प्रथमं मण्डलम् - सूक्तम् 73

10 ऋचः

ऋषिः: पराशरः शाक्त्यः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 1.73 - सम्पूर्णम्

1 / 10
ऋक्: 1.73.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
1.73.1 समानपद
र॒यिर्न यः पि᳚तृवि॒त्तो व᳚यो॒धाः सु॒प्रणी᳚तिश्चिकि॒तुषो॒ न शासु᳚ः ।
स्यो॒न॒शीरति᳚थि॒र्न प्री᳚णा॒नो होते᳚व॒ सद्म᳚ विध॒तो वि ता᳚रीत् ॥
▶ पदपाठः (Word-by-word)
र॒यिः । न । यः । पि॒तृ॒॑वि॒त्तः । व॒यः॒॑धाः । सु॒॑प्रनी᳚तिः । चि॒कि॒तुषः᳚ । न । शासुः᳚ ।
स्यो॒न॒॑शीः । अति᳚थिः । न । प्री॒णा॒नः । होता᳚॑इव । सद्म᳚ । वि॒ध॒तः । वि । ता॒री॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

रयिर्नेति दशर्चं नवमं सूक्तं पराशरस्यार्षं त्रैष्वुभमाग्नेयम् । अनुक्रांतं च । रयिर्नेति ॥ प्रातरनुवाकाश्चिनशस्त्रयोरुक्तो विनियोगः ॥

पितृवित्तः पितुः सकाशाल्लब्थो रयिर्धनमिव योऽग्निर्वयोधा अन्नस्य दाता । यथा पैतृकं धनं विश्रंभेण व्यवह्रियमाणं सदन्नप्रदं भवति तद्वदग्निरपि सर्वेषु यज्ञेषु विश्रंभेण व्यवहृतः सन् अन्नप्रदो भवतीत्यर्थः । चिकितुषो न विदुषो धर्मशास्त्राभिज्ञस्य शासुः । शासनमिव सुप्रणीतिः । सुखेन प्रणेतव्यः । यथा विद्वच्छासनं सर्वेष्वनुष्ठेयेषु तत्तत्संशयनिर्णयाय नीयते तद्वदग्निरपि सर्वेषु यज्ञेषु प्रणीयते । यश्च स्योनशीः सुखप्रदे गार्हपत्यायतनादौ शयानोऽतिथिर्न सुखासन उपवेशितोऽर्घपाद्यादिभिः सत्कृतोऽतिथिरिव प्रीणानो हविर्भिस्तर्पणीयः सोऽग्निर्विधतः परिचरतो यजमानस्य सद्म गृहं वि तारीत् । प्रवर्धयति ददाति वा । तत्र दृष्टांतः । होतेव । होता होमकर्ताध्वर्युस्तत्तत्कर्मकरणेन फलैर्यजमानस्य गृहं यथा वर्धयति तद्वत् ॥ पितृवित्तः । विद्लृ लाभे । कर्मणि निष्ठा । यस्य विभाषेतीट्प्रतिषेधः । विभाषा गमहनविदविशामिति क्वसावस्य धातोरिटो विकल्पितत्वात् तत्रापि विशिसाहचर्यात्तौदादिक एव विदिर्गृह्यत इत्युक्तम् । का ७-२-६८ । वित्तो भोगप्रत्यययोः (पा ८-२-५८) इति निष्ठानत्वाभावो निपातितः । वयोधाः । डुधाञ् धारणपोषणयोः । आतो मनिन्निति विच् । सुप्रणीतिः । प्रणीयत इति प्रणीतिः । कर्मणि क्तिन् । तादौ चेति गतेः प्रकृतिस्वरत्वम् । पुनः सुशब्देन समासे कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणात्कृदुत्तरपदप्रकृतिस्वरत्वम् । चिकितुषः । लिटः क्वसुः । षष्ठ्येकवचने वसोः संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वम् । शासुः । शासु अनुशिष्टौ । शृस्वृस्निहीत्यादिना विधीयमान उप्रत्ययो बहुलवचनादस्मादपि द्रष्टव्यः । तत्र निदित्यनुवृत्तेराद्युदात्तत्वम् । स्योनशीः । स्योनमिति सुखनाम । स्योने सुखकरे गार्हपत्यादिस्थाने शेत इति स्योनशीः । क्विप्चेति क्विप् । प्रीणानः । प्रीञ् तर्पणे । कर्मणि शानचि व्यत्ययेन श्ना । विधतः । विध विधाने । विधतिः परिचरणकर्मेति नैरुक्ताः । तुदादित्वाच्छप्रत्ययः । शतुरनुम इति विभक्तेरुदात्तत्वं ॥ १ ॥

1.73.2
दे॒वो न यः स᳚वि॒ता स॒त्यम᳚न्मा॒ क्रत्वा᳚ नि॒पाति᳚ वृ॒जना᳚नि॒ विश्वा᳚ ।
पु॒रु॒प्र॒श॒स्तो अ॒मति॒र्न स॒त्य आ॒त्मेव॒ शेवो᳚ दिधि॒षाय्यो᳚ भूत् ॥
▶ पदपाठः (Word-by-word)
दे॒वः । न । यः । स॒वि॒ता । स॒त्य॑म᳚न्मा । क्रत्वा᳚ । नि॒॑पाति᳚ । वृ॒जना᳚नि । विश्वा᳚ ।
पु॒रु॒॑प्र॒श॒स्तः । अ॒मतिः᳚ । न । स॒त्यः । आ॒त्मा॑इ᳚व । शेवः᳚ । दि॒धि॒षाय्यः᳚ । भू॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवो न सविता द्योतमानः सर्वस्य प्रेरकः सूर्य इव योऽग्निः सत्यमन्मा सत्यज्ञानो यथार्थदर्शी सोऽग्निः क्रत्वात्मीयेन कर्मणा विश्वा वृजनानि । विभक्ति । व्यत्ययः । सर्वेभ्यः संग्रामेभ्यो निपाति नितरां पालयति । वर्ज्यंते हिंस्यंतेऽस्मिन्निति वृजनम् । संग्रामः । अपि च पुरुप्रशस्तः पुरुभिर्यजमानैः स्तुतोऽग्निरमतिर्न । रूपनामैतत् । रूपमिव सत्यो बाधरहितः । रूप्यत इति रूपं स्वरूपम् । यथा पृथिव्यादेः स्वरूपमागमापायिषु विशेषेषु सत्स्वपि स्वयमैकरूप्येण नित्यं भवति तद्वदग्निरप्युच्चावचेषु सर्वेषु कर्मसु स्वयमेक एव व्याप्य वर्तते । सोऽग्निः शेवः सुखकरः । तत्र दृष्टांतः । आत्मेव ॥ परमप्रेमास्पदतया निरतिशयानंदस्वरूप आत्मा यथा सर्वान्सुखयति । एतस्यैवानंदस्यान्यानि भूतानि मात्रामुपजीवंति । एष ह्येवानंदं यातीति च श्रवणात् तद्वदग्निरपि स्वर्गादिफलहेतुतया सुखयति । एवं भूतोऽग्निर्दिधिषाय्यो भूत् । सर्वैर्यजमानैर्धारणीयो भवति । परित्यागे हि वीरहत्यालक्षणो दोषो भवति । तथा च तैत्तिरीयकम् । वीरहा वा एष देवानां योऽग्निमुद्वासयते । तै सं १-५-२-१ । इति ॥ सत्यमन्मा । मननं मन्म । मन ज्ञाने । अन्येभ्योऽपि दृश्यंत इति मनिन् । सत्यमवितथं मन्म यस्य । बहुव्रीहिस्वरः । वृजनानि । वृजी वर्जने । कृपृ वृजीत्यादिना क्युप्रत्ययः । पुरुप्रशस्तः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते प्रवृद्धादीनां च (पा ६-२-१४७) इत्युत्तर पदांतोदात्तत्वम् । स ह्याकृतिगण इत्युक्तम् । अमतः । अम गत्यादिषु । आमेरतिः । दिधिषाय्यः । दधातेर्दिधिषाय्यः (उ ३-९७) इति साय्यप्रत्ययांतो निपात्यते ॥ २ ॥

1.73.3
दे॒वो न यः पृ᳚थि॒वीं वि॒श्वधा᳚या उप॒क्षेति᳚ हि॒तमि᳚त्रो॒ न राजा᳚ ।
पु॒र॒ःसदः᳚ शर्म॒सदो॒ न वी॒रा अ᳚नव॒द्या पति᳚जुष्टेव॒ नारी᳚ ॥
▶ पदपाठः (Word-by-word)
दे॒वः । न । यः । पृ॒थि॒वीम् । वि॒श्व॑धा᳚याः । उ॒प॒॑क्षेति᳚ । हि॒त॑मि᳚त्रः᳚ । न । राजा᳚ ।
पु॒रः॒॑सदः᳚ । श॒र्म॒॑सदः᳚ । न । वी॒राः । अ॒न॒व॒द्या । पति᳚जुष्टा॑इव । नारी᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवो न द्योतमानः सूर्य इव योऽग्निर्विश्वधायाः सर्वस्य जगतो धर्ता । यथा सूर्यो वृष्ट्यादिप्रदानेन सर्वं जगद्धत्ते एवमग्निरपि यज्ञादिसाधनेन कृत्स्नस्य जगतो धारयिता । सोऽग्निः पृथिवीं पृथिव्यामुपक्षेति । सर्वेषां प्रियः सन्यज्ञगृहादौ निवसति । तत्र दृष्टांतः । हितमित्रो न राजा । हितान्यनुकूलानि मित्राणि यस्य तादृशो राजा यथा सुखेन निवसति तद्वत् । यथा सर्वजनमित्रो राजा एवमग्निरपि सर्वजनमित्र इत्यर्थः । न ह्यग्निं कश्चन द्विप्वे । यस्याग्नेः पुरः सदः पुरस्तात्सीदंत उपविशंतः पुरुषाः शर्मसदो न वीराः पितृगृहे वर्तमानाः पुत्रा इव वर्तंते । पिता पुत्रानिवाग्निः स्वस्य परिचारकान्रक्षतीति । भावः । सोऽयमग्निरतिशयेन शुद्धः कर्मयोग्यो भवति । तत्र दृष्टांतः । अनवद्यानिंदिता पतिजुष्टेव नारी स्वपतिना सेविता स्वीकृता योषिदिव । सा यथा पातिव्रत्येन शुद्धा सती सर्वकर्मयोग्या भवति एवमग्रिरपि ॥ विश्वधायाः । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं चेति वचनात्कारकपूर्वादपि दधातेर्वहिहाधाञ्भ्यश्छंदसीत्यसुन् । णिदित्यनुवृत्तेरातो युक् चिण्कृतोरिति युक् । मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वम् । उपक्षेति । क्षि निवासगत्योः । बहुलं छंदसीति विकरणस्य लुक् । अनवद्या । बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । पतिजुष्टेव । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । नारी । नृनरयोर्वृद्धिश्च (पा ४-१-७३) इति शार्ङ्गरवादिषु पाठात् ङीनंत आद्युदात्तः ॥ ३ ॥

1.73.4
तं त्वा॒ नरो॒ दम॒ आ नित्य᳚मि॒द्धमग्ने॒ सच᳚न्त क्षि॒तिषु᳚ ध्रु॒वासु᳚ ।
अधि᳚ द्यु॒म्नं नि द᳚धु॒र्भूर्य᳚स्मि॒न्भवा᳚ वि॒श्वायु᳚र्ध॒रुणो᳚ रयी॒णाम् ॥
▶ पदपाठः (Word-by-word)
तम् । त्वा॒ । नरः᳚ । दमे᳚ । आ । नित्य᳚म् । इ॒द्धम् । अ॒ग्ने॒ । सच᳚न्त । क्षि॒तिषु᳚ । ध्रु॒वासु᳚ ।
अधि᳚ । द्यु॒म्नम् । नि । द॒धुः॒ । भूरि᳚ । अ॒स्मि॒न् । भव᳚ । वि॒श्व॑आ᳚युः । ध॒रुणः᳚ । र॒यी॒णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने तं त्वा पूर्वोक्तगुणविशिष्टं त्वां नरो यज्ञस्य नेतारो यजमाना ध्रुवासु क्षितिषु निश्चलासु चलनरहितासु भूमिषु । निरुपद्रवेषु ग्रामेष्वित्यर्थः । दमे स्वकीये यज्ञगृहे नित्यमिद्धमनवरतं समिद्भिः प्रज्वलितं कृत्वा आ सचंत । आभिमुख्येन सेवंते । किंचास्मिन्नग्नौ द्युम्नं हविर्लक्षणमन्नं भूरि चरुपुरोडाशादिरूपेण बहुविधमधि नि दधुः । स्थापितवंतः । एवंगुणविशिष्टो योऽग्निः स त्वं विश्वायुरुक्तप्रकारेण सर्वान्नो भूत्वा रयीणां धनानां धरुणो धारयिता भव । अस्मभ्यं दातुं धनानि धारयेत्यर्थः ॥ सचंत । षच समवाये । छांदसो वर्तमाने लङ् । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । भव । द्वचोऽतस्तिङ इति संहितायां दीर्घः । धरुणः धारेर्णिलुक्चेत्युनप्रत्ययः ॥ ४ ॥

1.73.5
वि पृक्षो᳚ अग्ने म॒घवा᳚नो अश्यु॒र्वि सू॒रयो॒ दद᳚तो॒ विश्व॒मायु᳚ः ।
स॒नेम॒ वाजं᳚ समि॒थेष्व॒र्यो भा॒गं दे॒वेषु॒ श्रव᳚से॒ दधा᳚नाः ॥
▶ पदपाठः (Word-by-word)
वि । पृक्षः᳚ । अ॒ग्ने॒ । म॒घ॑वा᳚नः । अश्युः᳚ । वि । सू॒रयः᳚ । दद᳚तः । विश्व᳚म् । आयुः᳚ ।
स॒नेम᳚ । वाज᳚म् । स॒म्॑इ॒थेषु᳚ । अ॒र्यः । भा॒गम् । दे॒वेषु᳚ । श्रव᳚से । दधा᳚नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने मघवानो हविर्लक्षणेन धनेन युक्ता यजमानाः पृक्षोऽन्नानि व्यश्युः । व्याप्नुवंतु । त्वयानुगृहीताः सर्वाण्यन्नानि लभंताम् । ये च सूरये विद्वांसस्त्वां स्तुवंति । ददतो ये च तुभ्यं हवींषि ददशः । प्रयच्छंतो वर्तंते ते सर्वे विश्वमायुः सर्वं जीवितं व्यश्युः । व्याप्नुवंतु । वयं च समिथेषु संग्रामेष्टर्योऽरेः शत्रोः संबंधिनं वाजमन्नं सनेम । त्वदनुग्रहात्संभजेमहि । तदनंतरं देवेषु त्वत्प्रमुखेष्टिंद्रादिषु श्रवसे यशसे तदर्थं भागं हविर्भागं दधानाः स्थापयंतो भूयास्मेति शेषः ॥ अत्युः अकू व्याप्तौ । व्यत्ययेन परस्मैपदम् । बहुलं छंदसीति विकरणस्य लुक् । दशतः । नाभ्यस्ताच्छतुरिति नुमागमप्रतिषेधः । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । सनेम । वन षण संभक्तौ । व्यत्ययेन शः । अर्यः । अरिशब्दात्षष्ठ्येकवचने जसादिषु च्छंदसि वा वचनमिति घेर्ङितीति गुणाभावे यणादेशः । अरिशब्द अच इरितीप्रत्ययांतोऽंतोदात्तः । उदात्तयण इति विभक्तेरुदात्तत्वम् । भागम् । कर्षात्वत इत्यंतोदात्तत्वं ॥ ५ ॥

1.73.6
ऋ॒तस्य॒ हि धे॒नवो᳚ वावशा॒नाः स्मदू᳚ध्नीः पी॒पय᳚न्त॒ द्युभ᳚क्ताः ।
प॒रा॒वतः᳚ सुम॒तिं भिक्ष᳚माणा॒ वि सिन्ध᳚वः स॒मया᳚ सस्रु॒रद्रि᳚म् ॥
▶ पदपाठः (Word-by-word)
ऋ॒तस्य᳚ । हि । धे॒नवः᳚ । वा॒व॒शा॒नाः । स्मत्॑ऊ᳚ध्नीः । पी॒पय᳚न्त । द्यु॑भ᳚क्ताः ।
प॒रा॒॑वतः᳚ । सु॒॑म॒तिम् । भिक्ष᳚माणाः । वि । सिन्ध᳚वः । स॒मया᳚ । स॒स्रुः॒ । अद्रि᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतस्य हि ऋतं देवयजनदेशं प्राप्तमग्निमेव धेनवोऽग्निहोत्रादिहविषां दोग्ध्र्यो गावः पीपयंत । क्षीरादिलक्षणं गव्यमपापयन् । कीदृश्योगावः । वावशाना अग्निं पुनःपुनः कामयमानाः स्मदूध्शीः । स्मच्छब्दो नित्यशब्दसमानार्थः । नित्यमूधसा युक्ताः । सर्वदा पयसः प्रदात्र्य इत्यर्थः । द्युभक्ता दिवा प्रकाशेन संभक्ताः संश्लिष्टाः । तेजस्विन्य इत्यर्थः । अपि च सिंधवः स्यंदनशीला नद्यः सुमतिमस्याग्नेः शोभनामनुग्रहात्मिकां बुद्धिं भिक्षमाणा याचमानाः सत्योऽद्रिं समयाद्रे पर्वतस्य समीपे परावतो दूरदेशाद्वि सस्रुः । विशेषेण गच्छंति प्रवहंति । अग्नये दातव्यानां हविषां निष्पत्तये प्रवहंतीत्यर्थः ॥ ऋतस्य । क्रियाग्रहणं कर्वव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । वावशानाः । वश कांतौ । यङंताच्छानच् । न वशः (पा ६-१-२०) इति संप्रसारणप्रतिषेधः । बहुलं छंदसीति शपो लुक् । छंदस्युभयथेति शानच आर्धधातुकत्वादतोलोपयलोपौ । अत एव लसार्वधातुकानुदात्तत्वाभावे चित्स्वर एव शिष्यते । स्मदूध्नीः । स्मत् नित्यान्यूधांसि यासाम् । ऊधसोऽनङ् (पा ५-४-१३१) इत्यनङादेशः । समासांतः । संख्याव्ययादेर्ङीप् (पा ४-१-२६) इति ङीप् । भसंज्ञायामल्लोपोऽन इत्यलोपः । ङीपः पित्त्वादनुदात्तत्वे बहुव्रीहिस्वरः एव शिष्यते । पीपयंत । पा पाने । अस्माद्धेतुमति णिच् । शाछासाह्वेति युक् । ण्यंताल्लुङी च्लेश्चङादेशादि । चङ्यन्यतरस्यामिति चङः पूर्वस्योदात्तत्वम् । हि चेति निघातप्रतिषेधः । परावतः । परागतात् । दूरं हि परागतं भवति । अस्मिन्धात्वर्थे गम्यमान उपसर्गाच्छंदसि धात्वर्ते (पा ५-१-११८) इति वतिः ॥ ६ ॥

1.73.7
त्वे अ᳚ग्ने सुम॒तिं भिक्ष᳚माणा दि॒वि श्रवो᳚ दधिरे य॒ज्ञिया᳚सः ।
नक्ता᳚ च च॒क्रुरु॒षसा॒ विरू᳚पे कृ॒ष्णं च॒ वर्ण᳚मरु॒णं च॒ सं धु᳚ः ॥
▶ पदपाठः (Word-by-word)
त्वे इति᳚ । अ॒ग्ने॒ । सु॒॑म॒तिम् । भिक्ष᳚माणाः । दि॒वि । श्रवः᳚ । द॒धि॒रे॒ । य॒ज्ञियाः᳚ ।
नक्ता᳚ । च॒ । च॒क्रुः । उ॒षसा᳚ । विरू᳚पे॒ इति॒ वि॑रू᳚पे । कृ॒ष्णम् । च॒ । वर्ण᳚म् । अ॒रु॒णम् । च॒ । सम् । धु॒रिति᳚ धुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने सुमतिं शोभनामनुग्रहात्मिकां बुद्धिं भिक्षमाणा याचमाना यज्ञियासो यज्ञार्हाः सर्वे देवा दिवि द्योतमाने त्वे त्वयि श्रवो हविर्लक्षणमन्नं दधिरे । अस्थापयन् । अग्निर्देवानामन्नाद इति श्रुतेः । तदनंतरं तादृशे हविर्युक्तायानुष्ठानाय विरूपे विविधरूपे उषसोषःकालोपलक्षितमहर्नक्ता च नक्तं रात्रिं च चक्रुः । अकुर्वन् । एतदेव स्पष्टयति । कृष्णं च वर्णं रात्र्यां श्यामलवर्णमंधकारमह्न्यरुणमारोचनं श्वेतवर्णं तेजश्च सं धुः । सम्यक् स्थापितवंतः ॥ त्वे । सुपां सुलुगिति सप्तम्याः शेआदेशः । नक्ता । तेनैव द्वितियाया डादेशः । उषसा । तेनैव विभक्तेराकारः । धुः । डुधाञ् धारणपोषणयोः । लुङि गातिस्थेति सिचो लुक् । आत इति झेर्जुसादेशः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः ॥ ७ ॥

1.73.8
यान्रा॒ये मर्ता॒न्त्सुषू᳚दो अग्ने॒ ते स्या᳚म म॒घवा᳚नो व॒यं च᳚ ।
छा॒येव॒ विश्वं॒ भुव᳚नं सिसक्ष्यापप्रि॒वान्रोद᳚सी अ॒न्तरि᳚क्षम् ॥
▶ पदपाठः (Word-by-word)
यान् । रा॒ये । मर्ता᳚न् । सुसू᳚दः । अ॒ग्ने॒ । ते । स्या॒म॒ । म॒घ॑वा᳚नः । व॒यम् । च॒ ।
छा॒या॑इ᳚व । विश्व᳚म् । भुव᳚नम् । सि॒स॒क्षि॒ । आ॒प॒प्रि॒॑वान् । रोद᳚सी॒ इति᳚ । अ॒न्तरि᳚क्षम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यान्मर्तान्मनुष्यानस्मान्राये धनाय सुषूदः अग्निहोत्रादिकर्मसु प्रेरयसि ते तादृशा वयं च मघवानो धनिनः स्याम । भवेम । रोदसी द्यावापृथिव्यावंतरिक्षं चापप्रिवान् स्वतेजसा वृष्ट्युदकेन वापूरितवांस्त्वं च विश्वं भुवनं सर्वं जगत् सिसक्षि । सेवसे । अनुगृह्य सर्वं रक्षसीत्यर्थः । तत्र दृष्टांतः । छायेव । यथा छत्त्रादेश्भायातपादिजनितं क्लेशं निवार्य रक्षति तद्वत् ॥ राये । ऊडिदमिति विभक्तेरुदात्तत्वम् । सुषूदः । षूद प्रेरणे । लेट्यडागमः । बहुलं छंदसीति शपः श्लुः अभ्यस्तानामादिरित्याद्युदात्तत्वम् । यद्वृत्तान्नित्यमिति निघातप्रतिषेधः । सिसक्षि । षच समवाये । बहुलं छंदसीति शपः श्लुः । इदित्यनुवृत्तौ बहुलं छंदसीत्यभ्यासस्येत्वम् । अपप्रिवान् । प्रा पूरणे । लिटः क्वसुः । वस्वेकाजाद्घसामितीडागमः । आतो लोप इट चेत्याकारलोपः । द्विर्वचनेऽचीति स्थानिवद्भावात् द्विर्भावादि ॥ ८ ॥

1.73.9
अर्व᳚द्भिरग्ने॒ अर्व᳚तो॒ नृभि॒र्नॄन्वी॒रैर्वी॒रान्व᳚नुयामा॒ त्वोता᳚ः ।
ई॒शा॒नासः᳚ पितृवि॒त्तस्य᳚ रा॒यो वि सू॒रयः᳚ श॒तहि᳚मा नो अश्युः ॥
▶ पदपाठः (Word-by-word)
अर्व᳚त्॑भिः । अ॒ग्ने॒ । अर्व᳚तः । नृ॑भिः᳚ । नॄन् । वी॒रैः । वी॒रान् । व॒नु॒या॒म॒ । त्वा॑ऊ᳚ताः ।
ई॒शा॒नासः᳚ । पि॒तृ॒॑वि॒त्तस्य᳚ । रा॒यः । वि । सू॒रयः᳚ । श॒त॑हि᳚माः । नः॒ । अ॒श्युः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वोतास्त्वया रक्षिताः संतो वयमर्वद्भिरस्मदीयैरश्वैरर्वतः शत्रुसंबंधिनोऽश्वान्नृभिरस्मदीयैर्भटैर्नृन् शत्रोर्भटान् । वीर्याज्जायंत इति वीराः पुत्राः । तैर्वीरान् शत्रुपुत्रांश्च वनुयाम । हन्याम । वनुष्यतिर्हंतिकर्मानवगतसंस्कारो भवति (नि ५-२) इति यास्कः । पितृवित्तस्य पित्रादिपरंपरया लब्धस्य रायो धनस्येशानासः । स्वामिनः सूरयो विद्वांसो नोऽस्माकं पुत्राः शतहिमाः शतं संवत्सरान् जीवंतः संतो व्यश्युः । विशेषेण भुंजताम् । अस्मदीयानां पुत्राणामारोग्यं दीर्घमायुश्च भवत्वित्यर्थः ॥ त्वोताः त्वयोताः । प्रत्ययोत्तरपदयोश्चेति मपर्यंतस्य त्वादेशः । व्यत्ययेनात्वम् । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । शतहिमाः । अत्र हिमशब्देन तद्वान्हेमंतो लक्ष्यते । ब्राह्मणं च भवति । शतं हिमा इत्याह शतं त्वा हेमंतानि धिषीयेति वावैतदाहेति । शतं हिमाः शतं हेमंतर्तवो येषां ते शतसंवत्सरजीविन इत्यर्थः । अश्युः । अश भोजने । बहुलं छंदसीति विकरणस्य लुक् ॥ ९ ॥

1.73.10
ए॒ता ते᳚ अग्न उ॒चथा᳚नि वेधो॒ जुष्टा᳚नि सन्तु॒ मन᳚से हृ॒दे च᳚ ।
श॒केम᳚ रा॒यः सु॒धुरो॒ यमं॒ ते॑धि॒ श्रवो᳚ दे॒वभ᳚क्तं॒ दधा᳚नाः ॥
▶ पदपाठः (Word-by-word)
ए॒ता । ते॒ । अ॒ग्ने॒ । उ॒चथा᳚नि । वे॒धः॒ । जुष्टा᳚नि । स॒न्तु॒ । मन᳚से । हृ॒दे । च॒ ।
श॒केम᳚ । रा॒यः । सु॒॑धुरः᳚ । यम᳚म् । ते॒ । अधि᳚ । श्रवः᳚ । दे॒व॑भ᳚क्तम् । दधा᳚नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वेधः । मेधाविनामैतत् । मेधाविन्नग्ने एतोचथान्येतानीदानीमस्माभिः प्रयुक्तानि स्तोत्राणि ते तव मनसे मनोवृत्तये हृदे तद्वृत्तिमतेऽंतःकरणाय च जुष्टानि संतु । प्रियाणि भवंतु । ते तव संबंधिनः सुधुरः सुष्ठु निर्वाहकस्य । यद्वा । शोभनं धूर्वति दारिद्र्य हिनस्तीति सुधूः । तादृशस्य रायो धनस्य यमं नियमनं कर्तुं शकेम । शक्ता भयास्म । किं कुर्वंतः । देवभक्तं देवैः संभजनीयं श्रवो हविर्लक्षणमन्नमधि दधानाः । अग्नेरुपरि धारयंतः । अग्नौ हविर्भिर्होमं कुर्वंत इत्यर्थः ॥ उचथानि । वच परिभाषणे । रुविदिभ्यां कित् (उ ३-११६) इति विधीयमानोऽथप्रत्ययः कित्त्वं च बहुलवचनादस्मादपि भवति । वच्यादिना संप्रसारणम् । जुष्टानि । जुष्टार्पिते च छंदसि नित्यं मंत्रे पा ६-१-२०९ । २१० । इत्याद्युदात्तत्वम् । हृदे । पद्दन्नित्यादिना हृदयशब्दस्य हृदादेशः । शकेम । शक्लृ शक्तौ । लिङ्याशिष्यङ् । सुधुरः । धुर्वी हिंसार्थः । क्विप्चेति क्विप् । राल्लोप इति वकारलोपः । न पूजनादिति समासांतप्रतिषेधः । देवैर्भक्तं देवभक्तम् । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वं ॥ १० ॥