प्रथमं मण्डलम् - सूक्तम् 41

9 ऋचः

ऋषिः: कण्वो घौरः देवता: वरुणमित्रार्यमणः छन्दः: गायत्री

सूक्तम् 1.41 - सम्पूर्णम्

1 / 9
ऋक्: 1.41.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
1.41.1
यं रक्ष᳚न्ति॒ प्रचे᳚तसो॒ वरु᳚णो मि॒त्रो अ᳚र्य॒मा ।
नू चि॒त्स द᳚भ्यते॒ जनः᳚ ॥
▶ पदपाठः (Word-by-word)
यम् । रक्ष᳚न्ति । प्र॑चे᳚तसः । वरु᳚णः । मि॒त्रः । अ॒र्य॒मा ।
नु । चि॒त् । सः । द॒भ्य॒ते॒ । जनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रचेतसः प्रकृष्टज्ञानयुक्ता वरुणादयो देवा यं यजमानं रक्षंति स जनो यजमानो नू चित् क्षिप्रमेव दभ्यते । दभ्नोति । शत्रून् हिनस्ति । प्रचेतसः । प्रकृष्टं चेतो येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । नू चित् । ऋचि तुनुघेत्यादिना दीर्घः । दभ्यते दन्भु दंभे । व्यत्ययेन श्यन् आत्मनेपदं च ॥ १ ॥

1.41.2
यं बा॒हुते᳚व॒ पिप्र᳚ति॒ पान्ति॒ मर्त्यं᳚ रि॒षः ।
अरि᳚ष्ट॒ः सर्व᳚ एधते ॥
▶ पदपाठः (Word-by-word)
यम् । बा॒हुता᳚॑इव । पिप्र᳚ति । पान्ति᳚ । मर्त्य᳚म् । रि॒षः ।
अरि᳚ष्टः । सर्वः᳚ । ए॒ध॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यं यजमानं पिप्रति वरुणादयो देवा धनैः पूरयंति । तत्र दृष्टांतः । बाहुतेव स्वकीये बाहुवर्गोऽपेक्षितं धनमानीय यथा पूरयति तद्वत् । तथा यं मर्त्यं मनुष्यं यजमानं रिषो हिंसकात् पांति रक्षंति स सर्वो यजमानोऽरिष्टः केनाप्यहिंसितः सन् एधते । वर्धते । बाहुतेव । बाहुता बाहुत्वम् । भाववाचिनानेन शब्देन बाहवस्तदाश्रया लक्ष्यंते । यद्वा । समूहार्थे तल्प्रत्ययो द्रष्टव्यः । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । पिप्रति । पृ पालनपूरणयोः । पृ इत्येके । जुहोत्यादित्वात् श्लुः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । पांति । तिङः परत्वात्पादादित्पाद्वा निघाताभावः । रिषः । रिष हिंसायां क्विप्चेति क्विप् । सावेकाच इति विभक्तेरुदात्तत्वम् । अरिष्टः । रिष हिंसायाम् । एकाच इतीट् प्रतिषेधः । व्रश्चादिना षत्वं नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ २ ॥

1.41.3
वि दु॒र्गा वि द्विषः᳚ पु॒रो घ्नन्ति॒ राजा᳚न एषाम् ।
नय᳚न्ति दुरि॒ता ति॒रः ॥
▶ पदपाठः (Word-by-word)
वि । दुः॒॑गा । वि । द्विषः᳚ । पु॒रः । घ्नन्ति᳚ । राजा᳚नः । ए॒षा॒म् ।
नय᳚न्ति । दुः॒॑इ॒ता । ति॒रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

राजानो वरुणादय एषां स्वकीययजमानानां पुरः पुरस्तात् दुर्गा गंतु दुःशकानि शत्रुनगराणि विघ्नंति । विशेषेण नाशयंति । तथा द्विषः शत्रूनपि विघ्नंति । तथा दुरिता यजमानसंबंधीनि दुरितानि तिरो नयंति । विनाशं प्रापयंति ॥ दुर्गा । दुःखेन गच्छंत्यत्रेति दुर्गाणि । सुदुरोरधिकरणे । पा ३-२-४८-३ । इति गमेर्डप्रत्ययः । शेश्छंदसि बहुलमिति शेर्लोपः । पुरः । कालवाचिनः पूर्वशब्दात् सप्तम्यर्थे पूर्वाधरावराणाम् (पा ५-३-३९) इत्यसिप्रत्ययः । तत्सन्नियोगेन पूर्वशब्दस्य पुरादेशश्च प्रत्ययस्वरः । घ्नंति । हंतेर्लट्यदादित्वाच्छपो लुक् । गमहनेत्यादिनोपधालोपः । हो हंतेः (पा ७-३-५४) इति घत्वम् । अंतादेशस्योपदेशवचनादाद्युदात्तत्वम् । पादादित्वादनिघातः ॥ ३ ॥

1.41.4
सु॒गः पन्था᳚ अनृक्ष॒र आदि᳚त्यास ऋ॒तं य॒ते ।
नात्रा᳚वखा॒दो अ᳚स्ति वः ॥
▶ पदपाठः (Word-by-word)
सु॒॑गः । पन्थाः᳚ । अ॒नृ॒क्ष॒रः । आदि᳚त्यासः । ऋ॒तम् । य॒ते ।
न । अत्र᳚ । अ॒व॒॑खा॒दः । अ॒स्ति॒ । वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आदित्यास ऋुतं यते यज्ञं गच्छते भवत्समूहाय पंथा मार्गः सुगः सुष्ठु गंतुं शक्यः अनृक्षरः कंटकरहितश्च । अत्रास्मिन्कर्मणि वो युष्माकमवखादोऽवमंतव्यः । खादो जुगुप्सितहविर्विशेषो नास्ति । तस्मादिहागंतव्यमित्यर्थः ॥ सुगः । सुदुरोरधिकरण इति गमेर्डप्रत्ययः । पंथाः । पथिमथोः सर्वनामस्थान इत्याद्युदात्तत्वम् । अनृक्षरः । ऋषी गतौ । ऋषंत्यंतर्गच्छंतीत्यृक्षराः कंटकाः । तन्यृषिभ्यां क्सरन् (उ ३-७५) इति क्सरन्प्रत्ययः कित्वाद्गुणाभावः । कत्वषत्वे । यास्कस्त्वाह । ऋक्षरः कंटक ऋच्छतेः (नि ९-३२) इति । न विद्यंते ऋक्षरा अस्मिन्नित्यनृक्षरः नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । आदित्यासः । अदितेः पुत्रा आदित्याः । दित्यदित्यादित्येश्यादिना (पा ४-१-८५) ण्यप्रत्ययः । आज्जसेरसुक् । आमंत्रिताद्युदात्तत्वम् । पादादित्वादाष्टमिकनिघाताभावः । यते । इण् गतौ । लटः शतृ । अदादित्वाच्छपो लुक् । इणो यण् (पा ६-४-८१) इति यणादेशः । शतुरनुम इति विभक्तेरुदात्तत्वम् । अवखादः । खादृ भक्षणे । भावे घञ् । अवमतः खादोऽवखादः । थाथादिनोत्तरपदांतोदात्तत्वं ॥ ४ ॥

1.41.5
यं य॒ज्ञं नय᳚था नर॒ आदि᳚त्या ऋ॒जुना᳚ प॒था ।
प्र व॒ः स धी॒तये᳚ नशत् ॥
▶ पदपाठः (Word-by-word)
यम् । य॒ज्ञम् । नय᳚थ । न॒रः॒ । आदि᳚त्याः । ऋ॒जुना᳚ । प॒था ।
प्र । वः॒ । सः । धी॒तये᳚ । न॒श॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नरो नेतार आदित्या यं यज्ञमृजुना पथाविकलेन मार्गेण नयथ पारं प्रापयथ स यज्ञो वो धीतये युष्मत्पानायोपभोगाय प्रणशत् । प्राप्नोतु ॥ नयथ । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः । अन्येषामपि दृश्यत इति संहितायां दीर्घत्वम् । पथा तृतीयैकवचने भस्य टीर्लोपः (पा ७-१-८८) इति टलोपः । अनुदात्तस्य च यत्रोदात्तलोप इति विभक्तेरुदात्तत्वम् । धीतये । धेट् पाने । आदेच इत्यात्वम् । क्तिचि घुमास्थेतीत्वम् । नशत् । नशतिर्गत्यर्थः । लेड्यडागमः । इतश्च लोप इतीकारलोपः ॥ २२ ॥ ५ ॥

1.41.6
स रत्नं॒ मर्त्यो॒ वसु॒ विश्वं᳚ तो॒कमु॒त त्मना᳚ ।
अच्छा᳚ गच्छ॒त्यस्तृ᳚तः ॥
▶ पदपाठः (Word-by-word)
सः । रत्न᳚म् । मर्त्यः᳚ । वसु᳚ । विश्व᳚म् । तो॒कम् । उ॒त । त्मना᳚ ।
अच्छ᳚ । ग॒च्छ॒ति॒ । अस्तृ᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आदित्याः स तादृशो भवद्भिरनुगृहीतो मर्त्यो मनुष्यो यजमानोऽस्तृतः केनाप्यहिंसितः सन् रत्नं रमणीयं विश्वं वसु सर्वं धनमच्छाभिमुख्येन गच्छति । प्राप्नोति । उतापि च त्मना आत्मना स्वेन सदृशं तोकमपत्यं गच्चति ॥ त्मना । मंत्रेष्वाङ्यादेरात्मनः (पा ६-४-१४१) इत्याकारलोपः । अच्छ । निपातस्य चेति दीर्घत्वम् । अस्तृतः । स्तृञ् हिंसायाम् । न स्तृतोऽस्तृतः अव्ययपूर्वपद प्रकृतिस्वरत्वं ॥ ६ ॥

1.41.7
क॒था रा᳚धाम सखाय॒ः स्तोमं᳚ मि॒त्रस्या᳚र्य॒म्णः ।
महि॒ प्सरो॒ वरु᳚णस्य ॥
▶ पदपाठः (Word-by-word)
क॒था । रा॒धा॒म॒ । स॒खा॒यः॒ । स्तोम᳚म् । मि॒त्रस्य᳚ । अ॒र्य॒म्णः ।
महि᳚ । प्सरः᳚ । वरु᳚णस्य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सखायः सखिभूता ऋत्विजो मित्रादीनां त्रयाणां महि महत् प्सरो रूपम् । अतस्तदनुरूपं स्तोमं स्तोत्रं कथा केन प्रकारेण राधाम । साधयामः । कथा । था हेतौ च छंदसि (पा ५-३-२६) इति किंशब्दात्प्रकारवचनेषु प्राग्दिशो विभक्तिरिति विभक्तिसंज्ञायां किमः कः (पा ७-२-१०३) इति कादेशः । प्रत्ययस्वरः । राधाम । राध साध संसिद्धौ । लेट बहुलं छंदसीति विकरणस्य लुक् । तिङ्ङतिङ इति निघातः । स्तोमम् । ष्टुञ् स्तुतौ । अर्तिस्तुस्वित्यादिना भावे मन् । नित्त्वादाद्युदात्तत्वम् । अर्यम्णः । षष्ठ्येकवचनेऽल्लोपोऽन इत्यकारलोपः । उदात्तनिवृत्तिस्वरेण विभकेरुदात्तत्वम् । महि मह पूजायाम् । औणादिक इन्प्रत्ययः । प्सरः । प्सा भक्षणे प्साति भक्षयतीति प्सरो रूपम् । औणादिको डरप्रत्ययः ॥ ७ ॥

1.41.8
मा वो॒ घ्नन्तं॒ मा शप᳚न्तं॒ प्रति᳚ वोचे देव॒यन्त᳚म् ।
सु॒म्नैरिद्व॒ आ वि᳚वासे ॥
▶ पदपाठः (Word-by-word)
मा । वः॒ । घ्नन्त᳚म् । मा । शप᳚न्तम् । प्रति᳚ । वो॒चे॒ । दे॒व॒॑यन्त᳚म् ।
सु॒म्नैः । इत् । वः॒ । आ । वि॒वा॒से॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रादयो देवा देवयंतं देवान्कामयमानं यजमानं यः शत्रुर्हंति घ्नंतं तादृशं शत्रुं वो युष्मभ्यं मा प्रति वोचे । दुरुक्तकथनभीत्याहं न कथयामि । तथा यजमानं यः शत्रुः शपति तमपि शपंतं मा प्रति वोचे । भवद्भिरेव विचार्य शिक्षणीय इत्यर्थः । अहं तु सुम्नैरित् धनैरेव वो युष्माना विवासे । सर्वतः परिचरामि ॥ घ्नंतम् । हंतीति घ्नन् । गमहनेत्यादिनोपधालोपः । हो हंतेरिति कुत्वे प्रत्ययस्वरः । शपंतम् । शप आक्रोशे अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । वोचे । ब्रूञ् व्यक्तायां वाचि । माङि लुङीट ब्रुवो वचिः (पा २-४-५३) इति वचिः । अस्यतिवक्तीत्यादिना च्लेरङादेशः । वच उमित्युमागमः । न माङ्योग इत्यडभावः । देवयंतम् । सुप आत्मनः क्यच् । न छंदस्यपुत्रस्येतीत्वप्रतिषेधः । सुम्नैः । म्ना अभ्यासे । सुष्ठु म्नायतेऽभ्यस्यत इति सुम्नम् । आतश्चोपसर्ग इति कप्रत्ययः । आतो लोप इट चेत्याकारलोपः । विवासे । विनासतिः परिचरणकर्मा ॥ ८ ॥

1.41.9
च॒तुर᳚श्चि॒द्दद᳚मानाद्बिभी॒यादा निधा᳚तोः ।
न दु᳚रु॒क्ताय᳚ स्पृहयेत् ॥
▶ पदपाठः (Word-by-word)
च॒तुरः᳚ । चि॒त् । दद᳚मानात् । बि॒भी॒यात् । आ । नि॑धा᳚तोः ।
न । दुः॒॑उ॒क्ताय᳚ । स्पृ॒ह॒ये॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

घ्नंतं शपंतं च मा प्रतिवोच इति यदुक्तं तत्रोपपत्तिरुच्यते । दुरुक्ताय न स्पृहयेत् । दुष्टं वाक्यं न कामयेत् किंतु दुरुक्ताद्बिभीयात् । तत्रावशिष्टो मंत्रभागः सर्वोपि दृष्टांतः । चिदित्युपमार्थे वर्तते । अक्षद्यूतं कुर्वतोरुभयोर्मध्ये यः पुमान् चतुरश्चतुः संख्याकान्कपर्दकान्ददमानाद्द दतो हस्ते धारयतः पुरुषात् । आ निधातोः कपर्दकनिपातपर्यंतं बिभीयात् अस्य जयो भविष्यति । न भविष्यतीत्यन्यो भीतिं प्राप्नुयात् । अत्र यथा भयं तथादुरुक्ताद्भेतव्यमिति धर्मरहस्यम् । तस्मादहं घ्नंतं शपंतं मा प्रतिवोच इत्यभिप्रायः । अत्र निरुक्तं चतुरोऽक्षान्धारयत इति । तद्यथा कितवाद्बिभियादेवमेव दुरुक्ताद्बिभीयान्न दुरुक्ताय स्पृहयेत् (नि ३-१६) इति ॥ चतुरः । चतुरः शसि (पा ६-१-१६७) इति विभक्तेः पूर्वस्योदात्तत्वम् । ददमानात् । दद दाने । अत्र धारणार्थः शपः पित्वादनुदात्तत्वम् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वेन शानजनुदात्तः धातुस्वरः एव शिष्यते । बिभीयात् । ञिभी भये । लिङि जुहोत्यादित्वाच्छपः श्लुः । यासुट उदात्तत्वम् । पादादित्वान्निघाताभावः । निधातो । निपूर्वाद्दधातेः सितनिगमीत्यादिना (उ १-७०) भावे शुन्प्रत्ययः । व्यत्ययेनाद्युदात्तत्वम् । तादौ चेति गतिस्वरो न भवति । अताविति पर्युदस्तत्वात् । दुरुक्ताय । स्पृहेरीप्सितः (पा १-४-३६) इति संप्रदानसंज्ञायां चतुर्थी संप्रधाने (पा २-३-१३) इति चतुर्थी । स्पृहयेत् । स्पृह ईप्सायाम् । चुरादिरदंतः । अतो लोपस्य स्थानिवद्भावाल्लघूपधगुणाभावः ॥ २३ ॥ ९ ॥