श्रवणम्

1.88.5
ए॒तत्त्यन्न योज᳚नमचेति स॒स्वर्ह॒ यन्म᳚रुतो॒ गोत᳚मो वः ।
पश्य॒न्हिर᳚ण्यचक्रा॒नयो᳚दंष्ट्रान्वि॒धाव᳚तो व॒राहू᳚न् ॥
▶ पदपाठः (Word-by-word)
ए॒तत् । त्यत् । न । योज᳚नम् । अ॒चे॒ति॒ । स॒स्वः । ह॒ । यत् । म॒रु॒तः॒ । गोत᳚मः । वः॒ ।
पश्य᳚न् । हिर᳚ण्य॑चक्रान् । अयः᳚॑दंष्ट्रान् । वि॒॑धाव᳚तः । व॒राहू᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुत एतद्योजनम् । युज्यतेऽनेन देवतेति योजनमेतत्सूक्तसाध्यं स्तोत्रम् । त्यन्न त्यत् प्रसिद्धमन्यदुत्कृष्टं स्तोत्रमिवाचेति । सर्वैर्ज्ञायते । वो युष्मदर्थं यत् यदेतत्सूक्तरूपं स्तोत्रं गोतम ऋषिः सस्वर्ह उच्चारितवान् खलु । किं कुर्वन् । हिरण्यचक्रान् हिरण्मयचक्ररथारूढान् हितरमणीयकर्मयुक्तान्वायोदंष्ट्रान् । दशतीति दंष्ट्रा चक्रधारा । अयोमयीभिश्चक्रधाराभिर्युक्तान् । यद्वा । दंशनसाधना ऋष्टयो दंष्ट्राः । अयोमया ऋष्टयो येषाम् । तान्विधावतो विविधमितस्ततः प्रवर्तमानान्वराहून् वरस्योत्कृष्टस्य शत्रोर्हंतृन् । यद्वा । उत्कृष्वस्य वृष्व्युदकस्याहर्तृन् । अथवा उत्कृष्टानां देवतानामाह्वातृन् वरस्य हविषो भक्षयितृन्वा । एवऽंभूतान्मरुतः पश्यन् सम्यग्जानन् गोतमो यत्सोत्रं कृतवान् तदेतत्सर्वोत्कृष्टं सदस्माभिः सर्वेरुपलभ्यत इत्यर्थः । अत्र निरुक्तम् । अथाप्येते माध्यमका देवगणा वराहव उच्यंते पश्यन्हिरण्यचक्रान् (नि ५-४) इति॥ अचेति । चिती संज्ञाने । छांदसो वर्तमाने कर्मणि लुङ् । सस्वः । स्वृ शब्दोपतापयोः । लङि तिपि बहुलं छंदसीति शपः श्लुः । गुणे हल्ङ्याब्भ्य इति तलोपः । धातुस्वरेणांतोदात्तत्वम् । वराहून् । वरशब्दोपपदादाङ् पूर्वाद्धंतेर्वा हरतेर्वा ह्वयतेर्वा जुहोतेरदनार्थाद्वा । हु इत्येतस्य निष्पत्तिरिति स्कंदस्वामी । अस्य पृषोदरादित्वादभिमतसिद्धिः ॥ ५ ॥