श्रवणम्

1.183.3
आ ति᳚ष्ठतं सु॒वृतं॒ यो रथो᳚ वा॒मनु᳚ व्र॒तानि॒ वर्त᳚ते ह॒विष्मा᳚न् ।
येन᳚ नरा नासत्येष॒यध्यै᳚ व॒र्तिर्या॒थस्तन᳚याय॒ त्मने᳚ च ॥
▶ पदपाठः (Word-by-word)
आ । ति॒ष्ठ॒त॒म् । सु॒॑वृत᳚म् । यः । रथः᳚ । वा॒म् । अनु᳚ । व्र॒तानि᳚ । वर्त᳚ते । ह॒विष्मा᳚न् ।
येन᳚ । न॒रा॒ । ना॒स॒त्या॒ । इ॒ष॒यध्यै᳚ । व॒र्तिः । या॒थः । तन᳚याय । त्मने᳚ । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विनौ वांयुवांसुवृतं शोभनवर्तनंरथं आतिष्ठतं आश्रयतं योरथोहविष्मान् षष्ठ्यथे प्रथमा ह- विष्मन्तोयजमानस्यव्रतानिकर्माण्यनुवर्तते यद्वा यजमानायदत्तहविषातद्वान् येनचरथेनहेनरानेता- रौहेनासत्या असत्यरहितौ युवामिषयध्यै यज्ञंप्राप्तुमिच्छतमितिशेषः तेनरथेनवर्तिः गृहनामैतत् यजमानस्ययज्ञगृहं तनयाय पुत्रलाभायत्मनेआत्महितायचयाथः ॥ ३ ॥