भ्य इति तलोपः । धातुस्वरेणांतोदात्तत्वम् । वराहून् । वरशब्दोपपदादाङ् पूर्वाद्धंतेर्वा हरतेर्वा ह्वयतेर्वा जुहोतेरदनार्थाद्वा । हु इत्येतस्य निष्पत्तिरिति स्कंदस्वामी । अस्य पृषोदरादित्वादभिमतसिद्धिः ॥ ५ ॥

1.88.6
ए॒षा स्या वो᳚ मरुतो॑नुभ॒र्त्री प्रति᳚ ष्टोभति वा॒घतो॒ न वाणी᳚ ।
अस्तो᳚भय॒द्वृथा᳚सा॒मनु᳚ स्व॒धां गभ᳚स्त्योः ॥
▶ पदपाठः (Word-by-word)
ए॒षा । स्या । वः॒ । म॒रु॒तः॒ । अ॒नु॒॑भ॒र्त्री । प्रति᳚ । स्तो॒भ॒ति॒ । वा॒घतः᳚ । न । वाणी᳚ ।
अस्तो᳚भयत् । वृथा᳚ । आ॒सा॒म् । अनु᳚ । स्व॒धाम् । गभ᳚स्त्योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः स्या सैषास्मदीया स्तुतिर्वो युष्माकमनुभर्त्री युष्माननुहरंती युष्मद्गणसदृशी प्रतिष्वोभति । प्रत्येक स्तौति । स्तोभतिः स्तुतिकर्मा । तथा वाघतो न वाणी । नशब्दः संप्रत्यर्थे । तदुक्तं यास्केन । अस्त्युपमार्थस्य संप्रत्यर्थे प्रयोगः (नि ७-३१) इति । इदानीमृत्विक्संबंधिनी वागपि वृथानायासेनासामाभिर्ऋग्भिरस्तोभयत् । अस्तौत् । इदानीमित्युक्ते कदेत्याह । गभस्त्योरस्मदीययोर्बाह्वोः स्वधाम् । अन्ननामैतत् । यदा बहुविधमन्नं मरुतः स्थापयंति । तामनुलक्ष्येत्यर्थः ॥ अनुभर्त्री । हृञ् हरणे । तृच् । ऋन्नेभ्य इति ङीप् । उदात्तयणो हल्पूर्वादिति नद्या उदात्तत्वं ॥ ६ ॥