श्रवणम्

1.62.12
स॒नादे॒व तव॒ रायो॒ गभ᳚स्तौ॒ न क्षीय᳚न्ते॒ नोप᳚ दस्यन्ति दस्म ।
द्यु॒मा{4} अ᳚सि॒ क्रतु᳚मा{4} इन्द्र॒ धीर॒ः शिक्षा᳚ शचीव॒स्तव᳚ न॒ः शची᳚भिः ॥
▶ पदपाठः (Word-by-word)
स॒नात् । ए॒व । तव᳚ । रायः᳚ । गभ᳚स्तौ । न । क्षीय᳚न्ते । न । उप᳚ । द॒स्य॒न्ति॒ । द॒स्म॒ ।
द्यु॒॑मान् । अ॒सि॒ । क्रतु᳚॑मान् । इ॒न्द्र॒ । धीरः᳚ । शिक्ष᳚ । श॒ची॒॑वः॒ । तव᳚ । नः॒ । शची᳚भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे दस्म दर्शनीयेंद्र । गभस्तिरिति बाहुनाम । तव गभस्तौ हस्ते सनादेव चिरकालादारभ्य स्थितानि रायो धनानि न क्षीयंते । न विनश्यंति । नोप दस्यंति च । स्तोतृभ्यो दत्तेऽपि त्वद्धस्तगतम् । धनमुपक्षयं न प्राप्नोति । अपि तु वर्धते । हे इंद्र धीरो बुद्धिमान् धृष्टो वा त्वं द्युमान् दीप्तिमानसि । तथा क्रतुमान् लोकरक्षणहेतुभूतकर्मयुक्तोऽसि । हे शचीवः कर्मवन्निंद्र तव शचीभिस्त्वदीयैः कर्मभिर्नोऽस्मभ्यं धनं शिक्ष । देहि । शिक्षतिर्दानकर्मा ॥ क्षीयंते । क्षीञ् हिंसायाम् । अस्मात्कर्मकर्तरि कर्मवद्भावाद्यगात्मनेपदे । वत्करणं स्वाश्रयमपि यथा स्यादिति कर्तृवद्भावादचः कर्तृयकि (पा ६-१-१९५) इत्याद्युदात्तत्वम् । चादिलोपे विभाषेति निघातप्रतिषेधः । शचीवः । शच्यस्यास्तीति शचीवान् । छंदसीरः इति मतुपो वत्वम् । संबुद्धौ मतुवसो रुरिति नकारस्य रुत्वं ॥ १२ ॥