ऋ॒ध्याम॒ कर्मा॒पसा॒ नवे᳚न दे॒वैर्द्या᳚वापृथिवी॒ प्राव᳚तं नः ॥
पदपाठः (Word-by-word)
ऋ॒ध्याम᳚ । कर्म᳚ । अ॒पसा᳚ । नवे᳚न । दे॒वैः । द्या॒वा॒पृ॒थि॒वी॒ इति᳚ । प्र । अ॒व॒त॒म् । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने स्तवानः स्तूयमानस्त्वं नोऽस्माकं धनानां सनये दानार्थं यशसं यशोयुक्तं कारुं कर्मणां कर्तारं पुत्रं कृणुहि । कुरु । नवेन नूतनेनापसा प्राप्तेन त्वद्दत्तेन पुत्रेण कर्म यागदानादिरूपमृध्याम । वर्धयाम । हे द्यावापृथिवी उभे देवते देवैरन्यैः सह नोऽस्मान्प्रावतम् । प्रकर्षेण रक्षतं ॥ यशसं अर्शआदित्वादच् प्रत्ययः । व्यत्ययेन प्रत्ययात्पूर्वस्योदात्तत्वम् । यद्वा । सर्वप्रातिपदिकेभ्यः क्विब्वक्तव्यः । म ३-१-११-३ । इति यशस् शब्दात् क्विप् । तस्य प्रत्ययांतस्य सनाद्यंतत्वाद्धातुसंज्ञायां क्विप्चेति क्रिप्प्रत्ययांतधातोः सति शिष्टत्वाद्धातोरित्यंतोदात्तत्वम् । कृणुहि । उतश्च प्रत्ययाच्छंदोवा वचनम् । पा ६-४-१०६-१ इति हेर्लुगाभावः । स्रवानः । सम्यानच् स्तुवः (उ २-८६) इति बहुलवचनात्केवलस्यापि स्तौतेरानच् प्रत्ययः । वृषादित्वादाद्युदात्तत्वम् । ऋध्याम । ऋधु वृद्धौ । बहुलं छंदसीति विकरणस्य लुक् । यासुट उदात्तत्वम् । द्यावापृथिवी । दिवो द्यावा (पा ६-३-२९) इति द्यावादेशः । आमंत्रितानुदात्तत्वं ॥ ८ ॥