प्रथमं मण्डलम् - सूक्तम् 132

6 ऋचः

ऋषिः: परुच्छेपो दैवोदासिः देवता: इंद्रः छन्दः: अत्यष्टिः

सूक्तम् 1.132 - सम्पूर्णम्

1 / 6
ऋक्: 1.132.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
1.132.1
त्वया᳚ व॒यं म᳚घव॒न्पूर्व्ये॒ धन॒ इन्द्र᳚त्वोताः सासह्याम पृतन्य॒तो व᳚नु॒याम᳚ वनुष्य॒तः ।
नेदि᳚ष्ठे अ॒स्मिन्नह॒न्यधि᳚ वोचा॒ नु सु᳚न्व॒ते ।
अ॒स्मिन्य॒ज्ञे वि च᳚येमा॒ भरे᳚ कृ॒तं वा᳚ज॒यन्तो॒ भरे᳚ कृ॒तम् ॥
▶ पदपाठः (Word-by-word)
त्वया᳚ । व॒यम् । म॒घ॒॑व॒न् । पूर्व्ये᳚ । धने᳚ । इन्द्र᳚त्वा॑ऊताः । स॒स॒ह्या॒म॒ । पृ॒त॒न्य॒तः । व॒नु॒याम᳚ । व॒नु॒ष्य॒तः ।
नेदि᳚ष्ठे । अ॒स्मिन् । अह᳚नि । अधि᳚ । वो॒च॒ । नु । सु॒न्व॒ते ।
अ॒स्मिन् । य॒ज्ञे । वि । च॒ये॒म॒ । भरे᳚ । कृ॒तम् । वा॒ज॒॑यन्तः᳚ । भरे᳚ । कृ॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमघवन् मघःसौख्यंतद्वन्निन्द्र त्वया साधनेनयुक्तावयं अतएवेन्द्रत्वोता अतिप्रबलेनेन्द्रेण त्वयार- क्षिताःसन्तः प्रत्ययोत्तरपदयोश्चेतित्वादेशः छान्दसमात्वं पृतन्यतः पृतनामान्मनइच्छतः प्रबलसेना- युक्तान् शत्रून् ससह्याम अभिभवेम तथा वनुष्यतः अस्मत्प्रहारायागच्छतः शत्रून्वनुयाम तेषामागम- नात्पूर्वमेववयंसंभजेम किंच पूर्व्येधनेऽस्मिन्यज्ञे नेदिष्ठे अत्यन्तसंनिहिते अस्मिन्नहनिअभिषवयुक्ते अद्यतनेहनिसुन्वते यजमानाय तदर्थं अधिवोचतं हविः प्रदंयजमानंयज्ञंवा नुक्षिप्रं अधिकंब्रूहि लोटि- व्यत्ययेनाङ् वचउम् किंच हेइन्द्र वयं यजमानाः भरे संग्रामे कृतं जयस्यकर्तारंत्वामुद्दिश्य तज्जयार्थं वाजयन्तः हविर्लक्षणान्नमुपाचरन्तः विचयेम स्तोत्रादिकं हविरादिकंवा विचिनुयाम चिनोतेर्व्यत्य- येनशप् पुनः कीदृशंत्वां भरेदेवानां संग्रामे असुरजये देवानां सम्यग् भरणेवा कृतंकर्तारं भरइतिसं- ग्रामनाम भरतेर्वाहरतेर्वेतियास्कः ॥ १ ॥

1.132.2
स्व॒र्जे॒षे भर᳚ आ॒प्रस्य॒ वक्म᳚न्युष॒र्बुध॒ः स्वस्मि॒न्नञ्ज᳚सि क्रा॒णस्य॒ स्वस्मि॒न्नञ्ज᳚सि ।
अह॒न्निन्द्रो॒ यथा᳚ वि॒दे शी॒र्ष्णाशी᳚र्ष्णोप॒वाच्य᳚ः ।
अ॒स्म॒त्रा ते᳚ स॒ध्र्य᳚क्सन्तु रा॒तयो᳚ भ॒द्रा भ॒द्रस्य᳚ रा॒तयः᳚ ॥
▶ पदपाठः (Word-by-word)
स्वः॒॑जे॒षे । भरे᳚ । आ॒प्रस्य᳚ । वक्म᳚नि । उ॒षः॒॑बुधः᳚ । स्वस्मि᳚न् । अञ्ज᳚सि । क्रा॒णस्य᳚ । स्वस्मि᳚न् । अञ्ज᳚सि ।
अह᳚न् । इन्द्रः᳚ । यथा᳚ । वि॒दे । शी॒र्ष्णा॑शी᳚र्ष्णा । उ॒प॒॑वाच्यः᳚ ।
अ॒स्म॒॑त्रा । ते॒ । स॒ध्र्य᳚क् । स॒न्तु॒ । रा॒तयः᳚ । भ॒द्राः । भ॒द्रस्य᳚ । रा॒तयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रः स्वर्जेषेस्वर्गगमनसाधने भरे संग्रामे युद्धे आभिमुख्येनहतस्यस्वर्गः द्वाविमौपुरुषौलो- केसूर्यमण्डलभेदिनावित्यदिस्मृतिषुप्रसिद्धः आप्रस्य आपनशीलस्य शत्रुवधाय इतस्ततोव्याप्तस्य औ- णादिकोरः शूरस्य वक्मनि मार्गभूते स्वस्मिन् स्वभूते अञ्चसि अभिव्यक्तिमति कपटादिरहिते पुनः सएवविशेष्यते स्वस्मिन्नंजसि स्वकीये अञ्चसि मुखे महतिसंग्रामे यद्वा स्वस्मिन्नञ्चसि शत्रौ स्वयमेव अप्रच्छन्नत्वेन आगतेसति अहन् शत्रून्हिनस्ति कस्यसंग्रामइतितदुच्यते—आप्रस्य आपनशीलस्य आसमन्तादिन्द्रस्य प्रीणयितुर्वा उषर्बुधः उषःकाले अनुष्ठानाय प्रबुध्यमानस्य क्राणस्ययागंकुर्वाणस्य करोतेःशतरि छान्दसःशपोलुक् अस्ययजमानस्य शत्रूनहन् हिनस्ति अतःकारणात् अयमिन्द्रःशीर्ष्णा शीर्ष्णोपवाच्यः सर्वेषांशिरसाप्रणम्यः स्तुत्यः शीर्षंश्छन्दसीतिउदात्तनिवृत्तिस्वरेणविभक्तेरुदात्तत्वं नित्यवीप्सयोरितिद्विर्भावः तत्रदृष्टान्तः—यथाविदे सर्वज्ञाय शिरसाप्रणामादिक्रियतेस्तूयतेच तथै- नमित्यर्थः यद्वा यथाविदे येनप्रकारेणहन्तव्यंशत्रुंजानासि तंतंप्रहंसि वेत्तेर्व्यत्ययेनात्मनेपदं पुरुषव्य- त्ययः लोपस्तआत्मनेपदेष्वितितलोपः अथवा यथाविदे यंयंविन्द्सेलभसेशत्रुं तंतंमारयसि अतः कारणात्स्तुत्यइत्यर्थः अस्मिन्पक्षे छान्दसोविकरणस्यलुक् पूर्ववत्तलोपः किंच हेइन्द्र तेरातयः तवसं- बन्धीनिधनानि दानानि अस्मत्रा अस्मस्वेव सध्र्यक् सह एकोद्योगेनसन्तु भवन्तु सहपूर्वादञ्चतेरृत्वि- गित्यादिनाक्विन् सहस्यसध्रिरितिसध्र्यादेशः अद्रिसध्र्योरन्तोदात्तनिपातनंकृत्स्वरनिवृत्त्यर्थमिति सचान्तोदात्तः उदात्तस्वरितयोर्यणइतिस्वरितः किंच भद्रस्यस्तुत्यस्य तवरातयः अस्मासुदत्तानि दा- नानि भद्राअतिस्थिराणिसन्तु ॥ २ ॥

1.132.3
तत्तु प्रयः᳚ प्र॒त्नथा᳚ ते शुशुक्व॒नं यस्मि᳚न्य॒ज्ञे वार॒मकृ᳚ण्वत॒ क्षय᳚मृ॒तस्य॒ वार᳚सि॒ क्षय᳚म् ।
वि तद्वो᳚चे॒रध᳚ द्वि॒तान्तः प᳚श्यन्ति र॒श्मिभि᳚ः ।
स घा᳚ विदे॒ अन्विन्द्रो᳚ ग॒वेष᳚णो बन्धु॒क्षिद्भ्यो᳚ ग॒वेष᳚णः ॥
▶ पदपाठः (Word-by-word)
तत् । तु । प्रयः᳚ । प्र॒त्न॑था᳚ । ते॒ । शु॒शु॒क्व॒नम् । यस्मि᳚न् । य॒ज्ञे । वार᳚म् । अकृ᳚ण्वत । क्षय᳚म् । ऋ॒तस्य᳚ । वाः । अ॒सि॒ । क्षय᳚म् ।
वि । तत् । वो॒चेः॒ । अध᳚ । द्वि॒ता । अ॒न्तरिति᳚ । प॒श्य॒न्ति॒ । र॒श्मि॑भिः᳚ ।
सः । घ॒ । वि॒दे॒ । अनु᳚ । इन्द्रः᳚ । गो॒॑एष᳚णः । ब॒न्धु॒क्षित्॑भ्यः᳚ । गो॒॑एष᳚णः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र तत्तुखलु प्रसिद्धं प्रयः हविर्लक्षणमन्नं शुशुक्वनं आज्यादिसंयोगेनभृशंदीप्तं शुचेर्दीप्तिकर्मण- एतद्रूपं तेतवस्वभूतं प्रत्नथा पुरातनंयथा तेतवस्वंभवति तथाद्यतनमपि सर्वदात्वामेवयजन्तइतिभा- वः प्रत्नपूर्वविश्वेत्यादिनाइवार्थेथाल् लित्स्वरः कीदृशंतदितिउच्यते यज्ञेयागे यस्मिन्हविषि दातव्ये- सतिवारंवरणीयं क्षयंस्थानंवेदिलक्षणं अकृण्वत कुर्वन्ति ऋत्विजः कस्तवविशेषइतिचेदुच्यते—ऋत- स्यसत्यफलस्य यज्ञस्यवारसि क्षयं निवासस्थानं संभक्तोऽसि यद्वा ऋतमित्युदकनाम तस्यक्षयं स्था- नंप्राप्तोसि वृष्टिप्रदोसीन्यर्थः अथवाऋतस्यादित्यस्य क्षयं स्थानंद्युलोकाख्यं वारसि यजमानं गमयि- तासि ततादृशंवक्ष्यमाणंकर्मविवोचेर्विब्रूमहे अध अतःकारणात्द्वितान्तः द्वित्वोपेतयोर्द्यावापृथिव्यो- र्मध्ये अन्तरिक्षे रश्मिभिरादित्यकिरणैः पश्यन्ति मेघंनिर्भिद्य रश्मिद्वारप्रवर्षणरूपंकर्म सर्वेजनाःप्र- त्यक्षतःपश्यन्ति अस्मद्दत्तंहविरादित्यंप्रापयित्वा तद्रश्मिद्वारावृष्टिंजनयसीत्येतत्सर्वैर्दृश्यतइत्यर्थः इ- दानींपरोक्षतयास्तौति सघ सखल्विन्द्रः गवेषणः उदकस्यान्वेषणशीलः तथबन्धुक्षिद्भ्यः हविः प्रदा- नादिनाबन्धुभावंप्राप्तवद्भ्योयजमानेभ्यः गवेषणः गवांप्रसिद्धानांएषणकर्ता इषेर्बाहुलकात्कर्तरिल्युट् यद्वा गवेषमार्गणे पूर्ववल्ल्युट् यजमानफलस्यमृगयितेत्यर्थः अनु उक्तक्रमेणैवकर्तासन् विदेविन्दते उदकप्राप्तिप्रकाशं जानाति ॥ ३ ॥

1.132.4
नू इ॒त्था ते᳚ पू॒र्वथा᳚ च प्र॒वाच्यं॒ यदङ्गि᳚रो॒भ्यो॑वृ᳚णो॒रप᳚ व्र॒जमिन्द्र॒ शिक्ष॒न्नप᳚ व्र॒जम् ।
ऐभ्य᳚ः समा॒न्या दि॒शास्मभ्यं᳚ जेषि॒ योत्सि᳚ च ।
सु॒न्वद्भ्यो᳚ रन्धया॒ कं चि᳚दव्र॒तं हृ᳚णा॒यन्तं᳚ चिदव्र॒तम् ॥
▶ पदपाठः (Word-by-word)
नु । इ॒त्था । ते॒ । पू॒र्व॑था᳚ । च॒ । प्र॒॑वाच्य᳚म् । यत् । अङ्गि᳚रः॑भ्यः । अवृ᳚णोः । अप᳚ । व्र॒जम् । इन्द्र᳚ । शिक्ष᳚न् । अप᳚ । व्र॒जम् ।
आ । ए॒भ्यः॒ । स॒मा॒न्या । दि॒शा । अ॒स्मभ्य᳚म् । जे॒षि॒ । योत्सि᳚ । च॒ ।
सु॒न्वत्॑भ्यः᳚ । र॒न्ध॒य॒ । कम् । चि॒त् । अ॒व्र॒तम् । हृ॒णा॒यन्त᳚म् । चि॒त् । अ॒व्र॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र तेतवसंबन्धिकर्म इत्थाइत्थंउक्तप्रकारं वक्ष्यमाणरूपंवा पूर्वथापूर्वमिव पूर्वंयथानुक्षिप्रं प्र- वाच्यंसर्वैःस्तोतव्यंतद्वदिदानीतंनमपिस्तुत्यं नूइत्थेत्यत्रईषाअक्षादित्वात्प्रकृतिभावः कीदृशंतदितित- दुच्यते—यत् त्वमंगिरोभ्यः एतद्गोत्रोत्पन्नेभ्योमहर्षिभ्यः तेषामर्थाय व्रजं अन्तरिक्षेगच्छन्तंमेघंअपा- वृणोः अपवृतवानसि मेघमुद्घाट्यवृष्टिमुत्पादितवानसि व्रजइतिमेघनाम व्रजः वराहइतितन्नामसुपा- ठात् किंच हेइन्द्र व्रजंगवांसमूहं अप अयष्टृभ्योऽपहृत्यतेभ्यएवांगिरोभ्यः शिक्षन् वितरन् रक्षितवान- सि यद्वा पणिभिरपहृतं बिलेस्थितंगवांव्रजमपहर्तुमपावृणोः अपवृतद्वारमकरोः किंच हेइन्द्र एभ्यउ- क्तेभ्यऋषिभ्यः समान्यादिशासमानयारीत्यातेभ्योयथाआआनीयददासि तद्वत् अस्मभ्यमपिजेषिध- नंसंग्रामंवाजय तदर्थंयोत्सियुद्भ्यस्वच छान्दसोविकरणस्यलुक् व्यत्ययेनपरस्मैपदम् किंच त्वंसुन्व- द्भ्यः त्वदर्थमभिषवंकुर्वद्भ्यो‍ऽस्मभ्यं कंचिदव्रतं सर्वमपिअयज्वानं यागविरोधिनंरन्धयबाधय मदधी- नंकुर्वित्यर्थः नकेवलमयज्वानं किंतु हृणायन्तंचिदव्रतं चिदित्यवकुत्सिते अस्मासुरोषंकुर्वन्तं तमेवा- यष्टारं स्वयंरोषवन्तंवा यद्वा हृणायन्तं चित् रोषंकुर्वन्तमपि अव्रतंअकर्माणं पुनर्हननासमर्थंकुर्वन् र- न्धय हृणीङ् रोषे कण्ड्वादिः व्यत्ययेनाकारः ॥ ४ ॥

1.132.5
सं यज्जना॒न्क्रतु᳚भि॒ः शूर᳚ ई॒क्षय॒द्धने᳚ हि॒ते त᳚रुषन्त श्रव॒स्यव॒ः प्र य᳚क्षन्त श्रव॒स्यवः᳚ ।
तस्मा॒ आयु᳚ः प्र॒जाव॒दिद्बाधे᳚ अर्च॒न्त्योज᳚सा ।
इन्द्र᳚ ओ॒क्यं᳚ दिधिषन्त धी॒तयो᳚ दे॒वा{4} अच्छा॒ न धी॒तयः᳚ ॥
▶ पदपाठः (Word-by-word)
सम् । यत् । जना᳚न् । क्रतु᳚॑भिः । शूरः᳚ । ई॒क्षय᳚त् । धने᳚ । हि॒ते । त॒रु॒ष॒न्त॒ । श्र॒व॒स्यवः᳚ । प्र । य॒क्ष॒न्त॒ । श्र॒व॒स्यवः᳚ ।
तस्मै᳚ । आयुः᳚ । प्र॒जा॑व᳚त् । इत् । बाधे᳚ । अ॒र्च॒न्ति॒ । ओज᳚सा ।
इन्द्र᳚ । ओ॒क्य᳚म् । दि॒धि॒ष॒न्त॒ । धी॒तयः᳚ । दे॒वान् । अच्छ᳚ । न । धी॒तयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत् यइन्द्रः शूरः विक्रान्तःसन् जनान्सर्वान्प्राणिनः क्रतुभिः प्रज्ञाभिः समीक्षयत् सम्यगीक्षयति तत्तद्विषयान् अन्तर्यामिरूपेण सर्वेषांबुद्धिषुस्थित्वा तैर्विषयानुल्लेखयतीत्यर्थः यद्वा क्रतुभिः कर्मभिः सुकृतदुष्क्रुतरूपैर्निमि रतैस्तत्तत्फलैर्योजयति एवंप्रेरयतिसति श्रवस्यवोन्नमिच्छन्तोयजमानाः धने- गवादिरूपेहिते अभिमतेसति यद्वा हिते धने अभिप्रेतेसति तरुषन्ताहिंसन्तिशत्रून् तरुष्यतिर्वधकर्मा छान्दसेलुङिव्यत्ययेनच्लेरङ् तरतेर्वालङिउकारशिप् शपस्त्रयोविकरणाः तरन्तीत्यर्थः अतः कारणात् श्रवस्यवोन्नंहविर्लक्षणं इन्द्रायात्मनेवा इच्छन्तःसन्तः प्रयक्षन्त प्रकर्षेणयजन्ते छान्दसेलुङिव्यत्ययेन- क्सः किंच तस्माइत् तस्मै प्रसिद्धायेन्द्रायैव आयुर्हविर्लक्षणमन्नं प्रजावत् पुत्रादिसहितंभवति तैःस- हितैर्दीयतेइत्यर्थः किंच यजमानाः ओजसा स्वकीयेनबलेनयुक्ताः बाधे शत्रूणांबाधनेनिमित्तभूतेसति बाधितुंवा कृत्यार्थेतवैकेन्केन्यत्वनइतिकेन्प्रत्ययः अर्चन्ति पूजयन्ति यद्वा तस्माइत् यजमानायैव बा- धेबलेनिमित्तभूतेसति बाधइतिबलनाम वाधःतविषीतितन्नामसुपाठात् प्रजावत् पुत्राद्युपेतमायुः अन्नं लब्धुं ओजसा बलेनयुक्ताः अर्चन्ति इन्द्रंपूजयन्ति ऋत्विजइतिशेषः किंच धीतयः कर्मवन्तोयज- मानाः इन्द्रे इन्द्रसमीपे गंगायांघोषइतिवत् तत्सामीप्यंलक्ष्यते इन्द्रलोकेइत्यर्थः तत्रओक्यं ओकः नि- वासस्थानं स्वार्थेयत् दिधिषन्त धारयन्ति धिषशब्दे अत्रधारणार्थः जौहोत्यादिकःव्यत्ययेनान्तादेशः तएवपुनर्विशॆष्यन्ते धीतयः स्वर्गसाधनकर्मवन्तः सन्तोदेवाँअच्छान देवानाभिमुख्येनप्राप्तुमिवओ- क्यंदिधिषन्तेत्यन्वयः ॥ ५ ॥ अविवाक्येहनि मानसग्रहभक्षणानन्तरं नक्षत्रेषुदृश्यमानेषु अध्वर्युप्रमुखाःसर्वेयुवन्तमित्येतांज- पेयुः गार्हपत्येजुह्वतीतिखण्डेसूत्रितम्—युवन्तमिन्द्रापर्वतापुरोयुधेतिजपन्तइति ।

1.132.6
यु॒वं तमि᳚न्द्रापर्वता पुरो॒युधा॒ यो नः᳚ पृत॒न्यादप॒ तंत॒मिद्ध᳚तं॒ वज्रे᳚ण॒ तंत॒मिद्ध᳚तम् ।
दू॒रे च॒त्ताय᳚ च्छन्त्स॒द्गह᳚नं॒ यदिन᳚क्षत् ।
अ॒स्माकं॒ शत्रू॒न्परि᳚ शूर वि॒श्वतो᳚ द॒र्मा द᳚र्षीष्ट वि॒श्वतः᳚ ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । तम् । इ॒न्द्रा॒प॒र्व॒ता॒ । पु॒रः॒॑युधा᳚ । यः । नः॒ । पृ॒त॒न्यात् । अप᳚ । तम्॑त᳚म् । इत् । ह॒त॒म् । वज्रे᳚ण । तम्॑त᳚म् । इत् । ह॒त॒म् ।
दू॒रे । च॒त्ताय᳚ । छ॒न्त्स॒त् । गह᳚नम् । यत् । इन᳚क्षत् ।
अ॒स्माक᳚म् । शत्रू᳚न् । परि᳚ । शू॒र॒ । वि॒श्वतः᳚ । द॒र्मा । द॒र्षी॒ष्ट॒ । वि॒श्वतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्रापर्वता इन्द्रः प्रसिद्धः पर्वतः पर्ववान् मेघः तदभिमानीदेवः तौयुवां पुरोयुधा संग्रामेपुरतो- योद्धारौ नोऽस्माकं यःशत्रुः पृतन्यात् अस्मान्हन्तुं पृतनामात्मनइच्छति तंतमित् सर्वमपिशत्रुंअपहतं नाशयतं हन्तेर्लेट्यनुदात्तोपदेशेत्यनुनासिकलोपः केनसाधनेनेतितदुच्यते—तंतमित् सर्वमांप शत्रुं हन्तुं वज्रेणसाधनेनप्राप्नुतं ईदृक्सामर्थ्यमस्तीतिदर्शयति यत् योवज्रः लिङ्गव्यत्ययः दूरेचत्ताय अत्य- न्तदूरदेशेगतायचातयतेर्वानाशकर्मणः नष्टायादर्शनमापन्नायेत्यर्थः ग्रसितस्कभितेत्यादौनिपातनादि- डभावः तादृशंशत्रुंछन्त्सत् छन्दयति कामयतेहन्तुं छन्दतेः कान्तिकर्मणइदंरूपं किंच गहनं दुरगाहं स्थानं अतिकठिनं हृदयं शत्रुसमीपंवाइनक्षत् व्याप्नोति नक्षगतौ छान्दसइकारोपजनः इनक्षतिर्वाप्र- कृत्यन्तरं इदानीमिन्द्रएवस्तूयते हेशूर शौर्योपेतेन्द्र अस्माकं विरोधिनःशत्रून् विश्वतोविश्वान् सार्व- विभक्तिकस्तसिल् परि परितः विश्वतोविश्वैरुपायैर्दर्षीष्ट दारयसि किंच दर्मा शत्रूणांदारकः दारयते- रन्येभ्योऽपिदृश्यन्तइति मनिन् णिलोपेउदात्तनिवृत्तिस्वरेणमनिनउदात्तत्वम् ह्रस्वश्छान्दसः यद्वा दृभये घटादित्वान्मितांह्रस्वइतिह्रस्वत्वं तवपूर्वोक्तोवज्रः विश्वतःसर्वान् शत्रून्सर्वैरुपायैर्वा दर्षीष्ट दारयति यदा दर्मा शत्रूणांदारकः इन्द्रोदर्षीष्ट कात्स्न्र्येनदारयतिशत्रून् ॥ ६ ॥

उभेपुनामीतिसप्तर्चंसप्तमंसूक्तम् पारुच्छेपमैन्द्रं आद्यात्रिष्टुप् अभिव्लग्येत्याद्यास्तिस्रोनुष्टुभःपिशं- गभृष्टिमित्येषागायत्री अवर्महइत्येषाधृतिः वनोतिहीत्यनभिधानादत्यष्टिः अत्रानुक्रमणिका—उभेस- प्तादौत्रिष्टुप् त्रिस्रोऽनुष्टुभोगायत्रीधृतिरिति । अस्यसूक्तस्यविनियोगमाहशौनकः—उभेपुनामीतिपु- रारिपुघ्र्यस्तुप्रकीर्तिताः । ताजपन्प्रयतोनित्यमिष्टान्कामान्समश्रुते । ताजपन्हन्तिरक्षांसिसपत्नांश्च- निकृन्तति ।