ऐभ्य᳚ः समा॒न्या दि॒शास्मभ्यं᳚ जेषि॒ योत्सि᳚ च ।
सु॒न्वद्भ्यो᳚ रन्धया॒ कं चि᳚दव्र॒तं हृ᳚णा॒यन्तं᳚ चिदव्र॒तम् ॥
पदपाठः (Word-by-word)
आ । ए॒भ्यः॒ । स॒मा॒न्या । दि॒शा । अ॒स्मभ्य᳚म् । जे॒षि॒ । योत्सि᳚ । च॒ ।
सु॒न्वत्॑भ्यः᳚ । र॒न्ध॒य॒ । कम् । चि॒त् । अ॒व्र॒तम् । हृ॒णा॒यन्त᳚म् । चि॒त् । अ॒व्र॒तम् ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र तेतवसंबन्धिकर्म इत्थाइत्थंउक्तप्रकारं वक्ष्यमाणरूपंवा पूर्वथापूर्वमिव पूर्वंयथानुक्षिप्रं प्र- वाच्यंसर्वैःस्तोतव्यंतद्वदिदानीतंनमपिस्तुत्यं नूइत्थेत्यत्रईषाअक्षादित्वात्प्रकृतिभावः कीदृशंतदितित- दुच्यते—यत् त्वमंगिरोभ्यः एतद्गोत्रोत्पन्नेभ्योमहर्षिभ्यः तेषामर्थाय व्रजं अन्तरिक्षेगच्छन्तंमेघंअपा- वृणोः अपवृतवानसि मेघमुद्घाट्यवृष्टिमुत्पादितवानसि व्रजइतिमेघनाम व्रजः वराहइतितन्नामसुपा- ठात् किंच हेइन्द्र व्रजंगवांसमूहं अप अयष्टृभ्योऽपहृत्यतेभ्यएवांगिरोभ्यः शिक्षन् वितरन् रक्षितवान- सि यद्वा पणिभिरपहृतं बिलेस्थितंगवांव्रजमपहर्तुमपावृणोः अपवृतद्वारमकरोः किंच हेइन्द्र एभ्यउ- क्तेभ्यऋषिभ्यः समान्यादिशासमानयारीत्यातेभ्योयथाआआनीयददासि तद्वत् अस्मभ्यमपिजेषिध- नंसंग्रामंवाजय तदर्थंयोत्सियुद्भ्यस्वच छान्दसोविकरणस्यलुक् व्यत्ययेनपरस्मैपदम् किंच त्वंसुन्व- द्भ्यः त्वदर्थमभिषवंकुर्वद्भ्योऽस्मभ्यं कंचिदव्रतं सर्वमपिअयज्वानं यागविरोधिनंरन्धयबाधय मदधी- नंकुर्वित्यर्थः नकेवलमयज्वानं किंतु हृणायन्तंचिदव्रतं चिदित्यवकुत्सिते अस्मासुरोषंकुर्वन्तं तमेवा- यष्टारं स्वयंरोषवन्तंवा यद्वा हृणायन्तं चित् रोषंकुर्वन्तमपि अव्रतंअकर्माणं पुनर्हननासमर्थंकुर्वन् र- न्धय हृणीङ् रोषे कण्ड्वादिः व्यत्ययेनाकारः ॥ ४ ॥