श्रवणम्

1.125.2
सु॒गुर᳚सत्सुहिर॒ण्यः स्वश्वो᳚ बृ॒हद᳚स्मै॒ वय॒ इन्द्रो᳚ दधाति ।
यस्त्वा॒यन्तं॒ वसु᳚ना प्रातरित्वो मु॒क्षीज᳚येव॒ पदि᳚मुत्सि॒नाति᳚ ॥
▶ पदपाठः (Word-by-word)
सु॒॑गुः । अ॒स॒त् । सु॒॑हि॒र॒ण्यः । सु॒॑अश्वः᳚ । बृ॒हत् । अ॒स्मै॒ । वयः᳚ । इन्द्रः᳚ । द॒धा॒ति॒ ।
यः । त्वा॒ । आ॒॑यन्त᳚म् । वसु᳚ना । प्रा॒तः॒॑इ॒त्वः॒ । मु॒क्षीज᳚या॑इव । पदि᳚म् । उ॒त्॑सि॒नाति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रकक्षीवतःपिता आनीतेनधनेनसंतुष्टोराजानंबहुप्रकारेणाशास्ते असौस्वनयोराजा सुगुरसत् शोभनैर्बहुभिर्गोभिः तद्वान्भवतु तथा सुहिरण्यः सुष्टुतहितरमणीयैर्धनैस्तद्वान्भवतु तथा स्वश्वःशोभ- नैर्बहुभिर्गोभिः तद्वान्भवतु तथा सुहिरण्यः सुष्टुतहितरमणीयैर्धनैस्तद्वान्भवतु तथा स्वश्वः शोभनै- रश्वैस्तद्वान् सन्अस्मैप्रदात्रे राज्ञेबृहत्प्रभूतंवयः अन्नमिन्द्रः परमेश्वरोधर्मदेवता दधातिदधातु ददातु यतोऽयंराजा अस्मैगोहिरण्याश्वान्नानिबहुसंख्याकानिदत्तवान् अतस्तेषामभिवृद्धिप्रार्थनोचितैव क- स्येयमाशीरिति सउच्यते यः योराजा हेप्रातरित्वः प्रातरागामिन्नतिथेपुत्र आयन्तंगुरुकुलादागतंपदिं पथिकंयदृच्छयागन्तारंत्वात्वां वसुना अन्नसाधनेन गवादिधनेनोत्स्रिनाति गमनतः उत्कृष्टंबन्धाति गतिंनिरुणद्धीत्यर्थः प्रतिबन्धेदृष्टान्तउच्यते—मुक्षीजयेवपदिं मुच्यमाना सतिबन्धनंजयतीतिमुक्षीजा म्रुगपक्ष्यादिबन्धनीरज्जुः तया पाशकोयथापदिं गंतारं मृगपक्ष्यादिकं उत्सिनातिबध्नाति तथामयाअ- ननुज्ञातमपित्वां गमनंप्रतिबुध्य गवादीष्टदानादिनायोराजातोषयतिसएवंभवत्विति पदिरितिपदं- व्याचक्षाणेनयास्केनतदुदाहरणायायंमन्त्रोव्याख्यातः—सुगुर्भवतिसुहिरण्यः स्वश्वोमहच्चास्मैवयइ- न्द्रोदधातियस्त्वायन्तमन्नेनप्रातरागामिन्नतिथेमुक्षीजयेवपदिमुत्सिनाति कुमारोमुक्षीजामोचनाच्चस- यनाच्चततनाच्चेति ॥ २ ॥