येनो᳚पया॒थः सु॒कृतो᳚ दुरो॒णं त्रि॒धातु᳚ना पतथो॒ विर्न प॒र्णैः ॥
पदपाठः (Word-by-word)
येन᳚ । उ॒प॒॑या॒थः । सु॒॑कृतः᳚ । दु॒रो॒णम् । त्रि॒॑धातु᳚ना । प॒त॒थः॒ । विः । न । प॒र्णैः ॥
सायणभाष्यम् (Sayana Commentary)
हेवृषणा वर्षकौकामानांयुवांतंवक्ष्यमाणगुणविशिष्टंरथंयुञ्चाथांयोजयतं तमित्युक्तंकमित्याह यो- रथः त्रिवन्धुरः त्रिप्रकारसारथिस्थानः वन्धुरंरथिनःस्थानमित्याहुः आयाह्यर्वाङुपवन्धुरेष्ठाइत्यादि- मन्त्रान्तरात् । यश्च त्रिचक्रः चक्रत्रितयोपेतः पुनः सएवविशेष्यते येनरथेनोपयाथःउपागच्छथः किं सुकृतः शोभनसोमाख्याकर्मवतोयजमानस्यदुरोणं गृहनामैतत् यागगृहंयेनेत्युक्तंकेनेत्याह त्रिधातुना- त्रिप्रकारस्थानोपेतेनसुवर्णरजतताम्नाधातुत्रयोपेतेनवारथेन गमनेदृष्टान्तः—विर्नपर्णैः पक्षीपक्षैर्यथा- शीघ्रमप्रयत्नेनगच्छति तद्वदुक्तलक्षणेनरथेनपतथः गच्छथः ॥ १ ॥