प्रथमं मण्डलम् - सूक्तम् 81

9 ऋचः

ऋषिः: गोतमो राहूगणः देवता: इंद्रः छन्दः: पंक्तिः

सूक्तम् 1.81 - सम्पूर्णम्

1 / 9
ऋक्: 1.81.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
1.81.1
इन्द्रो॒ मदा᳚य वावृधे॒ शव᳚से वृत्र॒हा नृभि᳚ः ।
तमिन्म॒हत्स्वा॒जिषू॒तेमर्भे᳚ हवामहे॒ स वाजे᳚षु॒ प्र नो᳚॑विषत् ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । मदा᳚य । व॒वृ॒धे॒ । शव᳚से । वृ॒त्र॒॑हा । नृ॑भिः᳚ ।
तम् । इत् । म॒हत्॑सु᳚ । आ॒जिषु᳚ । उ॒त । ई॒म् । अर्भे᳚ । ह॒वा॒म॒हे॒ । सः । वाजे᳚षु । प्र । नः॒ । अ॒वि॒ष॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रथमे मंडले त्रयोदशानुवाके सप्त सूक्तानि व्याकृतानि । इंद्रो मदायेति नवर्चमष्टमं सूक्तम् । अत्रानुक्रम्यते । इंद्रो नवेति । ऋषिश्चान्यस्मादृषेः (अनु । १२-२) इति परिभाषया रहूगणपुत्रस्य गोतमस्यानुवृत्तेरस्य सूक्तस्य स ऋषिः । पूर्वसूक्ते पांक्तं हीत्युक्तत्वात्तुह्यादिपरिभाषयेदमुत्तरं च सूक्तं पांक्तम् । अनादेशपरिभाषयेंद्रो देवता ॥ पृष्ठ्यस्य पंचमेऽहनि निष्केवल्यशस्त्र इदं सूक्तम् । सूत्रितं च । प्रेदं ब्रह्मेंद्रो मदाय सत्रा मदास इति निष्केवल्यम् (आ ७-१२) इति ॥ आरंभणीये चातुर्विंशिकेऽहनि माध्यंदिने सवने ब्राह्मणाच्छंसिनः शस्त्र इंद्रो मदायेत्याद्यस्तृचो वैकल्पिकः स्तोत्रियः । होत्रकाणामिति खंडे सूत्रितम् । इंद्रो मदाय वावृधे मदे मदे हि नो ददिः (आ ७-४) इति ॥ महाव्रते निष्केवल्य उत्तरपक्ष इंद्रो मदायेत्येका शंसनीया । तथैव पंचमारण्यके सूत्रितम् । इंद्रो मदाय वावृध इति पंक्तिः सूददोहाः । ऐ आ ५-२-२ । इति ॥

वृत्रहा वृत्रस्यावरकस्य वृष्टिनिरोधकस्य मेघस्यासुरस्य वा हंता । यद्वा । अवरकाणां शत्रूणां हंतेंद्रो मदाय हर्षार्थं शवसे । बलनामैतत् । बलार्थं च नृभिर्यज्ञस्य नेतृभिर्ऋत्विग्भिर्ववृधे । स्तोत्रशस्त्ररूपाभिः स्तुतिभिः प्रवर्धितो बभूव । स्तुत्या हि देवता प्राप्तबला सती प्रवर्धते । तमित्तमेवेंद्रं महत्सु प्रभूतेष्वाजिषु संग्रामेषु हवामहे । अस्माकं रक्षणायाह्वयामहे । उतापि चेमेनमर्भेऽल्पे संग्रामे हवामहे । अस्माभिराहूतः स चेंद्रो वाजेषु संग्रामेषु नोऽस्मान् प्राविषत् । प्रावतु । प्रकर्षेण रक्षतु ॥ ववृधे । वृधेः कर्मणि लिट् । संहितायामभ्यासस्यान्येषामपि दृश्यत इति दीर्घत्वम् । तुजादित्वे हि तूतुजान इतिवत्पदकाले दीर्घः श्रूयेत । नृभिः । सावेकाच इति प्राप्तस्य विभक्त्युदात्तत्वस्य नृ चान्यतरस्यामिति प्रतिषेधः । हवामहे । ह्वयतेर्लट ह्व इत्यनुवृत्तौ बहुलं छंदसीति संप्रसारणम् । शपि गुणावादेशौ । अविषत् । अव रक्षणे । लेट्यडागमः । इतश्च लोप इतीकारलोपः । सिब्बहुलं लेटेति सिप् । तस्यार्धधातुकत्वाद्वलादिलक्षण िइट् ॥ १ ॥

1.81.2
असि॒ हि वी᳚र॒ सेन्यो॑सि॒ भूरि᳚ पराद॒दिः ।
असि᳚ द॒भ्रस्य᳚ चिद्वृ॒धो यज᳚मानाय शिक्षसि सुन्व॒ते भूरि᳚ ते॒ वसु᳚ ॥
▶ पदपाठः (Word-by-word)
असि᳚ । हि । वी॒र॒ । सेन्यः᳚ । असि᳚ । भूरि᳚ । प॒रा॒॑द॒दिः ।
असि᳚ । द॒भ्रस्य᳚ । चि॒त् । वृ॒धः । यज᳚मानाय । शि॒क्ष॒सि॒ । सु॒न्व॒ते । भूरि᳚ । ते॒ । वसु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वीर शत्रुक्षेपणकुशलेंद्र त्वं सेन्योऽसि । सेनार्हो भवसि । त्वमेकोऽपि सेनासदृशो भवसीत्यर्थः । हि यस्मादेवं तस्माद्भूरि प्रभूतं शत्रूणां धनं पराददिः परादाता शत्रूणां पराङ्मुखं यथा भवति तथा आदातासि । भवसि । दभ्रस्य चित् । अल्पनामैतत् । अल्पस्यापि तव स्तोतुर्वृधो वर्धयितासि । तथा यजमानाय यागं कुर्वते सुन्वते सोमाभिषवं कुर्वते पुरुषाय शिक्षसि । अपेक्षितं धनं ददासि । शिक्षतिर्दानकर्मा । यस्मात्ते तव वसु धनं भूरि बहुलमक्षयं धनं विध्यते । तस्माद्ददासीति भावः ॥ पराददिः । डुदाञ् दाने । आदृगमहनजन इति किप्रत्ययः । लिड्वद्भावाद्द्विर्वचने ह्रस्वत्वम् । आतो लोप इटि चेत्याकारलोपः । वृधः । वृधेरंतर्भावितण्यर्थादिगुपधलक्षणः कः । सुन्वते । शतुरनुम इति विभक्तेरुदात्तत्वं ॥ २ ॥

1.81.3
यदु॒दीर᳚त आ॒जयो᳚ धृ॒ष्णवे᳚ धीयते॒ धना᳚ ।
यु॒क्ष्वा म᳚द॒च्युता॒ हरी॒ कं हन॒ः कं वसौ᳚ दधो॒॑स्मा{4} इ᳚न्द्र॒ वसौ᳚ दधः ॥
▶ पदपाठः (Word-by-word)
यत् । उ॒त्॑ईर᳚ते । आ॒जयः᳚ । धृ॒ष्णवे᳚ । धी॒य॒ते॒ । धना᳚ ।
यु॒क्ष्व । म॒द॒॑च्युता᳚ । हरी॒ इति᳚ । कम् । हनः᳚ । कम् । वसौ᳚ । द॒धः॒ । अ॒स्मान् । इ॒न्द्र॒ । वसौ᳚ । द॒धः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रेदमाख्यानम् । रहूगणपुत्रो गोतमः कुरुसृंजयानां राज्ञां पुरोहित आसीत् । तेषां राज्ञां परैः सह युद्धे सति स ऋषिरनेन सूक्तेनेंद्रं स्तुत्वा स्वकीयानां जयं प्रार्थयामासेति । तस्य च तत्पुरोहितत्वं वाजसनेयिभिराम्नातम् । गोतमो हि वै राहूगण उभयेषां कुरुसृंजयानां पुरोहित आसीदिति ॥ यद्यदाजयः संग्रामा उदीरते उद्गच्छंति उत्पद्यंते तदानीं धना धनं धृष्णवे यो धृष्णुर्धर्षयिता शत्रूणां जेता भवति तस्मै धीयते । निधीयते । जयतो धनं भवतीत्यर्थः । हे इंद्र त्वं तादृशेषु युद्धेषु प्रवृत्तेषु मदच्युता शत्रूणां मदस्य गर्वस्य च्यौवयितारौ हरी त्वदीयावश्वौ युक्ष्व । रथे योजय । योजयित्वा च कं कंचिद्राजानं तव परिचरणमकुर्वंतं हनः । हन्याः । कंचन त्वां परिचरंतं वसौ वसुनि धने दधः । स्थापयसि । अतो जयपराजययोस्त्यमेव कारयितासि । तस्मात् हे इंद्रास्मानस्मदीयान्राज्ञो वसौ धने दधः । स्थापय ॥ उदीरते । ईर गतौ । आदादिकः । अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वर एव शिष्यते । यद्वृत्तयोगादनिघातः । धना । सुपां सलुगिति डादेशः । युक्ष्य । युजिर् योगे । अंतर्भावितण्यर्थाल्लोट बहुलं छंदसीति विकरणस्य लुक् । द्व्यचोऽतस्तिङ इति संहितायां दीर्घत्वम् । हनः । हंतेर्लेट सिप्यडागमः । हनश्च दधश्चेति चार्थप्रतीतेश्चादिलोपे विभाषेति प्रथमायास्तिङ् विभक्तेर्निघातप्रतिषेधः । वसौ । लिंगव्यत्ययः । दधः । दध धारणे लेट । व्यत्ययेन परस्मैपदं ॥ ३ ॥

1.81.4
क्रत्वा᳚ म॒हा{4} अ᳚नुष्व॒धं भी॒म आ वा᳚वृधे॒ शवः᳚ ।
श्रि॒य ऋ॒ष्व उ᳚पा॒कयो॒र्नि शि॒प्री हरि᳚वान्दधे॒ हस्त᳚यो॒र्वज्र᳚माय॒सम् ॥
▶ पदपाठः (Word-by-word)
क्रत्वा᳚ । म॒हान् । अ॒नु॒॑स्व॒धम् । भी॒मः । आ । व॒वृ॒धे॒ । शवः᳚ ।
श्रि॒ये । ऋ॒ष्वः । उ॒पा॒कयोः᳚ । नि । शि॒प्री । हरि᳚॑वान् । द॒धे॒ । हस्त᳚योः । वज्र᳚म् । आ॒य॒सम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

क्रत्वा कर्मणा प्रज्ञया वा महान् सर्वाधिको भीमः शत्रूणां भयंकर इंद्रोऽनुष्वधम् । स्वधेत्यन्ननाम । स्वधायाम् । विभक्त्यर्थेऽव्ययीभावः । सोमलक्षणस्यान्नस्य पाने सतीत्यर्थः । शव आत्मीयं बलमा ववृधे । आभिमुख्येन प्रावर्धयत् । तदनंतरमृष्वो दर्शनीयः शिप्री । शिप्री हनू नाकेसि वा । तद्युक्तः हरिवान् हरिनामकाश्वोपेत इंद्र उपाकयोः । अंतिकनामैतत् । समीपवर्तिनोर्हस्तयोर्बाह्वोरायसमयोमयं वज्रं श्रिये संपदर्थं नि दधे । निदधाति स्थापयति । सोमपानेन हृष्टः प्रबल इंद्रः शत्रूणां हननाय हस्ते वज्रं गृण्हातीति तात्पर्यार्थः ॥ क्रत्वा । जसादिषु छंदसि वावचनमिति नाभावस्य विकल्पितत्वादभावः । आयसम् । तस्य विकार इत्यण्प्रत्ययः ॥ ५ ॥ ४ ॥

1.81.5
आ प᳚प्रौ॒ पार्थि᳚वं॒ रजो᳚ बद्ब॒धे रो᳚च॒ना दि॒वि ।
न त्वावा{4}᳚ इन्द्र॒ कश्च॒न न जा॒तो न ज᳚निष्य॒ते॑ति॒ विश्वं᳚ ववक्षिथ ॥
▶ पदपाठः (Word-by-word)
आ । प॒प्रौ॒ । पार्थि᳚वम् । रजः᳚ । ब॒द्ब॒धे । रो॒च॒ना । दि॒वि ।
न । त्वा॑वा᳚न् । इ॒न्द्र॒ । कः । च॒न । न । जा॒तः । न । ज॒नि॒ष्य॒ते॒ । अति᳚ । विश्व᳚म् । व॒व॒क्षि॒थ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इंद्रः स्वतेजसा पार्थिवं पृथिव्याः संबंधि वस्तुजातं रजोऽंतरिक्षलोकं चा पप्रौ । आपूरयति । तथा दिवि द्युलोके रोचना रोचमानानि दीप्तानि नक्षत्राणि बद्बधे । बबंध । स्थापितवान् । अतो हे इंद्र त्वावान् त्वत्सदृशः कश्चन न जातो नोत्पन्नोऽस्ति । न च जनिष्यते । उत्पत्स्यमानोऽपि नास्ति । तादृशस्त्वं विश्वं सर्वं रक्षितव्यं जगदति ववक्षिथ । अतिशयेन वोढुमिच्छसि । सर्वस्य जगतो निर्वाहको भवसीत्यर्थः ॥ पप्रौ । प्रा पूरणे । लिट्यात औ णलः (पा ७-१-३४) इत्यौकारादेः पार्थिवम् । पृथिव्या ञाञौ । पा ४-१-८५-२ । इत्यञ्प्रत्ययः । ञित्त्वादाद्युदात्त त्वम् । रजः । रजंत्यस्मिन् गंधर्वादय इति रजोऽंतरिक्षम् । रंज रागे । असुनि रजकरजनरजःसूपसंख्यानम् । का ६-४-२४-४ । इति नलोपः । बद्बधे । बध बंधने । लिट व्यत्ययेन हलादिशेषाभावः । एकहल्मध्यगतत्वाभावादेत्वाभ्यासलोपावपि न स्तः । पादादित्वान्निघाताभावः । त्वावान् । वतुप्प्रकरणे युष्मदस्मद्भ्यां छंदसि सादृश्य उपसंख्यानमिति वतुप् । आ सर्वनाम्न इत्यात्वम् । ववक्षिथ । वह प्रापणे । अस्मादिच्छा । सनि सन्यत इतीत्वस्य सर्वे विधयश्छंदसि विकल्प्यंत इत्यभावः । सनंताल्लिट्यमंत्र इति निषेधादाम्प्रत्ययाभावः ॥ ५ ॥

1.81.6
यो अ॒र्यो म᳚र्त॒भोज᳚नं परा॒ददा᳚ति दा॒शुषे᳚ ।
इन्द्रो᳚ अ॒स्मभ्यं᳚ शिक्षतु॒ वि भ᳚जा॒ भूरि᳚ ते॒ वसु᳚ भक्षी॒य तव॒ राध᳚सः ॥
▶ पदपाठः (Word-by-word)
यः । अ॒र्यः । म॒र्त॒॑भोज᳚नम् । प॒रा॒॑ददा᳚ति । दा॒शुषे᳚ ।
इन्द्रः᳚ । अ॒स्मभ्य᳚म् । शि॒क्ष॒तु॒ । वि । भ॒ज॒ । भूरि᳚ । ते॒ । वसु᳚ । भ॒क्षी॒य । तव᳚ । राध᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अर्यः स्वामी पालयिता य इंद्रो मर्तभोजनं सर्वैर्मनुष्यैरुपभोज्यमन्नं दाशुषे चरुपुरोडाशादीनि दत्तवते यजमानाय पराददाति प्रयच्छति स इंद्रोऽस्मभ्यं शिक्षतु । तादृशमन्नं ददातु । अवशिष्टपादद्वयं प्रत्यक्षकृतम् । हे इंद्र अस्मभ्यं दातुं धनं वि भज । विभक्तं कुरु । यतस्ते तव वसु धनं भूरि बहुलमसंख्यातं अतस्तव राधसो धनस्यैकदेशं भक्षीय । भजेय । प्राप्नुयां ॥ पराददाति । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । तिङि चोदात्तवतीति गतेरनुदात्तत्वम् । दाशुषे । दाशृ दाने । दाश्वान् साह्वानिति क्वसुप्रत्ययांतो निपात्यते । चतुर्थ्येकवचने वसोः संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वम् । भक्षीय । भज सेवायाम् । प्रार्थनायां लिङि तस्य च्छंदस्युभयथेत्यार्धधातुकत्वाच्छबभावः सलोपाभावश्च । एकाच इतीट् प्रतिषेधः । आगमानुदात्तत्वे प्रत्ययस्वर एव शिष्यते । पूर्वपदस्यासमानवाक्यगतत्वान्निघाताभावः । समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्या इति वचनात् ॥ ६ ॥

1.81.7
मदे᳚मदे॒ हि नो᳚ द॒दिर्यू॒था गवा᳚मृजु॒क्रतु᳚ः ।
सं गृ᳚भाय पु॒रू श॒तोभ᳚याह॒स्त्या वसु᳚ शिशी॒हि रा॒य आ भ᳚र ॥
▶ पदपाठः (Word-by-word)
मदे᳚॑मदे । हि । नः॒ । द॒दिः । यू॒था । गवा᳚म् । ऋ॒जु॒॑क्रतुः᳚ ।
सम् । गृ॒भा॒य॒ । पु॒रु । श॒ता । उ॒भ॒या॒ह॒स्त्या । वसु᳚ । शि॒शी॒हि । रा॒यः । आ । भ॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिनो मदेमदे हि नो ददिरिति वैकल्पिकोऽनुरूपस्तृचः । होत्रकाणामिति खंडे सूत्रितम् । मदेमदे हि नो ददिः सुरूपकृत्नुमूतये (आ ७-४) इति ॥

मदे मदे सोमपानेन हर्षे हर्षे सति ऋजुक्रतुर्ऋजुकर्मा स इंद्रो नोऽस्मभ्यं गवां यूथा यूथानि ददिर्हि गोयूथानां दाता खलु । हे इंद्र स त्वं पुरु । पुरूणि प्रभूतानि शता शतसंख्याकानि । अपरिमितानीत्यर्थः । वसु वसूनि धनान्युभयाहस्त्योभाभ्यां हस्ताभ्यां सं गृभाय । अस्मभ्यं दातुं सम्यग्गृहाण शिशीहि । अस्मांस्तीक्ष्णीकुरु । निशितबुद्धियुक्तान् कुर्वित्यर्थः । रायो धनानि हस्तयोः स्थितान्या भर । आहर । प्रयच्छ ॥ ददिः । डुदाञ् दाने । आदृगमहनजन इति किप्रत्ययः यूथा । शेश्छंदसि बहुलमिति शेर्लोपः । गवाम् । सावेकाच इति प्राप्तस्य न गोश्वन्साववर्णेति प्रतिषेधः । गैभाय । ग्रह उपादाने । लोट हौ छंदसि शायजपि (पा ३-१-८४) इति श्नाप्रत्ययस्य शायजादेशः । हृग्रहोर्भ इति भत्वम् । उभयाहस्तशब्दादुत्तरस्य तृतीयाद्विवचनस्य सुपां सुलुगिति ड्यादेशः । अन्येषामपि दृश्यत इति पूर्वपदस्य दीर्घत्वम् । समासांतोदात्तत्वं उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । वसु । सुपां सुलुगिति विभक्तेर्लुक् । शिशीहि । शो तनूकरणे । बहुलं छंदसीति विकरणस्य श्लुः । आदेच इत्यात्वम् । इदित्यनुवृत्तौ बहुलं छंदसीत्यभ्यासस्येत्वम् । ई हल्यघोरिति धातोरीत्वम् । पादादित्वान्निघाताभावः । रायः । ऊडिदमिति विभक्तेरुदात्तत्वं ॥ ७ ॥

1.81.8
मा॒दय᳚स्व सु॒ते सचा॒ शव᳚से शूर॒ राध᳚से ।
वि॒द्मा हि त्वा᳚ पुरू॒वसु॒मुप॒ कामा᳚न्त्ससृ॒ज्महे॑था᳚ नो॑वि॒ता भ᳚व ॥
▶ पदपाठः (Word-by-word)
मा॒दय᳚स्व । सु॒ते । सचा᳚ । शव᳚से । शू॒र॒ । राध᳚से ।
वि॒द्म । हि । त्वा॒ । पु॒रु॒॑वसु᳚म् । उप᳚ । कामा᳚न् । स॒सृ॒ज्महे᳚ । अथ᳚ । नः॒ । अ॒वि॒ता । भ॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शूर शौर्यवन्निंद्र सुते सोमेऽभिषुते सत्यागत्य सचास्माकं सखा सन् मादयस्व । तेन सोमेन तृप्तो भव । किमर्थम् । शवसे बलार्थं राधसेऽस्माकां धनार्थं च । त्वा त्वां पुरूवसुं बहुधनं विद्म हि । वयं जानीमः खलु । अतोऽस्मदीयान् कामान् मात्रा गवा वत्सानिव त्वयोप ससृज्महे हि । त्वया खल्वेकीकुर्मः । अथानंतरं नोऽस्माकमविताभिलषितफलप्रदानेन रक्षिता भव ॥ मादयस्व । मद तृप्तियोगे । चुरादिरात्मनेपदी । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे णिच एव स्वरः शिष्यते । ससृज्महे । सृज विसर्गे । बहुलं छंदसीति विकरणस्य श्लुः । प्रत्ययाद्युदात्तत्वम् । अत्रापि हिशब्दानुषंगाच्छंदस्यनेकमपि साकांक्षं (पा ८-१-३५) इति निघातप्रतिषेधः ॥ ८ ॥

1.81.9
ए॒ते त᳚ इन्द्र ज॒न्तवो॒ विश्वं᳚ पुष्यन्ति॒ वार्य᳚म् ।
अ॒न्तर्हि ख्यो जना᳚नाम॒र्यो वेदो॒ अदा᳚शुषां॒ तेषां᳚ नो॒ वेद॒ आ भ᳚र ॥
▶ पदपाठः (Word-by-word)
ए॒ते । ते॒ । इ॒न्द्र॒ । ज॒न्तवः᳚ । विश्व᳚म् । पु॒ष्य॒न्ति॒ । वार्य᳚म् ।
अ॒न्तः । हि । ख्यः । जना᳚नाम् । अ॒र्यः । वेदः᳚ । अदा᳚शुषाम् । तेषा᳚म् । नः॒ । वेदः᳚ । आ । भ॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र ते तव स्वभूता एते जंतवो यजमानलक्षणा जना विश्वं सर्वं वार्य सर्वैः संभजनीयं हविः पुष्यंति । वर्धयंति । आदाशुषां हविषामदातृणां जनानामंतर्मध्ये विद्यमानं वेदो धनमर्यः सर्वेषां स्वामी त्वं ख्यो हि । पश्यसि हि । जानासीत्यर्थः । तेषामयजमानानां वेदो धनं नोऽस्मभ्यमा भर । आहर । प्रयच्छेति यावत् । अयजमानेषु विद्यमानं धनं यागानुपयुक्तत्वाद्व्यर्थमेव भवेत् । अतस्तस्य धनस्य सार्थकत्वाय तदीयं धनमपहृत्य यजमानेभ्यः प्रयच्छेति तात्पर्यार्थः ॥ ख्यः । ख्या प्रकथने । अयं दर्शनार्थोऽपि । वर्तमाने छांदसो लुङ् । अस्यतिवक्तीत्यादिना च्लेरङादेशः । आतो लोप इट चेत्याकारलोपः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । हि चेति निघातपतिषेधः ॥ ९ ॥