प्रथमं मण्डलम् - सूक्तम् 125

7 ऋचः

ऋषिः: कक्षीवान् दैर्घतमस औशिजः देवता: स्वनयस्य दानस्तुतिः छन्दः: त्रिष्टुप्

सूक्तम् 1.125 - सम्पूर्णम्

1 / 7
ऋक्: 1.125.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
1.125.1
प्रा॒ता रत्नं᳚ प्रात॒रित्वा᳚ दधाति॒ तं चि᳚कि॒त्वान्प्र᳚ति॒गृह्या॒ नि ध᳚त्ते ।
तेन᳚ प्र॒जां व॒र्धय᳚मान॒ आयू᳚ रा॒यस्पोषे᳚ण सचते सु॒वीरः᳚ ॥
▶ पदपाठः (Word-by-word)
प्रा॒तरिति᳚ । रत्न᳚म् । प्रा॒तः॒॑इत्वा᳚ । द॒धा॒ति॒ । तम् । चि॒कि॒त्वान् । प्र॒ति॒॑गृह्य᳚ । नि । ध॒त्ते॒ ।
तेन᳚ । प्र॒॑जाम् । व॒र्धय᳚मानः । आयुः᳚ । रा॒यः । पोषे᳚ण । स॒च॒ते॒ । सु॒॑वीरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रेतिहासमाचक्षते—दैर्घतमसः कक्षीवान्नामऋषिः ब्रह्मचर्यंचरिष्यन् वेदाभ्यासायगुरुकुलेचिर- कालमुषित्वावेदान्सम्यगधीत्यव्रतानिचचरित्वातेनानुज्ञातः पुनःस्वगृहंप्रतिप्रयास्यन्मध्येमार्गेरात्रौ- विश्रान्तः प्रभातेभावयव्यस्यपुत्रः स्वनयोनामराजा अनुचरैः सहक्रीडमानोऽकस्मात्कक्षीवतोऽन्तिक- माससाद सचरभसाप्रतिबुद्धः सहसोत्तस्थौ तंचराजापाणिंगृहीत्वा स्वकीयमासनमुपवेश्यास्यसौन्द- र्यमवगत्यस्वकन्याप्रदानमनाः पप्रच्छ भगवन् कस्यपुत्रः किंनामात्वमिति सचपृष्टोमातरंपितरंचस्व- वृत्तान्तं आचचक्ष सचराजा संभाव्यइत्यवगत्यमुदितमनाः स्वगृहंप्राप्यास्मैमधुपर्कमारचय्यवस्त्रमा- ल्यादिभिः पूजयित्वा सरथादशकन्याः शतंनिष्कानश्वशतंपुंगवानां शतंगवांषष्ट्युत्तरसहस्रंपुनरेका- दशरथांश्चप्रादात् सचसर्वमनुक्रमेणप्रतिगृह्यदीर्घतमसोन्तिकमागत्यतस्मैप्रादर्शयत् ननुकक्ष्यानामा- श्वबन्धनीरज्जुस्तद्वान् कक्षीवान् अश्वबन्धनंचराज्ञएवोचितं अतोऽस्यराजन्यत्वात्प्रतिग्रहोनोपपद्यते याजनाध्यापनेचैवविशुद्धाच्चप्रतिग्रहइतिस्मरणात् तस्माद्ब्राह्मणस्यैवाधिकारोनतुक्षत्रियस्येति नैष- दोषः यद्यप्यसौकलिंगाख्यस्यराज्ञःपुत्रः तथापितेनकलिंगेनस्वयंवृद्धत्वादपत्योत्पादनायप्रेषितयारा- जमहिष्यातिजरठेनमहर्षिणासहरन्तुंलज्जमानयास्ववस्त्राभरणैरलंकृत्यस्वप्रतिनिधित्वेनप्रेषितामु- शिङ्गामिकांयोषितं दासीमित्यवगत्यमन्त्रपूतेनजलेनाभिषिच्यऋषिपुत्रींकृत्वातयासहरेमे तदुत्पन्नः कक्षीवान्नामऋषिः एतत्सर्वमस्माभिः पूर्वाध्याये नासत्याभ्यामित्यत्रसूक्तेविस्तरेणप्रतिपादितम् अतोस्यक्षत्रियसंबन्धात्कक्षीवानितिनामोपपन्नं दीर्घतमसः परमर्षेरुत्पन्नत्वेनब्राह्मणत्वात्प्रतिग्रहो- प्युपपन्नएव इदमादिसूक्तद्वयं स्वनयस्यराज्ञोदानप्रशंसाख्यानप्रतिपादकम् नन्वनुक्रमण्यांस्वनयस्य- दानस्तुतिरितिदानतुष्टोभावयव्यंतुविष्टेतिचोभयत्रस्तोतव्यंभिन्नमेवानुगम्यतइति उच्यते—उत्तर- सूक्तस्यप्रथमायामृचि अधिक्षियतोभाव्यस्येतिदातुर्भावयव्यस्यश्रूयमाणत्वात् तत्प्राथम्यमुपजीव्य- पृथगुपात्तं वस्तुतस्तुपितुर्नाम्नापुत्रस्यव्यवहर्तव्यत्वात् तथाआरुद्रासइत्यादौबहुशःप्रयोगदर्शनात् स्वनयेनदत्ताइति तत्रैवसूक्ते स्वनयस्यापिश्रूयमाणत्वाच्चोभयत्रापिदातृप्रतिग्रहीत्रोरेकत्वेनैकमेवदान- प्रशंसारूपंआख्यानमितिप्रसिद्धं सचकक्षीवानानीतंसर्वंपितुर्निवेदयन्परोक्षेणैवदानप्रकारंप्रशंसति स्वनयोनामराजाप्रातरित्वा प्रातरेवात्मनः सकाशमागतः सन् रत्नं रमणीयं निष्कादिकं प्रातःप्रभात- काले दधाति अस्मत्सन्निधौस्थापयतिददाति तंस्थापितंसर्वंचिकित्वान् चेतनावान् अदुष्टमित्यवगत- वान्प्रतिगृह्यस्वीक्रुत्यनिधत्ते पितुः समीपेस्थापयति अनन्तरं तेनदत्तेननिष्कादिना प्रजांपुत्रभृत्यादि- रूपांवर्धयमानः पोषयन् आयुर्जीवितंचवर्धयन्सुवीरः शोभनैः वीरैः पुत्रभृत्यादिभिरुपेतः सन् राय- स्पोषेणधनानां पुनः पुनः वर्धनेनसचतेसौराजासंगच्छतामितितवदातुराशिषंप्रार्थयते ॥ १ ॥

1.125.2
सु॒गुर᳚सत्सुहिर॒ण्यः स्वश्वो᳚ बृ॒हद᳚स्मै॒ वय॒ इन्द्रो᳚ दधाति ।
यस्त्वा॒यन्तं॒ वसु᳚ना प्रातरित्वो मु॒क्षीज᳚येव॒ पदि᳚मुत्सि॒नाति᳚ ॥
▶ पदपाठः (Word-by-word)
सु॒॑गुः । अ॒स॒त् । सु॒॑हि॒र॒ण्यः । सु॒॑अश्वः᳚ । बृ॒हत् । अ॒स्मै॒ । वयः᳚ । इन्द्रः᳚ । द॒धा॒ति॒ ।
यः । त्वा॒ । आ॒॑यन्त᳚म् । वसु᳚ना । प्रा॒तः॒॑इ॒त्वः॒ । मु॒क्षीज᳚या॑इव । पदि᳚म् । उ॒त्॑सि॒नाति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रकक्षीवतःपिता आनीतेनधनेनसंतुष्टोराजानंबहुप्रकारेणाशास्ते असौस्वनयोराजा सुगुरसत् शोभनैर्बहुभिर्गोभिः तद्वान्भवतु तथा सुहिरण्यः सुष्टुतहितरमणीयैर्धनैस्तद्वान्भवतु तथा स्वश्वःशोभ- नैर्बहुभिर्गोभिः तद्वान्भवतु तथा सुहिरण्यः सुष्टुतहितरमणीयैर्धनैस्तद्वान्भवतु तथा स्वश्वः शोभनै- रश्वैस्तद्वान् सन्अस्मैप्रदात्रे राज्ञेबृहत्प्रभूतंवयः अन्नमिन्द्रः परमेश्वरोधर्मदेवता दधातिदधातु ददातु यतोऽयंराजा अस्मैगोहिरण्याश्वान्नानिबहुसंख्याकानिदत्तवान् अतस्तेषामभिवृद्धिप्रार्थनोचितैव क- स्येयमाशीरिति सउच्यते यः योराजा हेप्रातरित्वः प्रातरागामिन्नतिथेपुत्र आयन्तंगुरुकुलादागतंपदिं पथिकंयदृच्छयागन्तारंत्वात्वां वसुना अन्नसाधनेन गवादिधनेनोत्स्रिनाति गमनतः उत्कृष्टंबन्धाति गतिंनिरुणद्धीत्यर्थः प्रतिबन्धेदृष्टान्तउच्यते—मुक्षीजयेवपदिं मुच्यमाना सतिबन्धनंजयतीतिमुक्षीजा म्रुगपक्ष्यादिबन्धनीरज्जुः तया पाशकोयथापदिं गंतारं मृगपक्ष्यादिकं उत्सिनातिबध्नाति तथामयाअ- ननुज्ञातमपित्वां गमनंप्रतिबुध्य गवादीष्टदानादिनायोराजातोषयतिसएवंभवत्विति पदिरितिपदं- व्याचक्षाणेनयास्केनतदुदाहरणायायंमन्त्रोव्याख्यातः—सुगुर्भवतिसुहिरण्यः स्वश्वोमहच्चास्मैवयइ- न्द्रोदधातियस्त्वायन्तमन्नेनप्रातरागामिन्नतिथेमुक्षीजयेवपदिमुत्सिनाति कुमारोमुक्षीजामोचनाच्चस- यनाच्चततनाच्चेति ॥ २ ॥

1.125.3
आय᳚म॒द्य सु॒कृतं᳚ प्रा॒तरि॒च्छन्नि॒ष्टेः पु॒त्रं वसु᳚मता॒ रथे᳚न ।
अं॒शोः सु॒तं पा᳚यय मत्स॒रस्य᳚ क्ष॒यद्वी᳚रं वर्धय सू॒नृता᳚भिः ॥
▶ पदपाठः (Word-by-word)
आय᳚म् । अ॒द्य । सु॒॑कृत᳚म् । प्रा॒तः । इ॒च्छन् । इ॒ष्टेः । पु॒त्रम् । वसु᳚॑मता । रथे᳚न ।
अं॒शोः । सु॒तम् । पा॒य॒य॒ । म॒त्स॒रस्य᳚ । क्ष॒यत्॑वी᳚रम् । व॒र्ध॒य॒ । सू॒नृता᳚भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रातः पूर्वेद्युः प्रभातकालेऽयंधनंदत्तवान् तस्मिन्नेवकाले सुकृतंशोभनस्यकर्तारंत्वांइच्छन्प्राप्तुमि- च्छन् कदाद्रक्ष्यामीतिकामयमानोऽहं अद्यास्मिन्दिने इदानींआयं प्राप्तोस्मि अत्रयद्यपि केवलंप्रातरि- त्येवश्रुतं नपूर्वेद्युरिति तथापि अद्यायमित्युक्तत्वादर्थात्पूर्वेद्युः प्रातरितिगम्यते कीदृशं इष्टेः इष्टस्येष्ट- साधनस्य यागस्यवापुत्रं पुरुत्रातारं पुत्रःपुरुत्रायतइतियास्कः । कर्तारमित्यर्थः केनसाधनेनेतितदुच्य- ते—वसुमतारथेन समृद्धधनवतारथेनसाधनेन यद्वा तेनसहेतिसहार्थेतृतीया किंच तदानींतेनसमृद्धेन धनेनांशोःअंशुमतः वल्लीरूपस्यमत्सरस्य मादनसाधनस्यसोमस्य मत्सरः सोमोमन्दतेस्तृप्तिकर्मणइ- तिनिरुक्तम् । तस्यसुतं अभिषुतं रसंपायय आत्मानंपायय इष्टसाधनंसोमयागंकुर्वित्यर्थः कृत्वाच क्ष- यद्वीरं क्षियन्तोनिवसन्तोवीराः पुत्रभृत्यादयोयस्य तंतादृशंत्वदिष्टसाधनबहुधनप्रदातारंसूनृताभिः प्रियसत्यात्मिकाभिर्वाग्भिः वर्धयसमृद्धंकुरु पुत्रभृत्यादिवीरैः यथाप्रवृद्धोभवतितथाकामयस्वेत्यर्थः ॥ ३ ॥

1.125.4
उप᳚ क्षरन्ति॒ सिन्ध᳚वो मयो॒भुव᳚ ईजा॒नं च᳚ य॒क्ष्यमा᳚णं च धे॒नवः᳚ ।
पृ॒णन्तं᳚ च॒ पपु᳚रिं च श्रव॒स्यवो᳚ घृ॒तस्य॒ धारा॒ उप᳚ यन्ति वि॒श्वतः᳚ ॥
▶ पदपाठः (Word-by-word)
उप᳚ । क्ष॒र॒न्ति॒ । सिन्ध᳚वः । म॒यः॒॑भुवः᳚ । ई॒जा॒नम् । च॒ । य॒क्ष्यमा᳚णम् । च॒ । धे॒नवः᳚ ।
पृ॒णन्त᳚म् । च॒ । पपु᳚रिम् । च॒ । श्र॒व॒स्यवः᳚ । घृ॒तस्य᳚ । धाराः᳚ । उप᳚ । य॒न्ति॒ । वि॒श्वतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वस्यामृच्यानीतेनधनेनसोमयागंकुर्वित्युक्तम् तमेवसोमयागंफलप्रदर्शनेनस्तौति सिन्धवः स्य- न्दनशीलाः प्रस्रुवत्पयोधराः सिन्धुःस्यन्दनादितियास्कः । मयोभुवः सुखस्यभावयित्र्यः मयइतिसु- खनाम मयःसुग्म्यमितितन्नामसुपाठात् धेनवः वीणयित्र्योगावः ईजानं सोमयागंअनुतिष्ठन्तं तथा यक्ष्यमाणं यक्ष्यइतिप्रणीतंकुर्वन्तंच नकेवलमीजानंआपतुयक्ष्यइत्यध्यवसितवन्तमपिउपउपेत्य क्षर- न्तिसवन्तिप्रीणयन्तीत्यर्थः नचपूर्वस्यामृचिसोमंपिबेत्युक्तत्वात्सर्वेषांसोमयागानांअग्निष्टोमात्मक- ज्योतिष्टोमस्यप्रकृतस्य ज्योतिष्टोमेनस्वर्गकामओयजेतेतिस्वर्गएवफलत्वेनश्रुता नगवादिकमितिवा- च्यम् स्वर्गवद्गवादिकामनयापि सोमयागस्यकर्तुंशक्यत्वान्नकेवलंसोमयागमनुतिष्ठतामेवमहत्फलं अपितुसुक्रुतसाधनानिकर्मान्तराणि अधितिष्ठतामपिमहत्फलमस्त्येवेतिदर्शयति पृणन्तंपितॄन्प्रीण- यन्तं पपुरिं प्रीणनशीलं इष्टदातारं प्राणिनः सर्वदाप्रीणयन्तंचपुरुषं श्रवस्यवोऽन्नमिच्छन्त्यः अन्नस- मृद्धिहेतवोघृतस्यधाराः यद्वा घृतकुल्याविश्वतः सर्वतः उपउपेत्ययन्तिप्राप्नुवन्ति प्रीणयन्तीत्यर्थः ॥ ४ ॥

1.125.5
नाक᳚स्य पृ॒ष्ठे अधि᳚ तिष्ठति श्रि॒तो यः पृ॒णाति॒ स ह᳚ दे॒वेषु᳚ गच्छति ।
तस्मा॒ आपो᳚ घृ॒तम᳚र्षन्ति॒ सिन्ध᳚व॒स्तस्मा᳚ इ॒यं दक्षि᳚णा पिन्वते॒ सदा᳚ ॥
▶ पदपाठः (Word-by-word)
नाक᳚स्य । पृ॒ष्ठे । अधि᳚ । ति॒ष्ठ॒ति॒ । श्रि॒तः । यः । पृ॒णाति᳚ । सः । ह॒ । दे॒वेषु᳚ । ग॒च्छ॒ति॒ ।
तस्मै᳚ । आपः᳚ । घृ॒तम् । अ॒र्ष॒न्ति॒ । सिन्ध᳚वः । तस्मै᳚ । इ॒यम् । दक्षि᳚णा । पि॒न्व॒ते॒ । सदा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोमयागप्रशंसाप्रसंगेनसामान्यतोदानमेतदादिभिस्त्रिभिः प्रशंसति यद्वा सोमस्यैवस्तुतत्वाद्दक्षि- णाशब्दस्ययागएवप्रसिद्धत्वाच्च सूक्तपरिसमाप्तेः सोमयागएवप्रस्तूयते यः योमर्त्यः पृणाति हविरा- दिदानेनदेवादीन्प्रीणाति सनाकस्य कमितिसुखनाम तद्विरुद्धमकं नविद्यते अकंदुः खंतत्साधनंपापं- चेति नाकोद्युलोकः तथाश्रूयते—नवाअमुंलोकंजग्मुषेकिंचनाकमिति । तस्यपृष्ठेउन्नते उपरिदेशेश्रितं- सन्नधिअधिकं आकल्पान्तंतिष्ठति यद्वा अधितिष्ठति अधिष्ठायप्रमुखोभूत्वातिष्ठति नकेवलंस्वर्गाश्रयणं किंतु देवेषुमध्येगच्छतिवर्तते स्वयमेवदेवोभवतीत्यर्थः हेतिप्रसिद्धौ तस्मैप्रीणयित्रे पुरुषायसिन्धवः स्यन्दनशीलाः आपः घृतंतेजोवत्सारं अषंन्ति गच्छन्ति रसवत्योभवन्तीत्यर्थः किंचेयंभूमिरपि दक्षि- णासस्यादिफलसंपादनदक्षासती सदा सर्वकालं पिन्वते सेचयति तोषयतीत्यर्थः दातुः जीवनसाध- नान्नोदकानि रुचिराणिसमृद्धानिभवन्तीत्यर्थः ॥ ५ ॥

1.125.6 समानपद
दक्षि᳚णावता॒मिदि॒मानि᳚ चि॒त्रा दक्षि᳚णावतां दि॒वि सूर्या᳚सः ।
दक्षि᳚णावन्तो अ॒मृतं᳚ भजन्ते॒ दक्षि᳚णावन्त॒ः प्र ति᳚रन्त॒ आयु᳚ः ॥
▶ पदपाठः (Word-by-word)
दक्षि᳚णा॑वताम् । इत् । इ॒मानि᳚ । चि॒त्रा । दक्षि᳚णा॑वताम् । दि॒वि । सूर्या᳚सः ।
दक्षि᳚णा॑वन्तः । अ॒मृत᳚म् । भ॒ज॒न्ते॒ । दक्षि᳚णा॑वन्तः । प्र । ति॒र॒न्ते॒ । आयुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दक्षिणावतां बहुविधगोहिरण्यादिरूपदक्षिणाप्रदातॄणांइच्छब्दएवकारार्थः तेषामेवार्थे इमानिभू- मौदृश्यमानानिचित्राणिचायनीयानिस्रक् चंदनमणिमुक्तादिरूपाणिद्रव्याणि समृद्धानि भवन्तीतिशे- षः किंच दक्षणावतामेवदिविद्युलोकेसूर्यासः सूर्यसंबन्धिनोलोकाः तदनुगृहीताभोगावा समृद्धाभव- न्ति किंच दक्षिणावन्तएवअमृतंजरामरणरहितंस्थानं भजन्तेसेवन्ते यद्वा दानेनापहतपाप्मानआत्मा- नंविदित्वा अमृतमविनाशंमोक्षं भजन्ते प्राप्नुवन्ति यज्ञेनदानेनेतिश्रुतेः । किंच दक्षिणावन्तएवआयुः प्रतिरन्ते अतिदीर्घमायुष्यंलभंते वर्धयन्ति प्रपूर्वस्तिरतिर्वर्धनार्थः इदितिसर्वत्रसंबध्यते ॥ ६ ॥

1.125.7
मा पृ॒णन्तो॒ दुरि᳚त॒मेन॒ आर॒न्मा जा᳚रिषुः सू॒रयः᳚ सुव्र॒तासः᳚ ।
अ॒न्यस्तेषां᳚ परि॒धिर᳚स्तु॒ कश्चि॒दपृ᳚णन्तम॒भि सं य᳚न्तु॒ शोका᳚ः ॥
▶ पदपाठः (Word-by-word)
मा । पृ॒णन्तः᳚ । दुः॑इ᳚तम् । एनः᳚ । आ । अ॒र॒न् । मा । जा॒रि॒षुः॒ । सू॒रयः᳚ । सु॒॑व्र॒तासः᳚ ।
अ॒न्यः । तेषा᳚म् । प॒रि॒॑धिः । अ॒स्तु॒ । कः । चि॒त् । अपृ᳚णन्तम् । अ॒भि । सम् । य॒न्तु॒ । शोकाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अन्वयव्यतिरेकाभ्यांदानंप्रशंसितुमाह—पृणन्तोदेवादीन्हविरादिनाप्रीणयन्तः सन्तः दुरितं दुष्टं- यथाभवति तथाप्राप्तंदुःखंएनः तत्साधनंपापंचमारन् माप्राप्नुवन् नकेवलंदातारएव अपितु सूरयः दे- वानांस्तोतारोविद्वांसोमाजारिषुः जरयानजीर्णाभवेयुः तथासुव्रतासः शोभनकृच्छ्रचान्द्रायणादिनि- यमवन्तोऽपिमाजारिषुः तर्ह्येषामन्योजनःकइतिसउच्यते तेषांदातॄणांस्तोतॄणांवान्यः तेभ्योऽन्योयः कोऽपिपुरुषः परिधिः पापस्य परितोधारकोऽस्तु यद्वा अन्योऽन्यः कश्चनपापदेवः तेषांपरिधिःपरि- धिस्थानीयोव्यवधायकोऽस्तु यथाग्नेः परिधिः स्वयंरक्षःप्रभृतिभिर्बाध्यमानः स्वान्तर्हितमग्निंरक्षति तद्वत् अथवा अन्योधर्मविशेषस्तेषांपरिधिः परिधानमस्तु कवचस्थानीयोऽस्तु तर्हिकिंप्राप्नुयुरिति उ- च्यते अपृणन्तंदेवादीनप्रीणयन्तं अदातारंशोकाः चित्तपीडाः तत्साधनाः पाप्मानः अभिअभिमुखं- संयन्तुसम्यक्प्रावन्तु वयंसुखिनोभवेमेत्यर्थः अत्रयद्यपिसामान्येन दानमात्रंस्तूयते तथाप्यस्यसूक्तस्य स्वनयदानस्तुतिरूपत्वाद्दुःखानिमायंत्वित्यर्थः ॥ ७ ॥

अमन्दानितिषष्ठंसूक्तम् सप्तेत्यनुवर्तनात्सप्तर्चं आदितः पंचानांकक्षीवानृषिः षष्ठ्याभावयव्यः सप्तम्यारोमशानामब्रह्मवादिनी आदितः पंचानांभावयव्यस्यस्तुतिरूपत्वात्सएवदेवता यातेनोच्य- तइतिन्यायात् अन्त्ययोः षष्ठीसप्तम्योस्तुभावयव्यरोमशयोः संवादः षष्ठ्याभावयव्यः सप्तम्यारोम- शा यद्यपिस्वनयेनदत्ताइतिश्रूयमाणत्वात्तस्यैवस्तुत्याभाव्यं तथापिपितृपुत्रयोरभेदात् आरुद्रासइति- वत् पितृनाम्नाव्यवहर्तुंशक्यत्वात्प्रथमायामृचिभावयव्यस्येत्युक्तत्वाच्च भावयव्यं तुष्टावेत्येतदविरुद्ध- मित्युक्तंपूर्वसूक्तएव आदितः पंचत्रिष्टुभः अन्त्येअनुष्टुभौ तथाचानुक्रान्तं—अमन्दानितिकक्षीवान्दान- तृष्टः पञ्चभिर्भावयव्यंतुष्टावांत्येअनुष्टुभौ भावयव्यरोमशयोर्दंपत्योःसंवादइति उक्तोविनियोगः ।