श्रवणम्

1.41.5
यं य॒ज्ञं नय᳚था नर॒ आदि᳚त्या ऋ॒जुना᳚ प॒था ।
प्र व॒ः स धी॒तये᳚ नशत् ॥
▶ पदपाठः (Word-by-word)
यम् । य॒ज्ञम् । नय᳚थ । न॒रः॒ । आदि᳚त्याः । ऋ॒जुना᳚ । प॒था ।
प्र । वः॒ । सः । धी॒तये᳚ । न॒श॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नरो नेतार आदित्या यं यज्ञमृजुना पथाविकलेन मार्गेण नयथ पारं प्रापयथ स यज्ञो वो धीतये युष्मत्पानायोपभोगाय प्रणशत् । प्राप्नोतु ॥ नयथ । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः । अन्येषामपि दृश्यत इति संहितायां दीर्घत्वम् । पथा तृतीयैकवचने भस्य टीर्लोपः (पा ७-१-८८) इति टलोपः । अनुदात्तस्य च यत्रोदात्तलोप इति विभक्तेरुदात्तत्वम् । धीतये । धेट् पाने । आदेच इत्यात्वम् । क्तिचि घुमास्थेतीत्वम् । नशत् । नशतिर्गत्यर्थः । लेड्यडागमः । इतश्च लोप इतीकारलोपः ॥ २२ ॥ ५ ॥