यु॒ष्मभ्यं॒ कं म᳚रुतः सुजातास्तुविद्यु॒म्नासो᳚ धनयन्ते॒ अद्रि᳚म् ॥
पदपाठः (Word-by-word)
यु॒ष्मभ्य᳚म् । कम् । म॒रु॒तः॒ । सु॒॑जा॒ताः॒ । तु॒वि॒॑द्यु॒म्नासः᳚ । ध॒न॒य॒न्ते॒ । अद्रि᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे मरुतो वो युष्माकं तनूषु शरीरेष्वंसप्रदेशेषु वाशीः शत्रूणामाक्रोशकमाराख्यमायुधं श्रिये कमैश्वर्यार्थं वर्तत इति शेषः । कमित्ये तत्पादपूरणम् । तदुक्तम् । अथापि पादपूरणाः कमीमिद्वितीति । तादृशा मरुतो वना न उच्छ्रितान्वृक्षसमूहानिव मेधा मेधान्यज्ञानूर्ध्वा ऊर्ध्वान् एकाहाहीनसत्ररूपेणोच्छ्रितन्कृणवंते । यजमानैः कारयंति । हे सुजाताः शोभनजननयुक्ता मरुतो यष्मभ्यं युष्मदर्थं कं सुखकरमद्रिं सोमाभिषवे प्रवृत्तं ग्रावाणं तुविद्युम्नासः प्रभूतधना यजमाना धनयंते । धनं कुर्वंति युष्माकं यागाय ग्रावभिरषुण्वंतीत्यर्थः ॥ वाशीः । शत्रूणां भयोत्पादनेनाक्रोशशब्दकरणं वाशः । ततश्चंदसीवनिपाविति मत्वर्थीय ईकारः । व्यत्ययेनाद्युदात्तत्वम् । मेधा । सुपां सुलुगिति शसो डादेशः । वना । शेश्छंदसि बहुलमिति शेर्लोपः । कृणवंते । कृवि हिंसाकरणयोश्च । लट व्यत्ययेनात्मनेपदम् । धिन्विकृण्वोरच्चेत्युप्रत्ययः । पुनरपि व्यत्ययेनांतादेशः । छंदस्युभयथेत्यार्धधातुकत्वेन झस्याङित्त्वाद्गुणेऽवादेशः । ऊर्ध्वा । पूर्ववड्डादेशः । धनयंते । धनशब्दात्तत्करोतीतिणिच् ॥ ३ ॥