श्रवणम्

1.31.7
त्वं तम᳚ग्ने अमृत॒त्व उ᳚त्त॒मे मर्तं᳚ दधासि॒ श्रव᳚से दि॒वेदि᳚वे ।
यस्ता᳚तृषा॒ण उ॒भया᳚य॒ जन्म᳚ने॒ मयः᳚ कृ॒णोषि॒ प्रय॒ आ च᳚ सू॒रये᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । तम् । अ॒ग्ने॒ । अ॒मृ॒त॒॑त्वे । उ॒त्॑त॒मे । मर्त᳚म् । द॒धा॒सि॒ । श्रव᳚से । दि॒वे॑दि᳚वे ।
यः । त॒तृ॒षा॒णः । उ॒भया᳚य । जन्म᳚ने । मयः᳚ । कृ॒णोषि᳚ । प्रयः᳚ । आ । च॒ । सू॒रये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं तं मर्तं तथाविधं त्वत्सेविनं मनुष्यं दिवेदिवे प्रतिदिनं श्रवसेऽन्नार्थमुत्तमेऽमृतत्व उत्कृष्टे मरणरहिते पदे दधासि । धारयसि । यो यजमान उभयाय जन्मने द्विविधजन्मार्थम् । द्विपदां चतुष्पदां लाभायेत्यर्थः । ततृषाणोऽतिशयेन तृष्णायुक्तो भवति तस्मै सूरयेऽभिज्ञाय यजमानाय मयः सुखम् । यद्वै सुखं तन्मय इति श्रुत्यंतरात् । प्रयश्चान्नमप्या कृणोषि । सर्वतः करोषि ॥ ततृषाणः । ञितृषा पिपासायाम् । लिटः कानच् य चित्त्वादंतोदात्तत्वम् । संहितायां दीर्घश्छांदसः । कृणोषि । कृवि हिंसाकरणयोश्च । धिन्विकृण्व्योरच्चेत्युप्रत्ययः । चादिलोपे विभाषेति निघातप्रतिषेधः ॥ ७ ॥