प्रथमं मण्डलम् - सूक्तम् 62

13 ऋचः

ऋषिः: नोधा गौतमः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 1.62 - सम्पूर्णम्

1 / 13
ऋक्: 1.62.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (13)
1.62.1 समानपद
प्र म᳚न्महे शवसा॒नाय᳚ शू॒षमा᳚ङ्गू॒षं गिर्व᳚णसे अङ्गिर॒स्वत् ।
सु॒वृ॒क्तिभि᳚ः स्तुव॒त ऋ᳚ग्मि॒यायार्चा᳚मा॒र्कं नरे॒ विश्रु᳚ताय ॥
▶ पदपाठः (Word-by-word)
प्र । म॒न्म॒हे॒ । श॒व॒सा॒नाय᳚ । शू॒षम् । आ॒ङ्गू॒षम् । गिर्व᳚णसे । अ॒ङ्गि॒र॒स्वत् ।
सु॒वृ॒क्ति॑भिः᳚ । स्तु॒व॒ते । ऋ॒ग्मि॒याय᳚ । अर्चा᳚म । अ॒र्कम् । नरे᳚ । वि॑श्रु᳚ताय ॥
▶ सायणभाष्यम् (Sayana Commentary)

अथ पंचमाध्याय आरभ्यते । प्रथमे मंडल एकादशेऽनुवाके चत्वारि सूक्तानि गतानि । प्रमन्मह इत्येतत्त्रयोदशर्चं सूक्तम् । अत्रानुक्रम्यते प्रसप्तोनेति । अनिरुक्ता संख्या विंशतिः । अनु १२-४ । इत्युक्त्वत्वात्प्र सप्तोनेत्युक्ते त्रयोदशेत्युक्तं भवति । ऋषिश्चान्यस्मादिति परिभाषया नोधा ऋषिः । अनादेशपरिभाषया त्रिष्टुप् छंदः । इंद्रो देवता ॥ गतः सामान्यविनियोगः । विशेषविनियोगस्तु लिंगादवगंतव्यः ॥

शवसानाय । शव इति बलनाम । तदिवाचरते । यथा बलं शत्रून्हंति तथा शत्रूणां हंतेत्यर्थः । गिर्वणसे । गीर्भिः स्तुतिलक्षणैर्वचोभिः संभजनीयाय । गिर्वणा देवो भवति गीर्भिरेनं वनयंति (नि ६-१४) इति यास्कः । एवंभूतायेंद्राय । शूषमिति सुखनाम । शूषं सुखहेतुभूतम् । आंगूषः स्तोम आघोघः (नि ५-११) इति यास्कः । आंगूषं स्तोत्रमंगिरस्वत् अंगिरस इव प्रमन्महे । वयं स्तोतारः प्रकर्षेणावगच्छामः । अवगत्य च सुवृक्तिभिः सुष्ट्वावर्जकैः स्तुत्याभिमुखीकरणसमर्थैः स्तोत्रैः स्तुवते स्तोत्रं कुर्वते ऋषये य इंद्र ऋग्मियोऽर्चनीयो भवति । यद्वा । कर्मणि कर्तृप्रत्ययः । ऋषिणा स्तूयमानायेत्यर्थः । नरे सर्वेषां नेत्रे । यद्वा । नरे यजमाने । विश्रुताय यष्वव्यतया विशेषेण प्रख्याताय । एवंभूताय तस्मा आर्कं मंत्ररूपं स्तोत्रम् । अर्को मंत्रो भवति यदेनेनार्चंति (नि ५-४) इति यास्कः । अर्चाम । पूजयाम । उच्चारयामेत्यर्थः ॥ मन्महे । मनु अवबोधने । तनादित्वादुप्रत्ययः । लोपश्चास्यान्यतरस्यां म्वो (पा ६-४-१०७) इति मकारादौ प्रत्यय उकारलोपः । शवसानाय । शव इवाचरति शवस्यते । अस्माल्लटः शानच् । बहुलं छंदसीति शपो लुक् । शानचश्छंदस्युभयथेत्यार्धधातुकत्वादतोलोपयलोपौ । चित इत्यंतोदात्तत्वम् । ननु क्यङो ङित्त्वात्तास्यनुदात्तेदिति शानचोऽनुदात्तेन भवितव्यम् । एवं तर्हि ताच्छीलिकश्चानश् । तस्य सार्वधातुकत्वेऽपि लसार्वधातुकत्वाभावच्चितः स्वर एव शिष्यते । शूषम् । शूष प्रसवे । पचाद्यच् । आंगूषम् । आङ् पूर्वाद्घुषेः पचाद्यचि घो इत्यस्य गूआदेशः पृषोदरादित्वात् । आङो ङकारस्येत्संज्ञा भावश्छांदसः । चित्स्वरेणोत्तरपदस्यांतोदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् । घञि वा थाथादिनोत्तरपदांतोदात्तत्वम् । गिर्वणसे । गृ शब्दे । संपदादिलक्षणो भावे क्विप् । ऋूत इद्धातोरितीत्वम् । गीर्भिर्वन्यते संभज्यत इति गिर्वणाः । औणादिकः कर्मण्यसुन् । संज्ञापूर्वकस्य विधेरनित्यत्वाद्धलि चेति दीर्घाभावः । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं चेति वचनात्पूर्वपदप्रकृतिस्वरत्वम् । अंगिरस्वत् । तेन तुल्यमिति वतिः । नभोऽंगिरो मनुषां वत्युपसंख्यानम् । पा १-४-१८-३ । इति भसंज्ञायां रुत्वाद्यभावः । प्रत्ययस्वरः । सुवृक्तिभिः । वृजी वर्जने । भावे क्तिन् । तितुत्रेतीट् प्रतिषेधः । शोभनमावर्जनं येषाम् । नञ्लुभ्यामित्युत्तरपदांतोदात्तत्वम् । ननु क्तिनंतस्योत्तरपदस्याद्युदात्तत्वादाद्युदात्तं द्व्यच्छंदसीति वचनादात्तरपदाद्युदात्तत्वम् । प्राप्नोति । एवं तर्हि तत्पुरुषोऽस्तु । शोभनमावर्जितो भवत्येभिरिति सुवृक्तयः स्तोत्राणि । करणी क्तिन् । तादौ च नितीति गतेः प्रकृतिस्वरत्वे प्राप्ते मन् क्तिन्नित्यादिना कारकादुत्तरस्य क्तिनो विहितमुत्तरपदांतोदात्तत्वमकारकादपि व्यत्ययेन भवति । स्तुवते । शतुरनुम इति विभक्तेरुदात्तत्वम् । ऋग्मियाय । एकाचो नित्यं मयटमिच्छंति । का ४-३-१४४ । इति ऋक्शब्दाद्विकारार्थे मयट् । स्वादिष्वसर्वनामस्थाने (पा १-४-१७) इति पदसंज्ञायां कुत्वजश्त्वे । व्यत्ययेनेत्वम् । यद्वा । ऋच स्तुतावित्यस्माद्भावे मक् । बहुलवचनात्कुत्वं जश्त्वं च । ऋग्मं स्तुतिमर्हतीति ऋग्मियः । अहार्थे घच् । चित इत्यंतोदात्तत्वम् । अर्चाम । अर्च पूजायाम् । भौवादिकः । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः । शिष्यते । अर्कम् । अर्च्यतेऽनेनेत्यर्कः । पुंसि संज्ञायां घः प्रायेणेति घप्रत्ययः । चचोः कु घिण्यतोरिति कुत्वम् । नरे नृशब्दाच्चतुर्थेकवचने गुणश्छांदसः । विश्रुताय । श्रु श्रवणे । कर्मणि निष्ठा । गतिरनंतर इति गतेः प्रकृतिस्वरत्वं ॥ १ ॥

1.62.2 समानपद
प्र वो᳚ म॒हे महि॒ नमो᳚ भरध्वमाङ्गू॒ष्यं᳚ शवसा॒नाय॒ साम᳚ ।
येना᳚ न॒ः पूर्वे᳚ पि॒तरः᳚ पद॒ज्ञा अर्च᳚न्तो॒ अङ्गि᳚रसो॒ गा अवि᳚न्दन् ॥
▶ पदपाठः (Word-by-word)
प्र । वः॒ । म॒हे । महि᳚ । नमः᳚ । भ॒र॒ध्व॒म् । आ॒ङ्गू॒ष्य᳚म् । श॒व॒सा॒नाय᳚ । साम᳚ ।
येन᳚ । नः॒ । पूर्वे᳚ । पि॒तरः᳚ । प॒द॒॑ज्ञाः । अर्च᳚न्तः । अङ्गि᳚रसः । गाः । अवि᳚न्दन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विजो वो यायं महे महते शवसानाय बलमिवाचरते । अतिबलायेत्यर्थः उत्तरवाक्ये यच्छब्दश्रुतेस्तच्छब्दाध्याहारः । एवंभूताय तस्मा इंद्राय महि महत्प्रौढं नमः स्तोत्रं प्र भरध्वम् । प्रकर्षेण संपादयत । किं तत्स्तोत्रमित्याह । आंगूष्यं साम आघोषयोग्यं रथंतरादि साम । तन्निष्पाद्यतामित्यर्थः । अभि त्वा शूरेत्यादिष्वृक्षु यद्गानं तस्य सामेत्याख्या । तथा चोक्तम् । गीतिषु सामाख्येति । यॆनेंद्रेण नोऽस्माकं पितरः पितृविशेषाः । पूर्वे पूर्व पुरुषा अंगिरसः पणिनाम्ना सुरेणापहृतानां गवां पदज्ञा मार्गज्ञाः संतोऽत एवार्चंतस्तं पूजयंतो गा आविंदन् । आलभंत ॥ वः प्रथमार्थे द्वितीया । पदज्ञाः पदानि जानंतीति । आतोऽनुपसर्गे क इति कः । आतो लोप इट चेत्या कारलोपः । अविंदन् । विद्लृलाभे । शे मुचादीनामिति नुमागमः ॥ २ ॥

1.62.3
इन्द्र॒स्याङ्गि᳚रसां चे॒ष्टौ वि॒दत्स॒रमा॒ तन᳚याय धा॒सिम् ।
बृह॒स्पति᳚र्भि॒नदद्रिं᳚ वि॒दद्गाः समु॒स्रिया᳚भिर्वावशन्त॒ नरः᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚स्य । अङ्गि᳚रसाम् । च॒ । इ॒ष्टौ । वि॒दत् । स॒रमा᳚ । तन᳚याय । धा॒सिम् ।
बृह॒स्पतिः᳚ । भि॒नत् । अद्रि᳚म् । वि॒दत् । गाः । सम् । उ॒स्रिया᳚भिः । वा॒व॒श॒न्त॒ । नरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रेदमाख्यानं सरमा नाम देवशुनी । पणिभिर्गोष्वपहृतासु तद्गवेषणाय तां सरमामिंद्रः पाहैषीत् । यथा लोके व्याधो वनांतर्गतमृगान्वेषणाय श्वानं विसृजति तद्वत् । सा च सरमैवमवोचत् । हे इंद्र अस्मदीयाय शिशवे तद्गोसंबंधि क्षीराद्यन्नं यदि प्रयच्छसि तर्हि गमिष्यामीति । स तथेत्यब्रवीत् । तथा च शाट्यायनकम् । अन्नादिनीं ते सरमे प्रजां करोमि या नोगा अन्वविंद इति । ततो गत्वा गवां स्थानमज्ञासीत् । ज्ञात्वा चास्मै न्यवेदयात् । तथा निवेदितासु गोषु तमसुरं हत्वा ता गाः स इंद्रोऽलभतेति । अयमर्थोऽस्यां प्रतिपाद्यते ॥ इंद्रस्यांगिरसामृषीणां चेष्टौ प्रेषणे सति सरमा देवशुनी तनयाय स्वपुत्राय धासिमन्वं विदत् । अविंदत् । धासिरित्यन्ननाम । धासिरिरेति तन्नामसु पाठात् । तया गोषु निवेदितासु बृहस्पतिर्बृहतां देवानामधिपतिरिंद्रोऽद्रिमत्तारमसुरं भिनत् । अवधीत् । केनापहृता गा विदत् । अलभत । ततो नरो नेतारो देवा उस्रियाभिर्गोभिः सह । उस्रियेति गोनाम । सं वावशंत । भृशं हर्षशब्दमकुर्वन् । यद्वा गोभिः साधनभूताभिस्तदीयं क्षीरादिकमकामयंत । समगच्छंतेत्यर्थः ॥ इष्टौ । इष गतावित्यस्माद्भावे क्तिनि मंत्रे वृषेत्यादिनाक्तिन उदात्तत्वम् । विदत् । विद्लृलाभे । लुङि लृदित्वादङ् । बहुलं छंदस्यमाङ्यो गेऽपीत्यडभावः । अङि एव स्वरः शिष्यते । पादादित्वान्निघाताभावः । सरमा । सरमा सरणात् । नि ११-२४ । इति यास्कः । सर्तेरौणादिकोऽमप्रत्ययः । धासिम् । धेट् पाने । धीयते पीयत इति धासिः । औणादिकः सिप्रत्ययः । यद्वा । दधातेः पोषणार्थात् । सिप्रत्ययः । बृहस्पतिः तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च (पा ६-१-१५७) इति सुडागमस्तलोपश्च । बृहच्छब्दोऽंतोदात्तः । तस्य केचिदाद्युदात्तत्वं वर्णयंतीत्युक्तम् । पतिशब्दो डतिप्रत्ययांत आद्युदात्तः । अत उभे वनस्पत्यादिष्विति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । उस्रियाभिः । निवसत्यस्यां क्षीरादिकमित्युस्रा गौः । वस निवास इत्यस्मात् स्फायितंचीत्यादिनाधिकरणे रक् । वचिस्वपीत्यादिना संप्रसारणम् । उस्राशब्दात्स्वार्थे पृषोदरादित्वेन घप्रत्यय इति निघंटुभाष्यम् । घस्येयादेशः । प्रत्ययस्वरः । वावशंत । वाशृ शब्दे । अस्माद्य ङंताल्लङिझस्यांतादेशे सति तस्य छंदस्यु भयथेत्यार्धधातुकत्वादतोलोपयलोपौ । व्यत्ययेन धातोर्ह्रस्वत्वम् । यद्वा । वश कांतावित्यस्माद्यङि न वशः (पा ६-१-२०) इति संप्रसारणे प्रतिषिद्धे पूर्ववत्प्रक्रिया ॥ ३ ॥

1.62.4
स सु॒ष्टुभा॒ स स्तु॒भा स॒प्त विप्रै᳚ः स्व॒रेणाद्रिं᳚ स्व॒र्यो॒३॒᳚ नव᳚ग्वैः ।
स॒र॒ण्युभि᳚ः फलि॒गमि᳚न्द्र शक्र व॒लं रवे᳚ण दरयो॒ दश᳚ग्वैः ॥
▶ पदपाठः (Word-by-word)
सः । सु॒॑स्तुभा᳚ । सः । स्तु॒भा । स॒प्त । विप्रैः᳚ । स्व॒रेण᳚ । अद्रि᳚म् । स्व॒र्यः᳚ । नव᳚॑ग्वैः ।
स॒र॒ण्यु॑भिः᳚ । फ॒लि॒॑गम् । इ॒न्द्र॒ । श॒क्र॒ । व॒लम् । रवे᳚ण । द॒र॒यः॒ । दश᳚॑ग्वैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अंगिरसो द्विविधाः । सत्रयागमनुतिष्ठंतो ये नवभिर्मासैः समाप्य गतास्ते नवग्वाः ॥ नवग्वा नवनीतगतय इति यास्को व्याचख्यौ । नि ११-१९ । ये तु दशभिर्मासैः समाप्य जग्मुस्ते दशग्वाः । तादृशैरुभयविधैर्विप्रैर्मेधाविभिः सरण्युभिः सरणं शोभनां गतिमिच्छद्भिः सप्त सप्तसंख्याकैः । सप्तह्यंत्र मेधातिथिप्रभृतयोऽंगिरसो दृश्यंते । एवंभूतैरंगिरोभिः सुष्टुभा शोभनस्तोभयुक्तेन स्वरेणोदात्तादिश्रव्यस्वरोपेतेन । यद्वा । मंद्रमध्यमादिस्वरेण स्तुभा स्तोत्रेण स्वर्यः सुष्ठु प्राप्यः । यद्वा । शब्दनीयः । स्तुत्य इत्यर्थः । हे शक्र शक्तिमन्निंद्र एवंभूतः स त्वमद्रिमादरणीयम् । वज्रेण च्छेत्तव्यमित्यर्थः । फलिगम् । प्रतिफलं प्रतिबिंबम् । तदस्मिन्नस्तीति फलि स्वच्छमुदकम् । तद्गच्छत्याधारत्वेनेति फलिगः । यद्वा । व्रीह्यादि फलम् । तदत्त्यस्मिन्सति भवतीति फलि वृष्टिजलम् । तद्गच्छतीति फलिगः । यद्वा । व्रीह्यादि फलम् । तदस्त्यस्मिन्सति भवतीति फलि वृष्टजलम् । तद्गच्छतीति फलिगः । एवंभूतं वलं मेघं रवेणात्मीयेन शब्देन दरयः । अभाययः त्वदीयशब्दश्रवणमात्रेण मेघो बिभेतीत्यर्थः । यद्वा । अद्रिः । पर्वतः । अद्यतेऽस्मिन्पटलादिकमिति । फलिगो मेघः । फलिग उपल इति तन्नामसु पाठात् । वलोऽसुरः । देवा वै वले गाः पर्यपश्यन् । ऐ । ब्रा । ६-२४ । इत्यादावसुरे । प्रयुक्तत्वात् । एते त्रयोऽपि त्वदीयशब्दश्रवणमात्रेणाबिभयुरित्यर्थः ॥ स इत्येकः पादपूरणः । सुष्टुभा । स्तोभतिः । स्तुतिकर्मा । संपदादिलक्षणो भावे क्विप् । शोभनः स्तुप् स्तोभो यस्य । नञ्सुभ्यामित्युत्तरपदांतोदात्त्वम् । उपसर्गात्सुनोतीति षत्वम् । स्तुभा । करणभूतस्यापि स्तोत्रस्य स्वव्यापारे कर्तृत्वात् स्तोभति स्तौतीति क्विप्चेति कर्तरि क्विप् । सावेकाच इति विभक्तेरुदात्तत्वम् । सप्त । सुपां सुलुगिति भिसो लुक् । स्वर्यः । स्वृ शब्दोपतापयोः । ऋहलोर्ण्यदिति ण्यत् । वृद्ध्यभावश्छांदसः । तित्स्वरित इति स्वरितत्वम् । नवग्वैः । नवशब्द उपपदे गमेर्भावे क्विपि गमः क्वावित्यनुनासिकलोप ऊ च गमादीनामिति वक्तव्यम् । पा ६-४-४०-२ । इत्यूकारांतादेशः । नवभिर्गूर्गमनं येषां ते नवग्वाः । अकारोपजनश्छांदसः । यद्वा । गमेर्भावे ड्वप्रत्ययः । पूर्ववद्बहुव्रीहिः । बहुप्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सरण्युभिः । सरणमात्मन इच्छंतः सरण्यवः । क्यच्यंत्यलोपश्छांदसः । क्याच्छंदसीत्युः । फलिगम् । फल्युदकं गच्छतीति फलिगः । डोऽन्यत्रापि दृश्यते (पा ३-२-४८) इति गमेर्डः । वलम् । वृणोतीति वलः । पचाद्यच् । कपिलकादित्वाल्लत्वम् (म ८-२-१८) दरयः । दृ विदारणे । वृद्धौ कृतायां दृ भय इति घटादिषु पाठान्मित्त्वे मितां ह्रस्व इति ह्रस्वत्वं ॥ ४ ॥

1.62.5 समानपद
गृ॒णा॒नो अङ्गि᳚रोभिर्दस्म॒ वि व᳚रु॒षसा॒ सूर्ये᳚ण॒ गोभि॒रन्ध᳚ः ।
वि भूम्या᳚ अप्रथय इन्द्र॒ सानु᳚ दि॒वो रज॒ उप᳚रमस्तभायः ॥
▶ पदपाठः (Word-by-word)
गृ॒णा॒नः । अङ्गि᳚रः॑भिः । द॒स्म॒ । वि । वः॒ । उ॒षसा᳚ । सूर्ये᳚ण । गोभिः᳚ । अन्धः᳚ ।
वि । भूम्याः᳚ । अ॒प्र॒थ॒यः॒ । इ॒न्द्र॒ । सानु᳚ । दि॒वः । रजः᳚ । उप᳚रम् । अ॒स्त॒भा॒यः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे दस्म दर्शनीय शत्रूणामुपक्षयितर्वेंद्र त्वमंगिरोभिर्ऋषिभिर्गृणानः स्तूयमानः सन् उषसा सूर्येण च सह गोभिः किरणैरंधोऽंधकारं वि वः । व्यवृणोः । व्यनाशय इत्यर्थः । तथा हे इंद्र त्वं भूम्याः पृथिव्याः सानु समुच्छ्रितप्रदेशं व्यप्रथयः । विशेषेण विस्तीर्णमकरोः । विषमामिमां समीकृतवानित्यर्थः । तथा दिवोऽंतरिक्षस्य रजो रजसो लोकस्योपरमुप्तं मूलप्रदेशमस्तभायः । अस्तभ्नाः । यथांतरिक्षलोकस्य मूलं दृढं भवति तथाकार्षीरित्यर्थः ॥ गृणानः । कर्मणि लटः शानचि यकि प्राप्ते व्यत्ययेन श्ना । प्वादीनां ह्रस्व इति ह्रस्वत्वम् । चित्स्वरेणांतोदात्तत्वम् । दस्म । दसु उपक्षये । इषियुधींधिदसीत्यादिना मक् । वः । वृञ् वरणे । लुङि सिपि मंत्रे घसेत्यादिना च्लेर्लुक् । गुणे हल्ङ्याब्भ्य इति सलोपः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । अंधः । तमोऽप्यंध उच्यते नास्मिन्ध्यानं भवति । नि । ५-१ । इति यास्कः । रजः । लोका राजांस्युच्यंत इत्युक्तत्वाद्रजःशब्दो लोकवचनः । सुपां सुलुगिति षष्ठ्यालुक् । अस्तभायः । लङि स्तंभुस्तुंभ्वित्यादिना (पा ३-१-८२) श्नाप्रत्ययस्य शायजादेशः । अनिदितामिति नलोपः अडागमः ॥ ५ ॥

1.62.6
तदु॒ प्रय᳚क्षतममस्य॒ कर्म᳚ द॒स्मस्य॒ चारु᳚तममस्ति॒ दंसः᳚ ।
उ॒प॒ह्व॒रे यदुप᳚रा॒ अपि᳚न्व॒न्मध्व᳚र्णसो न॒द्य१॒᳚श्चत᳚स्रः ॥
▶ पदपाठः (Word-by-word)
तत् । ऊं॒ इति᳚ । प्रय᳚क्ष॑तमम् । अ॒स्य॒ । कर्म᳚ । द॒स्मस्य᳚ । चारु᳚॑तमम् । अ॒स्ति॒ । दंसः᳚ ।
उ॒प॒॑ह्व॒रे । यत् । उप᳚राः । अपि᳚न्वत् । मधु᳚॑अर्णसः । न॒द्यः᳚ । चत᳚स्रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रवर्ग्येऽभिष्टवे तदु प्रयक्षतममित्येषा । अथोत्तरमित्यत्र सूत्रितम् । तदु प्रयक्षतममस्य कर्मात्मन्वन्नभो दुह्यते घृतं पयः (आ ४-७) इति ॥

दस्मस्य दर्शनीयस्यास्येंद्रस्य तदु तदेव कर्म प्रयक्षतमम् । अतिशयेन पूज्यम् । दंस इति कर्मनाम । दंसस्तदेव कर्म चारुतमम् । अतिशयेन शोभनम् । किं तदित्यत आह । अयमिंद्र उपह्वर उपह्वर्तव्ये गंतव्ये पृथिव्याः संबंधिनि समीपदेश उपरा उप्ताः स्थापिता मध्वर्णसो मधुरोदकाश्चतस्रो नद्यः प्रधानभूता गंगादिनदीरपिन्वत् । असिंचदिति । यदेत्कर्म तदन्येन कर्तुमशक्यत्वात्पूज्यमित्यर्थः ॥ प्रयक्षतमम् । यक्ष पूजायाम् । यक्ष्यत इति यक्षः । अतिशयेन यक्षो यक्षतमः । पुनः प्रादिसमासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । दंसः । दसि दंसनदर्शनयोः । चुरादिरात्मनेपदी । दंस्यते कर्तव्यतया दृश्यत इति दंसः कर्म । औणादिकः कर्मण्यसुन् । उपह्वरे । ह्वृ कौटिल्ये । कौटिल्यलक्षणगतिवाचिनात्र गतिमात्रं लक्ष्यते । उपह्वरंति गच्छंत्यस्मिन्नद्य इत्युपह्वरो भूप्रदेशः । पुंसि संज्ञायां घः प्रायेणेत्यधिकरणे घप्रत्ययः । गुणः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अपिन्वत् । पिवि सेचने । भौवादिकः । चतस्रः । शस् । त्रिचतुरोः स्त्रीयां तिसृचतसृ इति चतुर् शब्दस्य चतस्रादेश आद्युदात्तो निपातितः । पूर्वसवर्णदीर्घे प्राप्तेऽचि र ऋत इति रेफादेशः । पा ७-२-९९, १०० । चतुर् शब्दस्याद्युदात्तत्वात्स्थानिवद्भावेन चतस्रादेशस्याद्युदात्तत्वे सिद्धेऽपि पुनराद्युदात्तनिपातनसामार्थ्याद्यणादेशस्य वा पूर्वविधौ स्थानिवद्भावाच्चतुरः शसीत्यंतोदात्तत्वस्याभावः । न च न पदांतेति स्थानिवद्भावप्रतिषेधः । स्वरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवत् अन्यत्तु स्थानिवदेव (म १-१-५८) इति नियमात् ॥ ६ ॥

1.62.7 समानपद
द्वि॒ता वि व᳚व्रे स॒नजा॒ सनी᳚ळे अ॒यास्य॒ः स्तव᳚मानेभिर॒र्कैः ।
भगो॒ न मेने᳚ पर॒मे व्यो᳚म॒न्नधा᳚रय॒द्रोद᳚सी सु॒दंसा᳚ः ॥
▶ पदपाठः (Word-by-word)
द्वि॒ता । वि । व॒व्रे॒ । स॒॑नजा᳚ । सनी᳚ळे॒ इति॒ स॑नी᳚ळे । अ॒यास्यः᳚ । स्तव᳚मानेभिः । अ॒र्कैः ।
भगः᳚ । न । मेने॒ इति᳚ । प॒र॒मे । वि॑ओ᳚मन् । अधा᳚रयत् । रोद᳚सी॒ इति᳚ । सु॒॑दंसाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयास्यः । यासः प्रयत्नः । तत्साध्यो यास्यः । न यास्योऽयास्यः । युद्धरूपैः प्रयत्नैः साधयितुमशक्य । इत्यर्थः । कथं साध्यत इत्यत आह । स्तवमानेभिः स्तोत्रं कुर्वद्भिः पुरुषैरर्कैः स्तुतिरूपैर्मंत्रैः स्तूयमानः सन्निंद्रः सुसाध्यो भवति । यद्वा । अयास्यः पंचवृत्तिर्मुख्यप्राणः । स ह्यास्यान्मुखादयते गच्छति निष्क्रामति । तदुपासकोऽप्यंगिरा उपचारादयास्य उच्यते । तथा च छंदोगैराम्नातम् । तं हायास्य उद्गीथमुपासां चक्र एतमु एवायास्यं मन्यंत आस्याद्यदयते तेन । छां उ १-२-१२ । इति । अथवा । अयमास्ये मुखे वर्तत इत्ययास्यः । तथा च वाजसनेयकम् । ते होचुः क्व नु सोऽभूद्यो न इत्थमस्तक्तेत्ययमास्येऽंतरिति । शत । ब्रा । १४-४-१-९ । इति । पूर्ववदुपासकोऽप्ययास्यः । तेन ऋषिणा स्तवमानेभिर्गुणिनिष्ठ गुणाभिधानलक्षणां स्तुतिं कुर्वद्भिरर्कैर्मंत्रैः करणभूतैः स्तूयमानः सन् सनजा । सनेति निपातो नित्यार्थः । नित्यजाते । सर्वदा विद्यमानस्वभावे इत्यर्थः । प्रथमभावविकारवाचिना जनिना द्वितीयो भावविकारः । सत्ता लक्ष्यते । यथौत्पत्तिकस्तु शब्दस्यार्थेन संबंध इत्यौत्पत्तिकमिति नित्यं ब्रूम इति हि तद्भाष्यम् । सनीळे समानं नीळमेको निवासस्थानं ययोस्ते । संलग्ने इत्यर्थः । एवंविधे द्यावापृथिव्यौ द्विता द्विधा वि वव्रे । विवृते अकरोत् । भेदेनास्थापयदित्यर्थः । मेने मननीये परम उत्कृष्टे व्योमन विविधरक्षणे नभसि वर्तमानो भगो न सूर्य इव सुदंसाः शोभनकर्मेंद्रो रोदसी द्यावापृथिव्यावधारयत् । अपोषयत् । यद्वा । मेनेति स्त्रीनाम । तथा च यास्कः । मेना ग्ना इति स्त्रीणां मेना मानयंत्येना इति (नि ३-२१) स्त्रीरूपमापन्ने रोदसी इंद्रोऽपुष्यदित्यर्थः ॥ द्विता । द्विधेत्यस्य धकारस्य तकारश्छांदसः । सनजा । जनी प्रादुर्भावे । अस्माद्भावेऽन्येष्वपि दृश्यत इति दृशिग्रहणस्य तकारश्छांदसः । सनजा । जनी प्रादुर्भावे । अस्माद्भावेऽन्येष्वपि दृश्यत इति दृशिग्रहणस्य सर्वोपाधिव्यभिचारार्थात्वात् केवलादपि जनेर्डप्रत्ययः । सना नित्यं जो जननं ययोस्ते सनजे । पूर्वपदस्य ह्रस्वश्छांदसः । एवमादित्वादंतोदात्तत्वम् । तदेव । बहुव्रीहिस्मरेण शिष्यते । सुपां सुलुगिति विभक्तेराकारः । अयास्यः । यसु प्रयत्ने । यासः प्रयत्नः । तत्र भवो यास्यः । भवे छंदसीति यत् । न यास्योऽयास्यः । परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । श्रुत्युक्तनिर्वचने तु पृषोदरादित्वादभिमतरूपस्वरसिद्धिः । मेने । सप्तम्येकवचनस्य सुपां सुलुगिति शे आदेशः । शे (पा १-१-१३) इति प्रगृह्यत्वम् । यद्वा । मन्यत इति मेना । पचाद्यच् । नशिमन्योरलिट्येत्वं वक्तव्यम् । पा ६-४-१२०-५ । इत्येत्वम् । ततष्वाप् । द्विवचन ईदूदेद्द्विवचनम् (पा १-१-११) इति प्रगृह्यत्वम् । सुदंसाः । दंस इति कर्मवाची । असुन्प्रत्ययांत आद्युदात्तः । बहुव्रीहावाद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वं ॥ ७ ॥

1.62.8
स॒नाद्दिवं॒ परि॒ भूमा॒ विरू᳚पे पुन॒र्भुवा᳚ युव॒ती स्वेभि॒रेवै᳚ः ।
कृ॒ष्णेभि᳚र॒क्तोषा रुश᳚द्भि॒र्वपु᳚र्भि॒रा च᳚रतो अ॒न्यान्या᳚ ॥
▶ पदपाठः (Word-by-word)
स॒नात् । दिव᳚म् । परि᳚ । भूम᳚ । विरू᳚पे॒ इति॒ वि॑रू᳚पे । पु॒नः॒॑भुवा᳚ । यु॒व॒ती इति᳚ । स्वेभिः᳚ । एवैः᳚ ।
कृ॒ष्णेभिः᳚ । अ॒क्ता । उ॒षाः । रुश᳚त्॑भिः । वपुः᳚॑भिः । आ । च॒र॒तः॒ । अ॒न्या॑अ᳚न्या ॥
▶ सायणभाष्यम् (Sayana Commentary)

विरूपे शुक्ल कृण्णतया विषमरूपे पुनर्भुवा पुनःपुनः प्रतिदिवं संजायमाने युवती तरुण्यौ । रात्र्युषसोः सर्वदैकरूप्यादेवंभूते रात्र्युषसौ दिवं द्युलोकं भूम भूमिं च सनाच्चिरकालादारभ्य स्वेभिरेवैः स्वकीयैर्गमनैः परिचरतः । पर्यावर्तेते । आयमेवार्थः स्पष्टीक्रियते । अक्ता रात्रिः कृष्णेभिरंधकाररूपैर्वर्णैरुपलक्षिता उषाश्च रुशद्भर्दीप्यमानैर्वपुर्भिः स्वशरीरभूतैस्तेजोभिरुपलक्षिता अन्यान्या परस्परव्यतिहारेणा चरतः । आवर्तेते । हे इंद्र एतत्सर्वं त्वयैवं कार्यते त्वदधीनत्वात्सर्वासाम् । देवतानामित्यर्थः ॥ भूम । सुपां सुलुगिति द्वितीयाया डादेशः । छांदसो ह्रस्वः । एवैः । इण् गतौ । इण्शीङ्छ्यां वन् । उ । १-१५२ । इति भावे वन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । अक्ता । नक्तेति रात्रिनाम । नलोपश्छांदसः । वपुर्भिः । अर्तिपृवपीत्यादिना (उ २-११८) उस् । नित्त्वादाद्युदात्तः । अन्यान्या । कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्यं समासवच्चबहुलम् । म ८-१-१२-११ । इति द्विर्भावे तस्य परमाम्रेडितमित्याम्रेडितसंज्ञायामनुदात्तं चेत्याम्रेडितस्यानुदात्तत्वं ॥ ८ ॥

1.62.9
सने᳚मि स॒ख्यं स्व᳚प॒स्यमा᳚नः सू॒नुर्दा᳚धार॒ शव᳚सा सु॒दंसा᳚ः ।
आ॒मासु᳚ चिद्दधिषे प॒क्वम॒न्तः पयः᳚ कृ॒ष्णासु॒ रुश॒द्रोहि᳚णीषु ॥
▶ पदपाठः (Word-by-word)
सने᳚मि । स॒ख्यम् । सु॒॑अ॒प॒स्यमा᳚नः । सू॒नुः । दा॒धा॒र॒ । शव᳚सा । सु॒॑दंसाः᳚ ।
आ॒मासु᳚ । चि॒त् । द॒धि॒षे॒ । प॒क्वम् । अ॒न्तरिति᳚ । पयः᳚ । कृ॒ष्णासु᳚ । रुश᳚त् । रोहि᳚णीषु ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वपस्यनूनः । स्वपः शोभनं कर्म । तदिवाचरन् शवसा शवसो बलस्य सूनुः पुत्रः । अतिबलवानित्यर्थः । सुदंसाः शोभनयागादिकर्मयुक्तः । एवंभूत इंद्र सख्यं यजमानानां सखित्वं सनेमि पुराणं दाधार । धारयति । पोषयतीत्यर्थः । सनेमीति पुराणनाम । प्रवयाः । सनेमीति पाठात् । किंचामासु चित् आर्द्रास्वपरिपक्वासु गोषु चांतर्मध्ये पक्वं परिपक्वं पयो दधिषे । धारयसि । तथा कृष्णासु कृष्णवर्णासु रोहिणीषु लोहितवर्णासु च गोषु तद्विपरीतं रुशद्दीप्यमानं श्वेतवर्णं पयो दधिषे ॥ सख्यम् । सख्युर्भावः सख्यम् । सख्युर्यइति यः । प्रत्ययस्वरः । दाधार । धृञ् धारणे । तुजादित्वादभ्यासस्य दीर्घत्वम् । पक्वम् । पचो वः (पा ८-२-५२) इति निष्ठातकारस्य वत्वम् । रोहिणेषु । रुह बीजजन्मनि प्रादुर्भावे । रुहे रश्च लो वा (उ ३-९४) इतीतन्प्रत्ययांतो रोहितशब्द आद्युदात्तो वर्णवाची । वर्णादनुदात्तात्तोपधात्तो नः (पा ४-१-३९) इति ङीप् । तत्संनियोगेन तकारस्य नकारादेशश्च । ङीपः पित्त्वादनुदात्तत्वे प्रातिपदिकरस्वर एव शिष्यते ॥ ९ ॥

1.62.10 समानपद
स॒नात्सनी᳚ळा अ॒वनी᳚रवा॒ता व्र॒ता र᳚क्षन्ते अ॒मृता॒ः सहो᳚भिः ।
पु॒रू स॒हस्रा॒ जन᳚यो॒ न पत्नी᳚र्दुव॒स्यन्ति॒ स्वसा᳚रो॒ अह्र᳚याणम् ॥
▶ पदपाठः (Word-by-word)
स॒नात् । स॑नी᳚ळाः । अ॒वनीः᳚ । अ॒वा॒ताः । व्र॒ता । र॒क्ष॒न्ते॒ । अ॒मृताः᳚ । सहः᳚॑भिः ।
पु॒रु । स॒हस्रा᳚ । जन᳚यः । न । पत्नीः᳚ । दु॒व॒स्यन्ति᳚ । स्वसा᳚रः । अह्र᳚याणम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सनाच्चिरकालादारभ्य सनीळाः समाननिवासस्थाना अवाताः । वातं गमनं तद्रहिताः । एकपाण्यवस्थानात् । अवनय इत्यंगुलिनाम । एवंभूता अवनीरंगुलयः । पुरु पुरूणि बहूनि सहस्रसंख्यातानि व्रता व्रतानींद्रसंबंधीनि कर्माण्यमृताः पुनःपुनःकरणेऽप्यालस्यरहिताः सत्यः सहोभिरात्मीयैर्बलैः । रक्षंते । पालयंति । अपि च स्वसारः । स्वयमेव सरंत्योऽंगुलयः पत्नीः पालयित्र्योऽह्रयाणं लज्जारहितम् । प्रगल्भमित्यर्थः । यद्वा । अह्रीतयानम् । प्रशस्तगमनमिंद्रं जनयो न । जनय इति देवानां प्रत्न्य उच्यंते । देवानां वै पत्नीर्जनय इति श्रुतेः । ता इव दुवस्यंति । परिचरंति । अंजलिबंधनेनेंद्रं प्रीणयंतीत्यर्थः ॥ अवनीः । अवनयोऽंगुलयो भवंत्यवंति कर्माणि (नि ३-९) इति यास्कः । सुपां सुलुगिति जसः पूर्वसवर्णदीर्घत्वम् । अवाताः । वा गतिगंधनयोः । असिहसीत्यादिना भावे तन्प्रत्ययः । बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । व्रता । शेश्छंदसि बहुलमिति शेर्लोपः । दुवस्यंति । दुवस्यतिः परिचरणकर्मा । कंड्वादिः । अतो यक एव स्वरः शिष्यते । पादादित्वान्निघाताभावः । अह्रयाणम् । ह्री लज्जायाम् । बहुलं छंदसीति श्लोरभावः । व्यत्ययेन शानच् । मुगभावश्छांदसः । नञ्समासेऽव्यय पूर्वपद - प्रकृतिस्वरत्वम् । यद्वा । बहुलं छंदसीति शपो लुकि छंदस्युभयथेति शानच आर्धधातुकत्वेन ङित्त्वाभावे -गुणायादेशौ । पूर्ववत्समासस्वरौ । यास्कस्त्वेवं व्याख्यत् । अर्हयाणोऽह्रीतयानः (नि ५-१५) इति ॥ १० ॥

1.62.11
स॒ना॒युवो॒ नम᳚सा॒ नव्यो᳚ अ॒र्कैर्व᳚सू॒यवो᳚ म॒तयो᳚ दस्म दद्रुः ।
पतिं॒ न पत्नी᳚रुश॒तीरु॒शन्तं᳚ स्पृ॒शन्ति᳚ त्वा शवसावन्मनी॒षाः ॥
▶ पदपाठः (Word-by-word)
स॒ना॒॑युवः᳚ । नम᳚सा । नव्यः᳚ । अ॒र्कैः । व॒सु॒॑यवः᳚ । म॒तयः᳚ । द॒स्म॒ । द॒द्रुः॒ ।
पति᳚म् । न । पत्नीः᳚ । उ॒श॒तीः । उ॒शन्त᳚म् । स्पृ॒शन्ति᳚ । त्वा॒ । श॒व॒सा॒॑व॒न् । म॒नी॒षाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे दस्म दर्शनीयेंद्र अर्कैः शस्त्ररूपैर्मंत्रैर्नमसा नमस्कारेण यस्त्वं नव्यः स्तुत्यो भवसि । सनायुवः सनातनमग्निहोत्रादि नित्यं कर्मात्मन इच्छंतो वसूयवो वसु धनमात्मन इच्छंतो धनकामा वा मतयो मेधाविनस्त्वां दद्रुः । बहुना प्रयासेन जग्मुः । हे शवसावन् बलवन्निंद्र तैः प्रयुक्ता मनीषाः स्तुतयस्त्वा त्वां स्पृशंति । प्राप्नुवंति । तत्र दृष्टांतः उशतीरुशत्यः कामयमानाः पत्नी पत्न्य उशंतं कामयमानं पतिं न । यथा पतिं संभजंते तद्वत् ॥ सना युवः । सनेत्येतदव्ययं नित्यत्वमानष्टे । तेन च तद्वान् लक्ष्यते । सना सनातनं कर्मात्मन इच्छंतीति सनायुवः । क्याच्छंदसीत्युप्रत्ययः । जसि वर्णव्यत्ययेनोत्वम् । मतयः । मनज्ञाने । मन्यंत इति मतयः स्तोतारः । क्तिच् क्तौ च संज्ञायामिति क्तिच् । न क्तिचि दीर्घश्चेति निषेधे प्राप्ते बाहुलकादनुदात्तोपदेशेत्यादिनानुनासिकलोपः । चित्त्वादंतोदात्तत्वम् । दद्रुः । द्रा कुत्सायां गतौ । लिट्युस्यातो लोप इट चेत्याकारलोपः । उशतीः । वश कांतौ । लटः शतृ । अदादित्वाच्छपोलुक् । शतुर्ङित्त्वाद्ग्रहिज्यादिना संप्रसारणम् । उगितत्चेति ङीप् । शतुरनुम इति नद्या उदात्तत्वम् । वा छंदसीति पूर्वसवर्णदीर्घः । शवसावन् । मतुप्याकारोपजनश्छांदसः । यद्वा । मत्वर्थीय आवनिप् ॥ ११ ॥

1.62.12
स॒नादे॒व तव॒ रायो॒ गभ᳚स्तौ॒ न क्षीय᳚न्ते॒ नोप᳚ दस्यन्ति दस्म ।
द्यु॒मा{4} अ᳚सि॒ क्रतु᳚मा{4} इन्द्र॒ धीर॒ः शिक्षा᳚ शचीव॒स्तव᳚ न॒ः शची᳚भिः ॥
▶ पदपाठः (Word-by-word)
स॒नात् । ए॒व । तव᳚ । रायः᳚ । गभ᳚स्तौ । न । क्षीय᳚न्ते । न । उप᳚ । द॒स्य॒न्ति॒ । द॒स्म॒ ।
द्यु॒॑मान् । अ॒सि॒ । क्रतु᳚॑मान् । इ॒न्द्र॒ । धीरः᳚ । शिक्ष᳚ । श॒ची॒॑वः॒ । तव᳚ । नः॒ । शची᳚भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे दस्म दर्शनीयेंद्र । गभस्तिरिति बाहुनाम । तव गभस्तौ हस्ते सनादेव चिरकालादारभ्य स्थितानि रायो धनानि न क्षीयंते । न विनश्यंति । नोप दस्यंति च । स्तोतृभ्यो दत्तेऽपि त्वद्धस्तगतम् । धनमुपक्षयं न प्राप्नोति । अपि तु वर्धते । हे इंद्र धीरो बुद्धिमान् धृष्टो वा त्वं द्युमान् दीप्तिमानसि । तथा क्रतुमान् लोकरक्षणहेतुभूतकर्मयुक्तोऽसि । हे शचीवः कर्मवन्निंद्र तव शचीभिस्त्वदीयैः कर्मभिर्नोऽस्मभ्यं धनं शिक्ष । देहि । शिक्षतिर्दानकर्मा ॥ क्षीयंते । क्षीञ् हिंसायाम् । अस्मात्कर्मकर्तरि कर्मवद्भावाद्यगात्मनेपदे । वत्करणं स्वाश्रयमपि यथा स्यादिति कर्तृवद्भावादचः कर्तृयकि (पा ६-१-१९५) इत्याद्युदात्तत्वम् । चादिलोपे विभाषेति निघातप्रतिषेधः । शचीवः । शच्यस्यास्तीति शचीवान् । छंदसीरः इति मतुपो वत्वम् । संबुद्धौ मतुवसो रुरिति नकारस्य रुत्वं ॥ १२ ॥

1.62.13
स॒ना॒य॒ते गोत᳚म इन्द्र॒ नव्य॒मत᳚क्ष॒द्ब्रह्म᳚ हरि॒योज᳚नाय ।
सु॒नी॒थाय᳚ नः शवसान नो॒धाः प्रा॒तर्म॒क्षू धि॒याव᳚सुर्जगम्यात् ॥
▶ पदपाठः (Word-by-word)
स॒ना॒॑य॒ते । गोत᳚मः । इ॒न्द्र॒ । नव्य᳚म् । अत᳚क्षत् । ब्रह्म᳚ । ह॒रि॒॑योज᳚नाय ।
सु॒॑नी॒थाय᳚ । नः॒ । श॒व॒सा॒न॒ । नो॒धाः । प्रा॒तः । म॒क्षु । धि॒या॑व᳚सुः । ज॒ग॒म्या॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इंद्रः सनायते । नित्य इवाचरति । सर्वेषामाद्यो भवति । हे शवसान बलवन्निंद्र हरियोजनाय । हरी अश्वौ रथे योजयतीति हरियोजनः । सुनीथाय सुष्ठु नेत्रे । एवं भूताय तस्मै तुभ्यं गोमतो गोतमस्य ऋषेः पुत्रो नोधा ऋषिर्नव्यं नूतनं ब्रह्मैतत्सूक्तरूपं स्तोत्रं नोऽस्मदर्थमतक्षत् । अकरोत् । अतोऽस्माभिरनेन स्तोत्रेण स्तुतः सन्धिया बुद्ध्या कर्मणा वा प्राप्तवसुरिंद्रः प्रातःकाले मक्षु शीघ्रं जगम्यात् । आगच्छतु ॥ सनायते । सनेति निपातो नित्यशब्दसमानार्थः । तस्मादाचारार्थे क्यङ् प्रत्ययः । सुनीथाय । णीञ् प्रापण इत्यस्मादौणादिकस्थक्प्रत्ययः । थाथादिस्वरः ॥ १३ ॥