प्रथमं मण्डलम् - सूक्तम् 31

18 ऋचः

ऋषिः: हिरण्यस्तूप आंगिरसः देवता: अग्निः छन्दः: जगती

सूक्तम् 1.31 - सम्पूर्णम्

1 / 18
ऋक्: 1.31.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (18)
1.31.1
त्वम᳚ग्ने प्रथ॒मो अङ्गि᳚रा॒ ऋषि᳚र्दे॒वो दे॒वाना᳚मभवः शि॒वः सखा᳚ ।
तव᳚ व्र॒ते क॒वयो᳚ विद्म॒नाप॒सो॑जा᳚यन्त म॒रुतो॒ भ्राज᳚दृष्टयः ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । प्र॒थ॒माः । अङ्गि᳚राः । ऋषिः᳚ । दे॒वः । दे॒वाना᳚म् । अ॒भ॒वः॒ । शि॒वः । सखा᳚ ।
तव᳚ । व्र॒ते । क॒वयः᳚ । वि॒द्म॒ना॑अ᳚पसः । अजा᳚यन्त । म॒रुतः᳚ । भ्राज᳚त्॑ऋष्टयः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं प्रथम आद्य आंगीरसानामृषीणां सर्वेषां जनकत्वात् । तादृशोंऽगिरोनामक ऋषिरभवः । तथा च ब्राह्मणम् । योंऽगारा असंस्तेंऽगिसोऽभवन् । ऐ ब्रा ३-३४ । इति । तथा स्वयं देवो भूत्वा देवानामन्येषां शिवः शोभनः सखाभवः । तवव्रते त्वदीये कर्मणि कवयो मेधाविनो विद्मनापसो ज्ञानेन व्याप्नुवाना ज्ञातकर्माणो वा भ्राजदृष्टयो दीप्यमानायुधा मरुतो मरुत्संज्ञका देवा अजायंत ॥ विद्मनापसः । विद ज्ञाने । विद्मो वेदनम् । बहुलग्रहणादौणादिको मक्प्रत्ययः । तदस्यास्तीति पामादिलक्षणो नः (पा ५-२-१००) प्रत्ययस्वरेणांतोदात्तत्वम् । विद्मनान्यपांसि येषां ते विद्मनापसः । पूर्वपदस्यान्येषामपि दृत्यत इति दृतिग्रहणादवग्रहसमयेऽपि दीर्घत्वम् । अजायंत । जनी प्रादुर्भावे । तस्य श्यनि ज्ञाजनोर्जा (पा ७-३-७९) इति जादेशः । भ्राजदृष्टयः । भ्राजृ दीप्तौ । व्यत्ययेन शतृ । तस्य लसार्वधातुकानुदात्तत्वे धातुस्वरः । ऋषी गतावित्यस्मात् क्तिच् क्तौ च संज्ञायामिति क्तिजंत ऋष्विशब्दः । ततो बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ १ ॥

1.31.2
त्वम᳚ग्ने प्रथ॒मो अङ्गि᳚रस्तमः क॒विर्दे॒वानां॒ परि᳚ भूषसि व्र॒तम् ।
वि॒भुर्विश्व᳚स्मै॒ भुव᳚नाय॒ मेधि᳚रो द्विमा॒ता श॒युः क᳚ति॒धा चि᳚दा॒यवे᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । प्र॒थ॒मः । अङ्गि᳚रः॑तमः । क॒विः । दे॒वाना᳚म् । परि᳚ । भू॒ष॒सि॒ । व्र॒तम् ।
वि॒॑भुः । विश्व᳚स्मै । भुव᳚नाय । मेधि᳚रः । द्वि॒॑मा॒ता । श॒युः । क॒ति॒धा । चि॒त् । आ॒यवे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं प्रथम आद्य अंगिरस्तमोऽतिशयेनांगिरा भूत्वा कविर्मेधावी सन् देवानामन्येषां व्रतं कर्म परि भूषसि । परितोऽलंकरोषि । कीदृशस्त्वम् । विश्वस्मै भुवनाय समस्तलोकानुग्रहार्थं विभुर्बहुविधः । आहवनीयाद्यनेकरूपधारीत्यर्थः । मेधीरो मेधावान् द्विमाता द्वयोररण्योरुत्पन्नः । यद्वा । द्वयोर्लोकयोर्निर्माता । आयवे मनुष्यार्थं कतिधा चित् कतिभिः प्रकारैः सर्वत्र शयुः शयानः । तत्तन्मनुष्यगृहेऽवस्थितस्य तव प्रकारा इयंत इति न केनापि ज्ञायत इत्यर्थः ॥ भूषसि । भूष अलंकारे । भौवादिकः । विभुः । विप्रसंभ्यो ड्वसंज्ञायाम् (पा ३-२-१८०) इति विपूर्वाद्भवतेर्डुप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । भुवनाय । भूदूसूभ्रस्जिभ्यश्छंदसि (उ २-८०) इति क्युन् । योरनादेशे नित्स्वरेणाद्युदात्तत्वम् । मेधिरः । मेधृ संगमे च । अस्माद्बाहुलक इरन्प्रत्ययः । नित्स्वरः । द्विमाता । द्वौ मातरौ यस्यासौ द्विमाता । समासस्येत्यंतोदात्तत्वम् । शयुः । शीङ् स्वप्ने । भृमृशीत्यादिना (उ १-७) उप्रत्ययः । कतिधा । डत्यंतस्य किंशब्दस्य बहुगणपतुडति संख्या (पा १-१-२३) इति संख्यासंज्ञायां संख्याया विधार्थेधा (पा ५-३-४२) इति धाप्रत्ययः । आयवे । छंदसीणः (उ १-२) इत्येतेरुण् प्रत्ययः ॥ २ ॥

1.31.3
त्वम᳚ग्ने प्रथ॒मो मा᳚त॒रिश्व᳚न आ॒विर्भ᳚व सुक्रतू॒या वि॒वस्व᳚ते ।
अरे᳚जेतां॒ रोद᳚सी होतृ॒वूर्ये॑स᳚घ्नोर्भा॒रमय᳚जो म॒हो व᳚सो ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । प्र॒थ॒मः । मा॒त॒रिश्व᳚ने । आ॒विः । भ॒व॒ । सु॒क्र॒तू॒॑या । वि॒वस्व᳚ते ।
अरे᳚जेताम् । रोद᳚सी॒ इति᳚ । हो॒तृ॒॑वूर्ये᳚ । अस᳚घ्नोः । भा॒रम् । अय᳚जः । म॒हः । व॒सो॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं मातरिश्वने प्रथमो मुख्योभूत्वा वर्तसे । अग्निर्वायुरादित्य इति वाय्वपेक्षया सर्वत्र मुख्यत्वावगमात् । तादृशस्त्वं सुक्रतूया शोभनकर्मेच्छया विवस्वते परिचरते यजमानायाविर्भव । प्रकटो भव । तव सामर्थ्यं दृष्ट्वा रोदसी द्यावापृथिव्यावरेजेताम् । अकंपेताम् । भ्यसते रेजत इति भयवेपनयोः नि । ३-२१ । इति यास्कः । होतृवूर्ये होतृवरणयुक्ते कर्मणि भारं भरणमसघ्नोः । ऊढवानसि । हे वसो निवासहेतो वह्ने महः पूज्यान्देवानयजः । इष्टवानसि ॥ मातरिश्वने । निर्माणहेतुत्वान्मातांतरिक्षम् । तत्र श्वसिति प्राणितीति मातरिश्वा वायुः । श्वन्नुक्षन्नित्यादौ (उ १-१५८) मातरिश्वन् शब्दः कन्प्रत्ययांतो निपातितः । सुक्रतूया । सुक्रतुमात्मन इच्छति । सुप आत्मनः क्यच् । अकृत्सार्वधातुकयोरिति दीर्घः (पा ७-४-२५) क्यंजतस्य धातुसंज्ञायां आ प्रत्ययात् (पा ३-३-१०२) इति भावेऽकारप्रत्ययः । ततष्वाप् । सुपां सुलुगिति तृतीयैकवचनस्य डादेशः । ट लोप उदात्तनिवृत्तिस्वरेण तस्योदात्तत्वम् । संहितायामन्येषामपि दृश्यत इति पूर्वपदस्य दीर्घः । विवस्वते । विवासतिः परिचरणकर्मा । अस्मात्संपदादिलक्षणः क्विप् । व्यत्ययेनोपधाह्रस्वत्वम् । तदस्यास्तीति मतुप् । मादुपधाया इति मतोर्वत्वम् । तसौ मत्वर्थ इति भत्वेन पदत्वाभावाद्रुत्वाभावः । मतुपः पित्त्वादनुदात्तत्वम् । धातुस्वरः । शिष्यते । रोदसी । वा छंदसीति पूर्वसवर्णदीर्घत्वं ॥ होतृवूर्ये । होत्रा व्रियत इति होतृवूर्यो यज्ञः । वृञ् वरणे । बहुलग्रहणादौणादिकः क्यप् । उदोष्ठ्यपूर्वस्येत्युत्वम् । हलि चेति दीर्घः । यद्वा । वृञ् वरणे । बहुलग्रहणादौणादिकः क्यप् । उदोष्ठ्यपूर्वस्येत्युत्वम् । हलि चेति दीर्घः । यद्वा । वृञ् वरण इत्यस्मादेतिस्तुशास्वित्यादिना (पा ३-१-१०९) क्यप् । अनित्यमागमशासनमिति तुगभावः । अकृत्सार्वधातुकयोरिति दीर्घत्वे पूर्ववदुत्वदीर्घौ । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते । असघ्नोः । षघ हिंसायामत्र तु वहनार्थः । स्वादिभ्यः श्नुः । पादादित्वादनिघातः । अयजः । भारमित्यस्य पूर्वपदस्य वाक्यांतरगतत्त्वात्तदपेक्षयास्य निघातो न भवति । समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः । पा ८-१-१८-५ । इति वचनात् । महः । मह पूजायाम् । क्विप्चेति क्विप् । सुपां सुपो भवंतीति शसो ङसादेशः । सावेकाच इति तस्योदात्तत्वम् । यद्वा । शसि महच्छब्दस्याच्छब्दलोपश्छांदसः । बृहन्महतोरुपसंख्यानमिति शस उदात्तत्वं ॥ ३ ॥

1.31.4
त्वम᳚ग्ने॒ मन᳚वे॒ द्याम᳚वाशयः पुरू॒रव᳚से सु॒कृते᳚ सु॒कृत्त᳚रः ।
श्वा॒त्रेण॒ यत्पि॒त्रोर्मुच्य᳚से॒ पर्या त्वा॒ पूर्व᳚मनय॒न्नाप᳚रं॒ पुनः᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । मन᳚वे । द्याम् । अ॒वा॒श॒यः॒ । पु॒रू॒रव᳚से । सु॒॑कृते᳚ । सु॒कृत्॑त᳚रः ।
श्वा॒त्रेण᳚ । यत् । पि॒त्रोः । मुच्य᳚से । परि᳚ । आ । त्वा॒ । पूर्व᳚म् । अ॒न॒य॒न् । आ । अप᳚रम् । पुन॒रिति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं मनवे मनोरनुग्रहार्थं द्यां द्युलोकमवाशयः । शब्दितवानसि । पुण्यकर्मभिः । पुण्य कर्मभिः साध्यो द्युलोक इति प्रकटतवानसि । सुकृते तवपरिचरणं कुर्वते पुरूरवस एतन्नामकस्य राज्ञोऽनुग्रहार्थं सुकृत्तरोऽतिशयेन शोभनफलकार्यभूः । यद्यदा पित्रोररण्योः श्वात्रेण क्षिप्रमथनेन परि मुच्यसे परितो मुक्तो भवसि । उत्पद्यस इत्यर्थः । तदानीं त्वा अरण्योरुत्पन्नं त्वां पूर्वं वेदेः पूर्वदेशमानयान् । आहवनीयत्वेन स्थापितवंतः । पुनः पश्चादपरं पश्चिमदेशमानयन् । गार्हपत्यरूपेण प्रापितवंतः । आहवनीयकर्मानुष्ठानादूर्ध्वं गार्हपत्यरूपेण धारितवंत इत्यर्थः ॥ अवाशयः । वाशृ शब्दे । पुरूरवसे । पुरु रौतीति पुरूरवाः । रु शब्दे । अस्मादौणादिकेऽसुनि पुरसि च पुरूरवाः (उ ४-१३१) इति पूर्वपदस्य दीर्घो निपात्यते । सुकृते । सुकर्मपापमंत्रपुण्येषु कृञः (पा ३-२-८९) इति क्विप् । ततस्तुक् । पित्रोः । उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वम् । मुच्यसे । अदुपदेशाल्लसार्वधातुकानुदात्तत्वम् । यद्यपि सतिशिष्टस्वरबलीयस्त्वमन्यत्र विकरण्येभ्य इति वचनाद्विकरणस्वरः सति शिष्टोऽपि लसार्वधातुकस्वरस्य बाधको न भवति तथापि धातुस्वरं बाधत एव धातुस्वरं श्नास्वर इत्युक्तत्वात् । अतो यक एव स्वरे प्राप्ते व्यत्ययेनाद्युदात्तत्वं ॥ ४ ॥

1.31.5
त्वम᳚ग्ने वृष॒भः पु᳚ष्टि॒वर्ध᳚न॒ उद्य᳚तस्रुचे भवसि श्र॒वाय्य᳚ः ।
य आहु᳚तिं॒ परि॒ वेदा॒ वष᳚ट्कृति॒मेका᳚यु॒रग्रे॒ विश᳚ आ॒विवा᳚ससि ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । वृ॒ष॒भः । पु॒ष्टि॒॑वर्ध᳚नः । उद्य᳚त॑स्रुचे । भ॒व॒सि॒ । श्र॒वाय्यः᳚ ।
यः । आ॑हु᳚तिम् । परि᳚ । वेद᳚ । वष᳚ट्॑कृतिम् । एक᳚॑आयुः । अग्ने᳚ । विशः᳚ । आ॒॑विवा᳚ससि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं वृषभः कामानां वर्षिता पुष्टिवर्धनो यजमानस्य धनादिपोषाभिवृद्धिहेतुः उद्यतस्रुच उद्धृतया स्रुचा युक्ताय यजमानाय तदनुग्रहार्थं श्रवाय्यो मंत्रैः श्रवणीयो भवसि । यो यजमानो वषट्कृतिं वषट्कारयुक्तामाहुतिं परि वेद परितो जानाति । समर्पयतीत्यर्थः । एकायुर्मुख्यान्नस्त्वमग्रे प्रथमं तं यजमानं विशस्तदनुकूलाः प्रजा आविवाससि । सर्वतः प्रकाशयसि ॥ पुष्टिवर्धनः । वृधु वृद्धौ । अस्माणिजंतान्नंद्यादित्वात् ल्युः । लित्स्वरेणोत्तरपदस्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वेण स एव शिष्यते । उद्यतस्रुचे । यम उपरमे । अस्मादुत्पूर्वान्निष्ठेति क्तप्रत्यय अनुदात्तोपदेशेत्यादिनानुनासिकलोपः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । उद्यता स्रुग्येनेति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वेद । द्व्यचोऽतस्तिङ इति संहितायां दीर्घत्वं ॥ ३२ ॥ ५ ॥

1.31.6
त्वम᳚ग्ने वृजि॒नव᳚र्तनिं॒ नरं॒ सक्म᳚न्पिपर्षि वि॒दथे᳚ विचर्षणे ।
यः शूर᳚साता॒ परि᳚तक्म्ये॒ धने᳚ द॒भ्रेभि᳚श्चि॒त्समृ᳚ता॒ हंसि॒ भूय᳚सः ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । वृ॒जि॒न॑व᳚र्तनिम् । नर᳚म् । सक्म᳚न् । पि॒प॒र्षि॒ । वि॒दथे᳚ । वि॒॑च॒र्ष॒णे॒ ।
यः । शूर᳚॑साता । परि᳚॑तक्म्ये । धने᳚ । द॒भ्रेभिः᳚ । चि॒त् । सम्॑ऋ᳚ता । हंसि᳚ । भूय᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विचर्षणे विशिष्टज्ञानयुक्ताग्ने त्वं वृजिनवर्तनिं विप्लुतमार्गं सदाचाररहितं नरं पुरुषं सक्मन् सचनीये समवेतुं योग्ये विदथे कर्मणि पिपर्षि । पालयसि पूरयसि वा । सत्कर्मानुष्ठानयुक्तं करोषीत्यर्थः । यस्त्वं परितक्म्ये परितो गंतव्ये धने धनवच्छूराणां प्रियतमे शूरसाता शूरैः संभजनीये युद्धे दभ्रेभिश्चिदल्पैरपि शौर्यरहितैः पुरुषैः । दभ्रमर्भकमित्यल्पस्य (नि ३-२०) इति यास्कः । समृता सम्यक् योद्धुं प्राप्ते सति तदनुग्रहार्थं भूयसः प्रौढान्प्रतिपक्षिणः शत्रून् हंसि मारयसि । ईदृशस्तव महिमेत्यर्थः ॥ वृजिनवर्तनिम् । वृजिना वर्तनिर्यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सक्मन् । षच समवाये । अन्यभ्योऽपि दृश्यंत इति मनिन् । नेड्वति कृतीतीट् प्रतिषेधः । न्यंक्वादित्वात् (पा ७-३-५३) कुत्वम् । सुपां सुलुगिति सप्तम्या लुक् । पिपर्षि । पृ पालनपूरणयोः । सिपि श्लौ द्विर्भावह्रस्वोरदत्वहलादिशेषाः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । शूरसाता । शु गतौ । शुषिचिमीनां दीर्घश्च (उ २-२५) इति शूरशब्दो रन्प्रत्ययांत आद्युदात्तः वनषण संभक्तावित्यस्मात् क्तिनंतः सातिशब्दः । जनसनकनां सन्झलोरित्यात्वम् । शूराणां सातिः संभजनमत्रेति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सुपां सुलुगिति सप्तम्या डादेशः । परितक्म्ये । तक हसने । अस्मादौणादिको भावे मक् । तदर्हतीति छंदसि च (पा ५-१-६७) इति यः । प्रादयो गताद्यर्थे प्रथमयेति समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । दभ्रेभिः । दन्भु दंभे । स्भायितंचीत्यादिना रक् । बहुलं छंदसीति भिस ऐसादेशाभावः । समृता । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । पूर्ववदाकारः । हंसि । हंते सिपि नश्चापदांतस्य झलि (पा ८-३-२४) इत्यनुस्वारः । यद्वृत्तयोगादनिघातः । भूयसः । बहोर्लोपो भू च बहोः (पा ६-४-१५८) इति बहुशब्दादुत्तरस्येयसुन ईकारलोपो बहोर्भूभावश्च । नित्त्वादाद्युदात्तत्वं ॥ ६ ॥

1.31.7
त्वं तम᳚ग्ने अमृत॒त्व उ᳚त्त॒मे मर्तं᳚ दधासि॒ श्रव᳚से दि॒वेदि᳚वे ।
यस्ता᳚तृषा॒ण उ॒भया᳚य॒ जन्म᳚ने॒ मयः᳚ कृ॒णोषि॒ प्रय॒ आ च᳚ सू॒रये᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । तम् । अ॒ग्ने॒ । अ॒मृ॒त॒॑त्वे । उ॒त्॑त॒मे । मर्त᳚म् । द॒धा॒सि॒ । श्रव᳚से । दि॒वे॑दि᳚वे ।
यः । त॒तृ॒षा॒णः । उ॒भया᳚य । जन्म᳚ने । मयः᳚ । कृ॒णोषि᳚ । प्रयः᳚ । आ । च॒ । सू॒रये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं तं मर्तं तथाविधं त्वत्सेविनं मनुष्यं दिवेदिवे प्रतिदिनं श्रवसेऽन्नार्थमुत्तमेऽमृतत्व उत्कृष्टे मरणरहिते पदे दधासि । धारयसि । यो यजमान उभयाय जन्मने द्विविधजन्मार्थम् । द्विपदां चतुष्पदां लाभायेत्यर्थः । ततृषाणोऽतिशयेन तृष्णायुक्तो भवति तस्मै सूरयेऽभिज्ञाय यजमानाय मयः सुखम् । यद्वै सुखं तन्मय इति श्रुत्यंतरात् । प्रयश्चान्नमप्या कृणोषि । सर्वतः करोषि ॥ ततृषाणः । ञितृषा पिपासायाम् । लिटः कानच् य चित्त्वादंतोदात्तत्वम् । संहितायां दीर्घश्छांदसः । कृणोषि । कृवि हिंसाकरणयोश्च । धिन्विकृण्व्योरच्चेत्युप्रत्ययः । चादिलोपे विभाषेति निघातप्रतिषेधः ॥ ७ ॥

1.31.8 समानपद
त्वं नो᳚ अग्ने स॒नये॒ धना᳚नां य॒शसं᳚ का॒रुं कृ᳚णुहि॒ स्तवा᳚नः ।
ऋ॒ध्याम॒ कर्मा॒पसा॒ नवे᳚न दे॒वैर्द्या᳚वापृथिवी॒ प्राव᳚तं नः ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । अ॒ग्ने॒ । स॒नये᳚ । धना᳚नाम् । य॒शस᳚म् । का॒रुम् । कृ॒णु॒हि॒ । स्तवा᳚नः ।
ऋ॒ध्याम᳚ । कर्म᳚ । अ॒पसा᳚ । नवे᳚न । दे॒वैः । द्या॒वा॒पृ॒थि॒वी॒ इति᳚ । प्र । अ॒व॒त॒म् । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने स्तवानः स्तूयमानस्त्वं नोऽस्माकं धनानां सनये दानार्थं यशसं यशोयुक्तं कारुं कर्मणां कर्तारं पुत्रं कृणुहि । कुरु । नवेन नूतनेनापसा प्राप्तेन त्वद्दत्तेन पुत्रेण कर्म यागदानादिरूपमृध्याम । वर्धयाम । हे द्यावापृथिवी उभे देवते देवैरन्यैः सह नोऽस्मान्प्रावतम् । प्रकर्षेण रक्षतं ॥ यशसं अर्शआदित्वादच् प्रत्ययः । व्यत्ययेन प्रत्ययात्पूर्वस्योदात्तत्वम् । यद्वा । सर्वप्रातिपदिकेभ्यः क्विब्वक्तव्यः । म ३-१-११-३ । इति यशस् शब्दात् क्विप् । तस्य प्रत्ययांतस्य सनाद्यंतत्वाद्धातुसंज्ञायां क्विप्चेति क्रिप्प्रत्ययांतधातोः सति शिष्टत्वाद्धातोरित्यंतोदात्तत्वम् । कृणुहि । उतश्च प्रत्ययाच्छंदोवा वचनम् । पा ६-४-१०६-१ इति हेर्लुगाभावः । स्रवानः । सम्यानच् स्तुवः (उ २-८६) इति बहुलवचनात्केवलस्यापि स्तौतेरानच् प्रत्ययः । वृषादित्वादाद्युदात्तत्वम् । ऋध्याम । ऋधु वृद्धौ । बहुलं छंदसीति विकरणस्य लुक् । यासुट उदात्तत्वम् । द्यावापृथिवी । दिवो द्यावा (पा ६-३-२९) इति द्यावादेशः । आमंत्रितानुदात्तत्वं ॥ ८ ॥

1.31.9
त्वं नो᳚ अग्ने पि॒त्रोरु॒पस्थ॒ आ दे॒वो दे॒वेष्व᳚नवद्य॒ जागृ᳚विः ।
त॒नू॒कृद्बो᳚धि॒ प्रम᳚तिश्च का॒रवे॒ त्वं क᳚ल्याण॒ वसु॒ विश्व॒मोपि᳚षे ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । अ॒ग्ने॒ । पि॒त्रोः । उ॒प॑स्थे᳚ । आ । दे॒वः । दे॒वेषु᳚ । अ॒न॒व॒द्य॒ । जागृ᳚विः ।
त॒नू॒॑कृत् । बो॒धि॒ । प्र॑म᳚तिः । च॒ । का॒रवे᳚ । त्वम् । क॒ल्या॒ण॒ । वसु᳚ । विश्व᳚म् । आ । ऊ॒पि॒षे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अनवद्य दोषरहिताग्ने देवेषु सर्वेषु मध्ये जागृविर्जागरूकस्त्वं पित्रोर्मातृपितृरूपयोर्द्यावापृथिव्योरुपस्थे समीपस्थाने वर्तमानः सन्नोऽस्माकं तनूकृत् पुत्ररूपशरीरकारी भूत्वा बोधि । बुध्यस्व । अनुगृहाणेत्यर्थः । तथा कारवे कर्मकर्त्रे यजमानाय प्रमतिश्चानुग्रहरूपप्रकृष्टमतियुक्तश्च भवेति शेषः । हे कल्याण मंगलरूपाग्ने त्वं विश्वं वसु सर्वमपि धनमोपिषे । यजमानार्थमावपसि ॥ उपस्थे । सुपि स्थः (पा ३-२-४) इति तिष्ठतेः कः प्रत्ययः आतो लोप इति चेत्याकारलोपः । मरुद्वधादीनां छंदस्युपसंख्यानम् । पा ६-२-१०६-२ । इति पूर्वपदांतोदात्तत्वम् । जागृविः । जागृ निद्राक्षये जृशृस्तृजागृभ्यः क्विन् (उ ४-५४) इति क्विन् । नित्वादाद्युदात्तत्वम् । बोधि । बुध अवगमने । बहुलं छंदसीति शपो लुक् । वा छंदसीति हेरपित्त्वस्य विकल्पितत्वेन पित्त्वादङित्वे सत्यङितश्च (पा ६-४-१०३) इति हेर्धिरादेशः । लघूपधगुणः । धातोरंत्यलोपश्छांदसः । प्रमतिः । मन ज्ञाने । क्तिन्यनुदात्तोपदेशेत्यादिनानुसिकलोपः । प्रकृष्टा मतिर्यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ऊपिषे । डुवप् बीजतंतुसंताने । छांदसे लिट थासः से । वचिस्वपीत्यादिना संप्रसारणपरपूर्वत्वे द्विर्भावहलादिशेषौ । क्रादिनियमादिट् ॥ ९ ॥

1.31.10
त्वम᳚ग्ने॒ प्रम᳚ति॒स्त्वं पि॒तासि᳚ न॒स्त्वं व᳚य॒स्कृत्तव᳚ जा॒मयो᳚ व॒यम् ।
सं त्वा॒ रायः᳚ श॒तिन॒ः सं स᳚ह॒स्रिणः᳚ सु॒वीरं᳚ यन्ति व्रत॒पाम᳚दाभ्य ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । प्र॑म᳚तिः । त्वम् । पि॒ता । अ॒सि॒ । नः॒ । त्वम् । व॒यः॒॑कृत् । तव᳚ । जा॒मयः᳚ । व॒यम् ।
सम् । त्वा॒ । रायः᳚ । श॒तिनः᳚ । सम् । स॒ह॒स्रिणः᳚ । सु॒वीर᳚म् । य॒न्ति॒ । व्र॒त॒॑पाम् । अ॒दा॒भ्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं प्रमतिरस्मदनुग्रहरूपप्रकृतिष्टमतियुक्तोऽसि । तथा त्वं नोऽस्माकं पिता पालकोऽसि तथा त्वं वयस्कृत् । आयुष्यप्रदोऽसि वयमनुष्ठातारस्तव जामयो बंधवः । हे अदाभ्य केनाप्यहिंसनीयाग्ने सुवीरं शोभनपुरुषयुक्तं व्रतपां कर्मणः पालकं त्वां शतिनः शतसंख्यायुक्ता रायो धनानि सं यंति । सम्यक् प्राप्नुवंति । तथा सहस्रिणः सहस्रसंख्याकारायः सं यंति ॥ सुवीरम् । बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वे प्राप्ते वीरवीर्यौ च (पा ६-२-१२०) इत्युत्तरपदाद्युदात्तत्वम् । अदाभ्य । दभिः प्रकृत्यंतरमस्तीति केचिदाहुः । दभेश्चेति वक्तव्यम् । पा ३-१-१२४-३ । इति ण्यत् ॥ ३३ ॥ १० ॥

1.31.11 समानपद
त्वाम᳚ग्ने प्रथ॒ममा॒युमा॒यवे᳚ दे॒वा अ᳚कृण्व॒न्नहु᳚षस्य वि॒श्पति᳚म् ।
इळा᳚मकृण्व॒न्मनु᳚षस्य॒ शास᳚नीं पि॒तुर्यत्पु॒त्रो मम᳚कस्य॒ जाय᳚ते ॥
▶ पदपाठः (Word-by-word)
त्वाम् । अ॒ग्ने॒ । प्र॒थ॒मम् । आ॒युम् । आ॒यवे᳚ । दे॒वाः । अ॒कृ॒ण्व॒न् । नहु᳚षस्य । वि॒श्पति᳚म् ।
इळा᳚म् । अ॒कृ॒ण्व॒न् । मनु᳚षस्य । शास᳚नीम् । पि॒तुः । यत् । पु॒त्रः । मम᳚कस्य । जाय᳚ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वां प्रथमं पुरा देवा आयव आयोर्मनुष्यरूपस्य नहुषस्यैतन्नामकराजविशेषस्यायुं मनुष्यरूपं विश्पतिं सेनापतिमकृण्वन् । कृतवंतः । तथा मनुष्यस्य मनोरिळामेतन्नामधेयां पुत्रीं शासनीं धर्मोपदेशकर्त्रीमकृण्वन् । कृतवंतः । तथा च तैत्तिरीयैराम्नायते । इडा वै मानवी यज्ञानु काशिन्युसीत् । तै ब्रा १-१-४-४ । इति वाजसनेयिनोऽप्येवमामनंति । प्रयाजानुयाजानां मध्ये मामवकल्पय मया सर्वानवाप्स्यसि कामानिति सा मनुमन्वशादिति यत् शादिति । यद्यदा ममकस्य मदीयस्य हिरण्यस्तूपसंबंधिनो यः पितांगिरास्तस्य पितुः पुत्रो जायते । तदानीं हे अग्ने त्वमेव पुत्ररूप आसीरिति शेषः ॥ आयवे । षष्ठर्थे चतुर्थी वक्तव्या । म २-३-३२-१ । इति चतुर्थी । नहुषस्य णह बंधने । नहिकलिहन्यर्तिलसिभ्य उषच् (उ ४-७५) वृषादित्वादाद्युदात्तत्वम् । विश्पतिम् । परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । मनुषस्य । मनोर्निदित्युषच् । नित्वादाद्युदात्तत्वम् । शासनीं शिष्यतेऽनयेति शासनी । करणाधिकरणयोश्चेति ल्युट् । टिड्ढाणञित्यादिना (पा ४-१-१५) ङीप् । लित्सर्वेणाद्युदात्तत्वम् । ममकस्य । ममेदमित्यर्थे तस्येदम् (पा ४-३-१२०) इत्यणि तवकममकावेकवचने (पा ४-३-३) इत्यस्मच्छब्दस्य ममकादेशः । संज्ञापूर्वको विधिरनित्य इति वृद्ध्य भावः । व्यत्ययेनाद्युदात्तत्वं ॥ ११ ॥

1.31.12
त्वं नो᳚ अग्ने॒ तव᳚ देव पा॒युभि᳚र्म॒घोनो᳚ रक्ष त॒न्व᳚श्च वन्द्य ।
त्रा॒ता तो॒कस्य॒ तन᳚ये॒ गवा᳚म॒स्यनि᳚मेषं॒ रक्ष᳚माण॒स्तव᳚ व्र॒ते ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । अ॒ग्ने॒ । तव᳚ । दे॒व॒ । पा॒यु॑भिः᳚ । म॒घोनः᳚ । र॒क्ष॒ । त॒न्वः᳚ । च॒ । व॒न्द्य॒ ।
त्रा॒ता । तो॒कस्य᳚ । तन᳚ये । गवा᳚म् । अ॒सि॒ । अनि᳚॑मेषम् । रक्ष᳚माणः । तव᳚ । व्र॒ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वंद्य वंदनीयाग्ने देव त्वं तव पायुभिस्त्वदीयैः पालनैर्मघोनो धनयुक्तान्नोऽस्मान् रक्ष । तथा तन्वश्च । तनूः पुत्रदेहानपि रक्ष । तोकस्यास्मदीयस्य पुत्रस्य यस्तनयोऽस्मत्पौत्रादिस्तव व्रते त्वदीये कर्मण्यनिमेषं निरंतरं रक्षमाणः सावधानो वर्तते तस्मिन्या गावः संति तासां गवां त्राता रक्षकोऽसि । ईदृशस्य तवास्मद्रक्षणे किमु वक्तव्यमित्यर्थः ॥ मघोनः । शसि श्वयुवमघोनामतद्धिते (पा ६-४-१३३) इति संप्रसारणम् । तन्वः । सुपां सुपो भवंतीति शसो जसादेशः । पूर्वसवर्णदीर्घस्य दीर्घाज्जसि चेति प्रतिषेधः । उदात्तस्वरितयोर्यण इति स्वरितत्वम् । शसि ह्युदात्तयणो हल्पूर्वादिति विभक्युदात्तत्वं स्यात् ॥ १२ ॥

1.31.13
त्वम᳚ग्ने॒ यज्य᳚वे पा॒युरन्त᳚रो॑निष॒ङ्गाय᳚ चतुर॒क्ष इ᳚ध्यसे ।
यो रा॒तह᳚व्यो॑वृ॒काय॒ धाय᳚से की॒रेश्चि॒न्मन्त्रं॒ मन᳚सा व॒नोषि॒ तम् ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । यज्य᳚वे । पा॒युः । अन्त᳚रः । अ॒नि॒ष॒ङ्गाय᳚ । च॒तुः॒॑अ॒क्षः । इ॒ध्य॒से॒ ।
यः । रा॒त॑ह᳚व्यः । अ॒वृ॒काय᳚ । धाय᳚से । की॒रेः । चि॒त् । मन्त्र᳚म् । मन᳚सा । व॒नोषि᳚ । तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं यज्ववे यज्योर्यजमानस्य पायुः पालकः । अंतरः समीपवर्ती सन् अनिषंगाय रक्षोभिरसंबद्धाय यज्ञाय चतुरक्षो दिक्चतुष्टयेऽपींद्रियस्थानीयज्वालायुक्त इध्यसे । दीप्यसे । अवृकायाहिंसकाय धायसे पोषकाय तुभ्यं रातहव्यो दत्तहविष्को यो यजमानोऽस्ति कीरेश्चित्स्तोतुरेव सतस्तस्य संबंधिनं मंत्रं त्वदीयस्तोत्ररूपं मनसा त्वदीयेन चित्तेन वनोषि । याचसि ॥ यज्यवे । यजिमनिशुंधीत्यादिना (उ ३-२०) यजतेर्युप्रत्ययः । पायुः । कृवापाजीत्यादिना । उण् । आतो युक् चिण् कृतोः (पा ७-३-३३) इति युगागमः । अनिषंगाय । षन् ज संगे । न विद्यते निषंगोऽस्येति बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । चतुरक्ष । चत्वार्यक्षीणि ज्वालारूपाणि यस्यासौ चतुरक्षः बहुव्रीहौ सक्थ्यक्ष्णोः (पा ५-४-११३) इति समासांतः षच् प्रत्ययः । चित इत्यंतोदात्तत्वम् । धायसे । वहिहाधाञ् भ्यश्चंदसीत्यसुन् । णिदित्यनुवृत्तेरातो युक् चिण्कृतोरिति युगागमः । कीरेः । कृत संशब्दने । अस्माण्यंतादच इरितीप्रत्यये णिलोपे धातोरंत्यलोपश्छांदसः । मंत्रम् । मत्रि गुप्तभाषणे । पचाद्यचि वृषादिषु पाठादाद्युदात्तत्वम् । वनोषि । वनु याचने । तनादिकृञ् भ्य उः । प्रत्ययस्वरः ॥ १३ ॥

1.31.14
त्वम᳚ग्न उरु॒शंसा᳚य वा॒घते᳚ स्पा॒र्हं यद्रेक्ण᳚ः पर॒मं व॒नोषि॒ तत् ।
आ॒ध्रस्य᳚ चि॒त्प्रम᳚तिरुच्यसे पि॒ता प्र पाकं॒ शास्सि॒ प्र दिशो᳚ वि॒दुष्ट᳚रः ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । उ॒रु॒॑शंसा᳚य । वा॒घते᳚ । स्पा॒र्हम् । यत् । रेक्णः᳚ । प॒र॒मम् । व॒नोषि᳚ । तत् ।
आ॒ध्रस्य᳚ । चि॒त् । प्र॑म᳚तिः । उ॒च्य॒से॒ । पि॒ता । प्र । पाक᳚म् । शास्सि᳚ । प्र । दिशः᳚ । वि॒दुः॑त᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वमुरुशंसाय बहुभिः स्तोतव्याय वाघते ऋत्विजे तदुपकारार्थं स्पार्हं स्पृहणीयं परममुत्तमं यद्रेक्णो धनमस्ति तद्धनं वनोषि । अनुष्ठाता लभतामिति कामयसे । तथा त्वमाध्रस्य चित् सर्वतो धारणीयस्य पोषणीयस्य दुर्बलस्य यजमानस्यापि प्रमतिः प्रकृष्टबुद्धियुक्तः । पिता पालक इत्यभिज्ञैरुच्यसे । तथा विदुष्टरोऽतिशयेनाभिज्ञस्त्वं पाकं शिशुम् । पोतः पाकोऽर्भको डिंभः । अम २-५-३८ । इत्यभिधानात् । यास्कोऽप्येवमाह । पाकः पक्तव्यो भवति (नि ३-१२) तथाविधं यजमानं प्रशास्सि । प्रकर्षेणानुशिष्टं करोषि । तथा दिशः प्राच्यादिकाः प्रशास्सि । त्वदीयशासनाभावेऽनुष्ठातृणां विभ्रमः । स्यात् । तथा च श्रूयते । देवा वै देवयजनमध्यवसाय दिशो न प्रजानन् । तै सं ६-१-५-१ । इति । स भ्रमो दक्षिणादिग्गतोऽग्निा निवर्तते । तदपि तत्रैवाम्नातम् । पथ्यां स्वस्तिमयजन् प्राचीमेव तथा दिशं प्राजानन्नग्निना दक्षिणेति । ऐतरेयिणापि तथैवाम्नातम् । अथो एतं वरमवृणीत मयैव प्राचीं दिशं प्रजानाथाग्निना दक्षिणाम् । ऐ ब्रा १-७ । इति ॥ उरुशंसाय । शन्सु स्तुतौ । शस्यत इति शंसः । कर्मणि घञ् । ञित्स्वरेणाद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते । स्पार्हम् । स्पृहासंबंधि । तस्येदमित्यण् । रेक्णः । रिचिर् विरेचने । रिचेर्धने उ ४-१९८ । इत्यसुन् । चकारान्नुडागमः । चचोः कु घिण्यतोः पा ७-३-५२ । इति कुत्वम् । आध्रस्य । ध्रै तृप्तौ । आदेच उपदेशेऽशितीत्यात्वम् । आतश्चोपसर्गे (पा ३-१-१३६) इति कप्रत्ययः । शास्सि । शासु अनुशिष्टौ । अदादित्वाच्छपो लुक् । सिपः पित्त्वादनुदात्तत्वे धातुस्वरः । पाकं च प्रशास्सि दिशश्च प्रशास्सीत्यत्र चार्थोगम्यते । अतश्चादि लोपे विभाषेति प्रथमा तिङ्विभक्तिर्न निहन्यते । विदुष्वरः । विद्वच्छब्दात्तरप्ययस्मयादीनि छंदसि (पा १-४-२०) इति भसंज्ञायां वसोः संप्रसारणमिति संप्रसारणं परपूर्वत्वम् । शासिवसीति षत्वम् । तरपः पित्त्वादनुदात्तत्वे वसोः स्वरेणोकार उदात्तः ॥ १४ ॥

1.31.15 समानपद
त्वम᳚ग्ने॒ प्रय᳚तदक्षिणं॒ नरं॒ वर्मे᳚व स्यू॒तं परि᳚ पासि वि॒श्वतः᳚ ।
स्वा॒दु॒क्षद्मा॒ यो व᳚स॒तौ स्यो᳚न॒कृज्जी᳚वया॒जं यज᳚ते॒ सोप॒मा दि॒वः ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । प्रय᳚त॑दक्षिणम् । नर᳚म् । वर्म᳚॑इव । स्यू॒तम् । परि᳚ । पा॒सि॒ । वि॒श्वतः᳚ ।
स्वा॒दु॒॑क्षद्मा᳚ । यः । व॒स॒तौ । स्यो॒न॒॑कृत् । जी॒व॒॑या॒जम् । यज᳚ते । सः । उ॒प॒॑मा । दि॒वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं प्रयतदक्षिणं येन यजमानेन ऋत्विग्भ्यो दक्षिणा दत्ता तादृशं नरं पुरुषं यजमानं विश्वतः सर्वतः परि पासि । सम्यक् पालयसि । तत्र दृष्टांतः । स्यूतं निश्चेद्रत्वेन सूचीभिः सम्यक् निष्पादितं वर्मेव । यथा कवचं युद्धे पालयति तद्वत् । स्वादुक्षद्मा स्वाद्वन्नो वसतौ निवासभूते स्वगृहे स्योनकृत् अतिथीनां सुखकारी यो यजमानो जीवयाजं जीवयजनसहितं यज्ञं यद्वा जीवनिष्पाद्यं यजते अनुतिष्ठति स यजमानो दिवः स्वर्गस्योपमा दृष्टांतो भवति । यथा स्वर्गोऽनुष्ठातृन्सुखयति तथा त्वमप्यृत्विगादीनित्यर्थः ॥ स्यूतम् । षिवु तंतुसंताने । निष्ठेति क्तः । यस्य विभाषेतीट् प्रतिषेधः । च्भ्वोः शूडनुनासिके च (पा ६-४-१९) इति वकारस्योडादेशः । स्वादून्ष्कदतीति स्वादुक्षद्मा । क्षदतिरत्तिकर्मा । अन्येभ्योऽपि दृश्यंत इति मनिन् । नित्त्वादाद्युदात्तत्वे । कृदुत्तरपदप्रकृतिस्वरत्वं बहुव्रीहौ तु व्यत्ययेन । जीवयाजम् । जीवा ऋत्विज इज्यंते दक्षिणाभिः पूज्यंतेऽचेत्यधिकरणे घञ् । कुत्वाभावश्छांदसः । यद्वा । जीवैः पशुभिर्याजनं जीवयाजः । याजयतेर्घञ् । णेरनिटीति णिलोपस्याचः परस्मिन्निति स्थानिवद्भावाच्चजोः कु घिण्यतोरिति कुत्वाभावः । थाथादिस्वरेणोत्तरपदांतोदात्तत्वम् । सोपमा । सोऽचि लोपे चेत्पादपूरणमिति संहितायां सोर्लोपः । दिवः । ऊडिदमिति विभक्तेरुदात्तत्वं ॥ ३४ ॥ १५ ॥

1.31.16
इ॒माम᳚ग्ने श॒रणिं᳚ मीमृषो न इ॒ममध्वा᳚नं॒ यमगा᳚म दू॒रात् ।
आ॒पिः पि॒ता प्रम᳚तिः सो॒म्यानां॒ भृमि᳚रस्यृषि॒कृन्मर्त्या᳚नाम् ॥
▶ पदपाठः (Word-by-word)
इ॒माम् । अ॒ग्ने॒ । श॒रणि᳚म् । मी॒मृ॒षः॒ । नः॒ । इ॒मम् । अध्वा᳚नम् । यम् । अगा᳚म । दू॒रात् ।
आ॒पिः । पि॒ता । प्र॑म᳚तिः । सो॒म्याना᳚म् । भृमिः᳚ । अ॒सि॒ । ऋ॒षि॒॑कृत् । मर्त्या᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इमामग्न इत्यनयानाहिताग्निरार्त्विज्यं कृत्वा स्वाग्नावाहुतिं जुहुयात् । ऋत्विजो वृणीत इति खंड एवमनाहिताग्निर्गृह्य इमामग्ने शरणिं मीमृषो नः । आ गृ १-२३-२३ । इति सूत्रितं ॥

हे अग्ने त्वं नोऽस्मत्संबंधिनीमिमामिदानीं संपादितां शरणिं हिंसां व्रतलोपरूपां मीमृषः । क्षमस्व । तथा त्वदीयसेवामग्नि होत्रादिरूपां परित्यज्य दूराद्दूरदेशं यमिममध्वानमगाम वयं गतवंतः । तमपि क्षमस्वेति शेषः । सोम्यानां सोमार्हाणामनुष्ठातृणां मर्त्यानां त्वमाप्यादिगुणयुक्तोऽसि । आपिः प्रापणीयः पिता पालकः प्रमतिः प्रकृष्टमननयुक्तो भृमिर्भ्रामकः । कर्मनिर्वाहक इत्यर्थः । ऋषिकृत् दर्शनकारी । अनुजिघृक्षया प्रत्यक्षो भवसीत्यर्थः ॥ शरणिम् । शृ हिंसायामित्यस्मादौणादिकोऽनिप्रत्ययः । मीमृषः मृष तितिक्षायाम् । अस्माणौ चङि गुणे प्राप्ते नित्यं छंदसि (पा ७-४-८) इत्युपधर्कारस्य ऋकारादेशः । णिलोपद्विर्भावहलादिशेषोरदत्वसन्वद्भावेत्वदीर्घत्वानि । तिङ्ङतिङ इति निघातः । अगाम । इण् गतौ । इमो गा लुङि (पा २-४-४५) इति गादेशः । गातिस्थेति सिचो लुक् । अडागम उदात्तः । भृमिः । भ्रमु अनवस्थाने भ्रमेः संप्रसारणं च (उ ४-१२०) इतीन्प्रत्ययः । संप्रसारणे परपूर्वत्वम् । इगुपधात्किदित्यनुवृत्तेः कित्त्वाद्गुणप्रतिषेधः । नित्त्वादाद्युदात्तत्वं ॥ १६ ॥

1.31.17
म॒नु॒ष्वद᳚ग्ने अङ्गिर॒स्वद᳚ङ्गिरो ययाति॒वत्सद᳚ने पूर्व॒वच्छु᳚चे ।
अच्छ᳚ या॒ह्या व᳚हा॒ दैव्यं॒ जन॒मा सा᳚दय ब॒र्हिषि॒ यक्षि᳚ च प्रि॒यम् ॥
▶ पदपाठः (Word-by-word)
म॒नु॒ष्वत् । अ॒ग्ने॒ । अ॒ङ्गि॒र॒स्वत् । अ॒ङ्गि॒रः॒ । य॒या॒ति॒॑वत् । सद᳚ने । पू॒र्व॒॑वत् । शु॒चे॒ ।
अच्छ᳚ । या॒हि॒ । आ । व॒ह॒ । दैव्य᳚म् । जन᳚म् । आ । सा॒द॒य॒ । ब॒र्हिषि᳚ । यक्षि᳚ । च॒ । प्रि॒यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शुचे शुद्धियुक्तांगिरोंऽगनशील हविरादानाय तत्र तत्र गमनशीलाग्ने अच्छाभिमुख्येन सदने देवयजनदेशे याहि । गच्छ । तत्र चत्वारो दृष्टांताः । मनुष्वत् यथा मनुरनुष्ठानदेशे गच्छति । अंगिरस्वत् यथा चांगिरा गच्छति । ययातिवत् यथा ययातिर्नाम राजा गच्छति । पूर्ववत् अन्ये च पूर्वपुरुषा यथा गच्छंति । यथा मन्वादयो यज्ञे गच्छंति तद्वत् । अथवा मन्वादीनां यज्ञे यथा त्वं गच्छसि तद्वत् । गत्वा च दैव्यं देवतासमूहरूपं जनमा वह । अस्मिन्कर्मण्यानय । आनीय च बर्हिष्यास्तीर्णे दर्भ आ सादय । तान्देवानुपवेशय । उपवेश्य च प्रियमभीष्टं हविर्यक्षि च । देहि ॥ मनुष्वत् । तेन तुल्यमिति प्रथमार्थे वा तत्र तस्येवेति षष्ठ्यर्थे वा वतिः । पा ५-१-११५-११६ । अयस्मयादित्वेन भत्वाद्रुत्वाद्यभावः । प्रत्ययस्वरः । एवमंगिरस्वदित्यादिषु । वह । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः । यक्षि । लोट बहुलं छंदसीति शपो लुक् । सेर्ह्यपिच्चेति हेरभावश्छांदसः । षत्व कत्वे ॥ १७ ॥

1.31.18 समानपद
ए॒तेना᳚ग्ने॒ ब्रह्म᳚णा वावृधस्व॒ शक्ती᳚ वा॒ यत्ते᳚ चकृ॒मा वि॒दा वा᳚ ।
उ॒त प्र णे᳚ष्य॒भि वस्यो᳚ अ॒स्मान्त्सं नः᳚ सृज सुम॒त्या वाज᳚वत्या ॥
▶ पदपाठः (Word-by-word)
ए॒तेन᳚ । अ॒ग्ने॒ । ब्रह्म᳚णा । व॒वृ॒ध॒स्व॒ । शक्ती᳚ । वा॒ । यत् । ते॒ । च॒कृ॒म । वि॒दा । वा॒ ।
उ॒त । प्र । ने॒षि॒ । अ॒भि । वस्यः᳚ । अ॒स्मान् । सम् । नः॒ । सृ॒ज॒ । सु॒॑म॒त्या । वाज᳚॑वत्या ॥
▶ सायणभाष्यम् (Sayana Commentary)

साग्निचयने क्रतावुखासंभरणीयायामिष्टावग्नेर्ब्रह्मण्वतः पुरोनुवाक्यैतेनाग्न इत्येषा । दर्शपूर्णमासाभ्यामिष्ट्वेति खंड एतेनाग्ने ब्रह्मणा वावृधस ब्रह्म च ते जातवेदो नमश्च (आ ४-१) इति सूत्रितं ॥

हे अग्ने एतेनास्मत्प्रयुक्तेन ब्रह्मणा मंत्रेण ववृधस्व । अभिवृद्धो भव । शक्ती वा विदा वा अस्मदीयशक्त्या चास्मदीयज्ञानेन च ते तव यत्सोत्रं चकृम वयं कृतवंतः । एतेन ब्रह्मणेति पूर्वत्रान्वयः । उतापि चास्माननुष्ठातृन् वस्यो वसुमत्तरत्वलक्षणं श्रेयः प्रणेषि । प्रकर्षेणि प्रापय । नोऽस्मान्वाजवत्या प्रभूतान्नयुक्तया सुमत्यानुष्ठानविषयया शोभनबुद्ध्या सं सृज । संयोजय ॥ ववृधस्व । वृधु वृद्धौ । लेट्यडागमः । बहुलं छंदसीति शपः श्लुः । द्विर्भावहलादिशेषोरदत्वानि । अभ्यासस्य संहितायां दीर्घश्छांदसः । शक्ती । सुपां सुलुगिति तृतीयायाः पूर्वसवर्णदीर्घत्वम् । क्तिनो नित्त्वादाद्युदात्तत्वम् । विदा । सावेकाच इति तृतीयाया उदात्तत्वम् । नेषि । णीञ् प्रापणे । बहुलं छंदसीति शपो लुक् । उपसर्गादसमास इति णत्वम् । सुमत्या । मन् क्तिन्नित्यादिनोत्तरपदांतोदात्तत्वं प्रथमाध्याये प्रपंचितम् । ऋग्वे १-७-७ । उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वं ॥ ३५ ॥ १८ ॥