यु॒वां गोत᳚मः पुरुमी॒ळ्हो अत्रि॒र्दस्रा॒ हव॒ते॑व᳚से ह॒विष्मा᳚न् ।
दिशं॒ न दि॒ष्टामृ᳚जू॒येव॒ यन्ता मे॒ हवं᳚ नास॒त्योप᳚ यातम् ॥
दिशं॒ न दि॒ष्टामृ᳚जू॒येव॒ यन्ता मे॒ हवं᳚ नास॒त्योप᳚ यातम् ॥
पदपाठः (Word-by-word)
यु॒वम् । गोत᳚मः । पु॒रु॒॑मी॒ळ्हः । अत्रिः᳚ । दस्रा᳚ । हव॒ते । अव᳚से । ह॒विष्मा᳚न् ।
दिश᳚म् । न । दि॒ष्टाम् । ऋ॒जु॒या॑इ᳚व । यन्ता᳚ । आ । मे॒ । हव᳚म् । ना॒स॒त्या॒ । उप᳚ । या॒त॒म् ॥
दिश᳚म् । न । दि॒ष्टाम् । ऋ॒जु॒या॑इ᳚व । यन्ता᳚ । आ । मे॒ । हव᳚म् । ना॒स॒त्या॒ । उप᳚ । या॒त॒म् ॥
सायणभाष्यम् (Sayana Commentary)
हेदस्रा दस्रौ अश्विनौयुवांगोतमश्चपुरुमीह्ळश्चअन्त्रिश्चमहर्षयश्चएतेष्वेकैकोहविष्मान् सन् अव- सेयुष्मद्रक्षणायवाहवते आह्वयति एवमहमपि आह्वयामि फलसाधनह्वानेदृष्टान्तः—यन्ताउपग- न्ता उपगन्तकामः ऋजयाइव द्वितीयायाआकारः ऋजुगामिनंमार्गज्ञमिवदिष्टांदिशंन गन्तव्यांअभि- मतांदिशंप्रतियथातथावामपियथाध्वगामीस्वगन्तव्यस्यशीघ्रगमनायमार्गज्ञंऋजुगामिनमाह्वयति- तद्वत् यद्वा ऋजूयाएव इवशब्दएवार्थे यंतागंताऋजुनैवमार्गेणदिष्टांदिशमिव तथायुष्मत्प्रीणनेनमा- र्गेणस्वाभिमतंफलंप्राप्नोति हेनासत्या अश्विनौ मेममहवमाह्वानं आलक्ष्योपयातं उपगच्छतम् ॥ ५ ॥