प्रथमं मण्डलम् - सूक्तम् 104

9 ऋचः

ऋषिः: कुत्स आंगिरसः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 1.104 - सम्पूर्णम्

1 / 9
ऋक्: 1.104.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
1.104.1
योनि᳚ष्ट इन्द्र नि॒षदे᳚ अकारि॒ तमा नि षी᳚द स्वा॒नो नार्वा᳚ ।
वि॒मुच्या॒ वयो᳚॑व॒सायाश्वा᳚न्दो॒षा वस्तो॒र्वही᳚यसः प्रपि॒त्वे ॥
▶ पदपाठः (Word-by-word)
योनिः᳚ । ते॒ । इ॒न्द्र॒ । नि॒॑सदे᳚ । अ॒का॒रि॒ । तम् । आ । नि । सी॒द॒ । स्वा॒नः । न । अर्वा᳚ ।
वि॒॑मुच्य᳚ । वयः᳚ । अ॒व॒॑साय᳚ । अश्वा᳚न् । दो॒षा । वस्तोः᳚ । वही᳚यसः । प्र॒॑पि॒त्वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

योनिरिति नवर्चमेकादशं सूक्तं कुत्सस्यार्षं त्रैष्टुभमैंद्रम् । योनिर्नवेत्यनुक्रांतं ॥ सूक्तविनियोगो लैंगिकः ॥

हे इंद्र योनिर्वेद्याख्यं स्थानं ते तव निषदे निषदनायोपवेशनायाकारि । कृतमस्माभिः प्रकल्पितमभूत् । तं योनिमा नि षीद । शीघ्रमागत्य तत्रोपविश । शीघ्रागमने दृष्टांतः । स्वानो नार्वा । अर्वेत्यश्वनाम । यथाश्वः स्वानो हेषाशब्दं कुर्वन् स्वकीयं स्थानं शीघ्रमागच्छति तद्वत् । किं कृत्वा । वयोऽश्वबंधनार्थान् रश्मीन्विमुच्य रथाद्विश्लिष्य तथाश्वान् रथे योजितांश्च तुरगानवसाय विमुच्य । अत्र निरुक्तम् । अवसायाश्वानिति स्यतिरुपसृष्टो विमोचने (नि १-१७) इति । कीदृशानश्वान् । प्रपित्वे यागकाले प्राप्ते । प्रपित्वे प्राप्तेऽभीकेऽभ्यक्ते (नि ३-२०) इति यास्कः । दोषा रात्रौ वस्तोरहनि च वहीयस आदरातिशयेन वोढ ॄन् ॥ निषदे । सदेः संपदादिलक्षणो भावे क्विप् । स्वानः । स्यमु स्वन ध्वन शब्दे । बहुलवचनात्कर्तरि घञ् । कर्षात्वत इत्यंतोदात्तत्वम् । वयः । वियंति रथेन सह संगच्छंत इति विशब्देन रश्मय उच्यंते । वी गत्यादिषु । औणादिक इप्रत्ययः । टलोपश्च । द्वितीयार्थे प्रथमा । अवसाय । षो अंतकर्मणि । आदेच इत्यात्वम् । समासेऽनञ्पूर्व इति क्त्वोल्यबादेशः । वहीयसः । वह प्रापणे । तृजंताद्वोढृशब्दात्तुश्छंदसीतीयसुन् । तुरिष्ठेमेयःस्विति तृलोपे कर्तव्ये ढत्वधत्वष्वुत्वढ्रलोपानामसिद्धत्वात्तदाश्रितस्यौत्वस्याप्यभावे तृलोप एव क्रियते ॥ १ ॥

1.104.2
ओ त्ये नर॒ इन्द्र᳚मू॒तये᳚ गु॒र्नू चि॒त्तान्त्स॒द्यो अध्व᳚नो जगम्यात् ।
दे॒वासो᳚ म॒न्युं दास᳚स्य श्चम्न॒न्ते न॒ आ व᳚क्षन्त्सुवि॒ताय॒ वर्ण᳚म् ॥
▶ पदपाठः (Word-by-word)
ओ इति᳚ । त्ये । नरः᳚ । इन्द्र᳚म् । ऊ॒तये᳚ । गुः॒ । नु । चि॒त् । तान् । स॒द्यः । अध्व᳚नः । ज॒ग॒म्या॒त् ।
दे॒वासः᳚ । म॒न्युम् । दास᳚स्य । श्च॒म्न॒न् । ते । नः॒ । आ । व॒क्ष॒न् । सु॒॑वि॒ताय । वर्ण᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्ये ते नरो यज्ञस्य नेतारो यजमाना ऊतये रक्षणायेंद्रमो । आ उ इत्येतन्निपातद्वयसमुदाय आकारार्थः । आ गुः आगच्छंति । स चेंद्र आगतांस्तान् नू चित्क्षिप्रं सद्यस्तदानीमेवाध्वनोऽनुष्ठानमार्गाञ्जगम्यात् । गमयतु । प्रापयतु । देवासः सर्वे देवा दासस्योपक्षपयितुरसुरस्य मन्युं क्रोधं श्चम्नन् । भक्षयंतु । हिंसंत्वित्यर्थः । अपि च ते देवा नोऽस्माकं सुविताय सुष्ठु प्राप्तव्याय यज्ञाय वर्णमनिष्टनिवारकमिंद्रमा वक्षन् । आवहंतु । आनयंतु ॥ जगम्यात् । गमेरंतर्भावितण्यर्थात् लिङि बहुलं छंदसीति शपः श्लुः । श्चम्नन् । चमु अदने । लेट व्यत्ययेन श्ना । शकारोपजनश्छांदसः । यद्वा । श्चम्नातिः प्रकृत्यंतरं हिंसार्थं द्रष्टव्यम् । वक्षन् । वह प्रापणे । लेट सिब्बहुलं लेटीति सिप् । ढत्वकत्वषत्वानि । सुविताय । सुपूर्वादेतेः कर्मणि निष्ठा । तन्वादित्वादुवङ् । सूपमानात् क्त इत्युत्तरपदांतोदात्तत्वम् । वर्णम् । वृञ् वरणे । अस्मादंतर्भावितण्यर्थात्क ॄज ॄवृसिद्रुपन्यनिस्वपिभ्यो निच्च (उ ३-१०) इति नप्रत्ययः । नित्त्वादाद्युदात्तत्वं ॥ २ ॥

1.104.3 समानपद
अव॒ त्मना᳚ भरते॒ केत᳚वेदा॒ अव॒ त्मना᳚ भरते॒ फेन᳚मु॒दन् ।
क्षी॒रेण᳚ स्नात॒ः कुय᳚वस्य॒ योषे᳚ ह॒ते ते स्या᳚तां प्रव॒णे शिफा᳚याः ॥
▶ पदपाठः (Word-by-word)
अव᳚ । त्मना᳚ । भ॒र॒ते॒ । केत᳚॑वेदाः । अव᳚ । त्मना᳚ । भ॒र॒ते॒ । फेन᳚म् । उ॒दन् ।
क्षी॒रेण᳚ । स्ना॒तः॒ । कुय᳚वस्य । योषे॒ इति᳚ । ह॒ते इति᳚ । ते इति᳚ । स्या॒ता॒म् । प्र॒व॒णे । शिफा᳚याः ॥
▶ सायणभाष्यम् (Sayana Commentary)

केतवेदाऽ केतं ज्ञातं वेदः परेषां धनं येन स शादृशः कुयवनामासुरस्त्मनात्मना स्वयमेवाव भरते । ज्ञातं परेषां धनमपहरति । अपि च सोऽसुर उदन्नुदकेऽंतर्वर्तमानः सन्फेनं फेनयुक्तमुदकमात्मना स्वयमेवाच भरते । अपहरति । क्षीरेण क्षरणशीलेन तेनापहृतेनोदकेन कुयवस्यासुरस्य योषेभार्ये स्नातः । स्नानं कुर्वाते । तादृश्यौ स्त्रियौ शिफायाः । शिफा नाम नदी । तस्याः प्रवणे निम्ने प्रवेष्टुमशक्येऽगाधप्रदेशे हते नष्टे स्याताम् । भवेताम् । हे इंद्र त्वं परेषां धनमपहृत्यान्यैर्दुरवगाह उदकस्य मध्ये वर्तमानं कुयवं सकुटुंबमवधीरित्यर्थः ॥ त्मना । मंत्रेष्टाङ्यादेरात्मन इत्याकारलोपः । भरते हृञ् हरणे । हृग्रहोर्भ इति भत्वम् । केतवेदाः । कित ज्ञाने । कर्मणि घञ् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । उदन् । पद्दन्नित्यादिनोदकशब्दस्योदन्नादेशः । सुपां सुलुगिति सप्तम्या लुक् ॥ ३ ॥

1.104.4
यु॒योप॒ नाभि॒रुप᳚रस्या॒योः प्र पूर्वा᳚भिस्तिरते॒ राष्टि॒ शूरः᳚ ।
अ॒ञ्ज॒सी कु᳚लि॒शी वी॒रप᳚त्नी॒ पयो᳚ हिन्वा॒ना उ॒दभि᳚र्भरन्ते ॥
▶ पदपाठः (Word-by-word)
यु॒योप᳚ । नाभिः᳚ । उप᳚रस्य । आ॒योः । प्र । पूर्वा᳚भिः । ति॒र॒ते॒ । राष्टि᳚ । शूरः᳚ ।
अ॒ञ्ज॒सी । कु॒लि॒शी । वी॒र॑प᳚त्नी । पयः᳚ । हि॒न्वा॒नाः । उ॒द॑भिः᳚ । भ॒र॒न्ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उपरस्योदकमध्य उप्तस्यावस्थितस्यायोः परेषामुपद्रवार्धमितस्ततो गच्छतः कुयवस्यासुरस्यनाभिः संनद्धमावसनस्थानं युयोप । गूढमासीत् । यथान्यैर्न दृश्यते सोऽसुरस्तथाकरोदित्यर्थः । अपि च । पूर्वाभिः पूरयित्रीभिरात्मनापहृताभिरद्भिः प्रतिरते । सोऽसुरः प्रवर्धते । स च शूरः शौर्योपेतो राष्टि । राजते च । आत्मीयेन शौर्येण लोके प्रख्यातो भवतीत्यर्थः । तमिममसुरमंजस्यांजस्योपेता कुलिशी कुलं शातयंती वीरपत्नी वीरस्य पालयत्री । एतत्संज्ञि कास्तिस्रोनद्यः पयः पयसा तत्संबंधिना सारभूतेनोदकेन हिन्वानाः प्रीणयंत्य उदभिरात्मीयैरुदकैर्भरंते । धारयंति ॥ युयोप । युप विमोहने । नाभिः । नहो भश्च (उ ४-१२५) इतीञ् प्रत्ययः । राष्टि । राजृ दीप्तौ । बहुलं छंदसीति शपो लुक् । व्रश्चादिना षत्वे ष्टुत्वं पयः । सुपां सुलुगिति तृतीयायालुक् । हिन्वानाः । हिविः प्रीणनार्थः । इदित्त्वान्नुम् । अस्मात्ताच्भेलिकश्चानश् । आगमानुशासनस्यानित्यत्वान्मुगभावः । चानशो लसार्वधातुकत्वाभावात्तत्स्वराभावे चित्स्वर एव शिष्यते ॥ ४ ॥

1.104.5 समानपद
प्रति॒ यत्स्या नीथाद᳚र्शि॒ दस्यो॒रोको॒ नाच्छा॒ सद᳚नं जान॒ती गा᳚त् ।
अध᳚ स्मा नो मघवञ्चर्कृ॒तादिन्मा नो᳚ म॒घेव᳚ निष्ष॒पी परा᳚ दाः ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । यत् । स्या । नीथा᳚ । अद᳚र्शि । दस्योः᳚ । ओकः᳚ । न । अच्छ᳚ । सद᳚नम् । जा॒न॒ती । गा॒त् ।
अध᳚ । स्म॒ । नः॒ । म॒घ॒॑व॒न् । च॒र्कृ॒तात् । इत् । मा । नः॒ । म॒घा॑इ᳚व । नि॒ष्ष॒पी । परा᳚ । दाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदा नीथा नयनहेतुभूता स्या सा पदवी प्रत्यदर्शि अस्माभिर्दृष्टाभूत् । सा च पदवी दस्योरुपक्षपयितुः कुयवस्यासुरस्य सदनं गृहमच्छाभिमुख्येन गात् । गता प्राप्ता । तत्र दृष्टांतः । जानती स्वकीयं वत्समभिजानती गौरेकोन निवासस्थानं स्वकीयं गोष्ठं यथा ऋजु प्राप्नोति । तद्वन्नार्गोऽप्यसुरगृहं प्राप्त इत्यर्थः । अध स्म अथानंतरमेव हे मघवन्धनवन्निंद्र चर्कृतात्पुनःपुनस्तेनासुरेण कृतादुपद्रवान्नोऽस्मान्रक्षेति शेषः । इदित्यवधारणे । अस्मान्रक्षैव नोऽस्मान्मा परा दाः । मा परित्याक्षीः । अस्माभिर्ज्ञातेन मार्गेण गत्वाऽस्मदुपद्रवकारिणमसुरं जहीति तात्पर्यार्थः । तत्र व्यतिरेके दृष्टांतोऽभिधीयते । मघेव निप्षपी । यथा विनिर्गतसपो विनिर्गतशेपो यथेष्टचारी दासीपतिर्मघेव यथा धनान्यस्थाने परित्यजनि तथास्मान्मा परित्याक्षीरित्यर्थः । अत्र निरुक्तम् । निप्षपी स्त्रीकामो भवति विनिर्गतपसाः । सपः सपतेः स्पृशतिकर्मणः । मा नो मघेव निप्षपी परा दाः स यथा धनानि विभजति मा नस्त्व तथा परा दाः (नि ५-१६) इति । नीथा । णीञ् प्रापणे । हनिकुषिनीरमिकाशिभ्यः क्थन्निति करणे क्थन्प्रत्ययः । गात् । एतेर्लुङी णोगा । लुङीति गादेशः । गातिस्थेति सिचो लुक् । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । चर्कृतात् । करोतेर्यङ् लुगंतान्निप्शेति क्तप्रत्ययः मघाऽइव । शेश्छंदसीति शेर्लोपः । निप्षपी । षप समनाये । सपति समवैति योन्या संगच्छत इति सपः शेपः । पचाद्यच् । निर्गतो नित्योद्धृतः सपः शेपो यस्य स स्त्रीव्यसनी निष्षपः । वर्णव्यापत्त्या ईकारः । दाः । डुदाञ् दाने । लुङि गातिस्थेति सिचो लुक् । न माङ्योग इत्यडभावः ॥ ५ ॥

1.104.6
स त्वं न᳚ इन्द्र॒ सूर्ये॒ सो अ॒प्स्व᳚नागा॒स्त्व आ भ᳚ज जीवशं॒से ।
मान्त᳚रां॒ भुज॒मा री᳚रिषो न॒ः श्रद्धि᳚तं ते मह॒त इ᳚न्द्रि॒याय᳚ ॥
▶ पदपाठः (Word-by-word)
सः । त्वम् । नः॒ । इ॒न्द्र॒ । सूर्ये᳚ । सः । अ॒प्॑सु । अ॒ना॒गाः॒॑त्वे । आ । भ॒ज॒ । जी॒व॒॑शं॒से ।
मा । अन्त᳚राम् । भुज᳚म् । आ । रि॒रि॒षः॒ । नः॒ । श्रद्धि᳚तम् । ते॒ । म॒ह॒ते । इ॒न्द्रि॒याय᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र स त्वं नोऽस्मान्सूर्ये सर्वस्य पेरक आदित्य आ भज । आभाजय । आभिमुख्येन भक्तान्संभक्तान्कुरु । तथा स त्वमप्स्वब्देवतास्वस्मानाभाजय । अपि च जीवशंसे जीवैः प्राणिभिः शंसनीये कामयितव्येऽनागास्त्वेऽपापत्वे पापराहित्येऽस्मानाभाजय । अपि च नोऽस्माकमंतरां गर्भरूपेणांतर्वर्तमानां भुजं पालयित्रीं प्रजामा समंतान्मा रीरिषः । मा हिंसीः । ते तव महते प्रभूतायेंद्रियाय बलाय श्रद्धितम् । अस्माभिः श्रद्धानं कृतम् । त्वदीयं बलं बहुमानपूर्वकं स्तुम इत्यर्थः । तस्मात्तादृशबलयुक्तस्त्वं मा रीरिष इति पूर्वेण संबंधः ॥ अनागास्त्वे न विद्यत आगः पापं यस्य सोऽनागः । तस्य भावस्तत्त्वम् । छांदस उपधादीर्घः । जीवशंसे । शन्सु स्तुतौ । कर्मणि घञ् । थाथादिनोत्तरपदांतोदात्तत्वम् । भुजम् । भुनक्ति पालयतीति भुक् प्रजा । क्विप् । रीरिषः । रिष हिंसायाम् । स्वार्थे ण्यंतादस्माल्लुङि चङि णिलोप उपधाह्रस्वत्वादीनि । छांदसं पदकालीनमभ्यासह्रस्वत्वम् । श्रद्धितम् । श्रच्छब्दस्य ऊर्यादित्वेन (पा १-४-६१) गतित्वाद्गतिरनंतर इति पूर्वपदप्रकृतिस्वरत्वं ॥ ६ ॥

1.104.7 समानपद
अधा᳚ मन्ये॒ श्रत्ते᳚ अस्मा अधायि॒ वृषा᳚ चोदस्व मह॒ते धना᳚य ।
मा नो॒ अकृ᳚ते पुरुहूत॒ योना॒विन्द्र॒ क्षुध्य᳚द्भ्यो॒ वय᳚ आसु॒तिं दा᳚ः ॥
▶ पदपाठः (Word-by-word)
अध᳚ । म॒न्ये॒ । श्रत् । ते॒ । अ॒स्मै॒ । अ॒धा॒यि॒ । वृषा᳚ । चो॒द॒स्व॒ । म॒ह॒ते । धना᳚य ।
मा । नः॒ । अकृ᳚ते । पु॒रु॒॑हू॒त॒ । योनौ᳚ । इन्द्र᳚ । क्षुध्य᳚त्॑भ्यः । वयः᳚ । आ॒॑सु॒तिम् । दाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र अधाथानंतरं मन्ये । त्वां मनसा जानामि । ते तवास्मै बलाय श्रदधायि । अस्माभिः श्रद्धा कृता । त्वदीयबलविषयमादरातिशयेन स्तोत्रं कृतमित्यर्थः । वृषा कामानां वर्षिता स त्वं महते प्रौढाय धनाय चोदस्व । चोदय । अस्मान्प्रेरय । हे पुरुहूत । पुरुभिर्बहुभिर्यजमानैराहूतेंद्र । अकृतेऽनिष्पादिते धनशून्ये योनौ । गृहनामैतत् । गृहे नोऽस्मान्मा धाः । निधेहि । धनधान्यपूर्णे गृहेऽस्मान्वासयेत्यर्थः । अपि च हे इंद्र क्षुध्यध्भो बुभुक्षितेभ्योऽन्येभ्योऽपि स्तोतृभ्यो वयोऽन्न मासुतिं पेयं क्षीरादिकं च दाः । देहि ॥ अधायि । दधातेः कर्मणि लुङि च्लेश्चिण् । आतो युक् चिण्कृतोरिति युक् । क्षुध्यद्भ्यः । क्षुधबुभुक्षायाम् । दिवादित्वात् श्यन् । नित्त्वादाद्युदात्तत्वं ॥ ७ ॥

1.104.8
मा नो᳚ वधीरिन्द्र॒ मा परा᳚ दा॒ मा नः᳚ प्रि॒या भोज᳚नानि॒ प्र मो᳚षीः ।
आ॒ण्डा मा नो᳚ मघवञ्छक्र॒ निर्भे॒न्मा न॒ः पात्रा᳚ भेत्स॒हजा᳚नुषाणि ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । व॒धीः॒ । इ॒न्द्र॒ । मा । परा᳚ । दाः॒ । मा । नः॒ । प्रि॒या । भोज᳚नानि । प्र । मो॒षीः॒ ।
आ॒ण्डा । मा । नः॒ । म॒घ॒॑व॒न् । श॒क्र॒ । निः । भे॒त् । मा । नः॒ । पात्रा᳚ । भे॒त् । स॒ह॑जा᳚नुषाणि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र नोऽस्मान्मा वधीः । मा हिंसीः । सर्वदा रक्षेत्यर्थः । अपि च मा परा दाः । मा परित्याक्षीः । परादानं परित्यागः । अस्मत्कृतां पूजां सर्वदा गृहाणेत्यर्थः । अपि च नोऽस्माकं प्रिया प्रियाणीप्सितानि भोजनान्युपभोग्यानि धनानि मा प्रमोषीः । मापहार्षीः । अस्मास्वेव धनानि यथा स्युस्तथा कुर्वित्यर्थः । तथा हे मघवन् धनवन् शक्र सर्वकार्यशक्तेंद्र नोऽस्माकमांडांडसंबंधीनि गर्भरूपेण निषिक्तान्यपत्यानि मा भेत् । मा भिनः । गर्भरूपेणावस्थितानत्मत्पुत्रान्रक्षेत्यर्थः मा च नः पात्रा । पतंति गच्छंति गमनसमर्थानि यानि तान्यपश्यानि पात्राणि । तानि च्च मा भेत् । मा भिदः । सहजानुषाणि । जानुभ्यां यानि भूमिं सनंति । गच्छंतीत्यर्थः । तानि जानुषाणि । तैः सहितानि मा विनीनशः ॥ वधीः । हंतेर्माङि लुङि चेति वधादेशः । स चादंतः । सिच् । अतो लोप इत्यकारलोपः । तस्य स्थानिवद्भावादतो हलादेरिति वृद्ध्यभावः । इट ईटीति सिचो लोपः । मोषीः । मुषस्तेये । लुङि । सिच इट् । नेटेति वृद्धिप्रतिषेधः । भेत् । भिदिर् विदारणे । लङि सिपि बहुलं छंदसीति विकरणस्य लुक् । लघूपधगुणः । हल्ङ्याब्ब्य इति सिचो लोपः ॥ ८ ॥

1.104.9
अ॒र्वाङेहि॒ सोम᳚कामं त्वाहुर॒यं सु॒तस्तस्य᳚ पिबा॒ मदा᳚य ।
उ॒रु॒व्यचा᳚ ज॒ठर॒ आ वृ᳚षस्व पि॒तेव᳚ नः शृणुहि हू॒यमा᳚नः ॥
▶ पदपाठः (Word-by-word)
अ॒र्वाङ् । आ । इ॒हि॒ । सोम᳚॑कामम् । त्वा॒ । आ॒हुः॒ । अ॒यम् । सु॒तः । तस्य᳚ । पि॒ब॒ । मदा᳚य ।
उ॒रु॒॑व्यचाः᳚ । ज॒ठरे᳚ । आ । वृ॒ष॒स्व॒ । पि॒ता॑इ᳚व । नः॒ । शृ॒णु॒हि॒ । हू॒यमा᳚नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

माध्यंदिने सवनेऽर्वाङीहीत्येषा पोतुः प्रस्थितयाज्या । सूत्रितं च अर्वाङीहि सोमकामं त्वाहुस्तवायं सोमस्त्वमेह्यर्वाङ् । अ ५-५ । इति ॥

हे इंद्र त्वमर्वाङ् अस्मदभिमुखः सन् एहि । आगच्छ । किं कारणमिति चेत् यस्मात्त्वां सोमकामं सोमविषयाभिलाषमाहुः पुराविदः कथयंति । अयमस्मदीयः सोमः सुतः । ऋत्विग्भिरभिषुतः । अत आगच्छेत्यर्थः । आगत्य च मदायहर्षार्थं तस्य तमस्मदीयमभिषुतं सोमं पिब । एतदेव स्पष्टीक्रियते उरुव्यचा उरु विस्तीर्ण व्यचो व्यापनं यस्य तादृशो महावयवो भूत्वा जठर आत्मीय उदर आ वृषस्व । सोममासिंच । अ समंतात्पूरयेत्यर्थः । एवं भूतस्त्वं हूयमानः वाक्यानि शृणुहि । शृणु ॥ सोमकामम् । सोमविषयः कामोऽभिलाषो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । आहुः । ब्रुवः पंचानामादित आहो ब्रुवः (पा ३-४-८४) इति झेरुसादेशो धातोराहादेशश्च । तस्य । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । मदाय । मदी हर्षे । मदोऽनुपसर्ग इति भावेऽप् । उरुव्यचाः । वृच व्याजीकरणे । औणादिकोऽसिप्रत्ययः । व्यचेः कुटादित्वमनसीति वचनात् । का १-२-१-१ । ङित्त्वाभावेन संप्रसारणाभावः । परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । यद्वा । उरु विचति व्याप्नोतीत्युरुव्यचाः । कृदुत्तरपदप्रकृतिस्वरत्वम् । वृषस्व । वृष सेचने । व्यत्ययेनात्मनेपदशप्रत्ययौ । शृणुहि । उतश्च प्रत्ययाच्छंदसि वावचनमिति हेर्लुगभावः ॥ ९ ॥