प्रथमं मण्डलम् - सूक्तम् 138

4 ऋचः

ऋषिः: परुच्छेपो दैवोदासिः देवता: पूषा छन्दः: अत्यष्टिः

सूक्तम् 1.138 - सम्पूर्णम्

1 / 4
ऋक्: 1.138.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (4)
1.138.1
प्रप्र᳚ पू॒ष्णस्तु᳚विजा॒तस्य᳚ शस्यते महि॒त्वम᳚स्य त॒वसो॒ न त᳚न्दते स्तो॒त्रम᳚स्य॒ न त᳚न्दते ।
अर्चा᳚मि सुम्न॒यन्न॒हमन्त्यू᳚तिं मयो॒भुव᳚म् ।
विश्व᳚स्य॒ यो मन᳚ आयुयु॒वे म॒खो दे॒व आ᳚युयु॒वे म॒खः ॥
▶ पदपाठः (Word-by-word)
प्र॑प्र᳚ । पू॒ष्णः । तु॒वि॒॑जा॒तस्य᳚ । श॒स्य॒ते॒ । म॒हि॒॑त्वम् । अ॒स्य॒ । त॒वसः᳚ । न । त॒न्द॒ते॒ । स्तो॒त्रम् । अ॒स्य॒ । न । त॒न्द॒ते॒ ।
अर्चा᳚मि । सु॒म्न॒॑यन् । अ॒हम् । अन्ति᳚॑ऊतिम् । म॒यः॒॑भुव᳚म् ।
विश्व᳚स्य । यः । मनः᳚ । आ॒॑यु॒यु॒वे । म॒खः । दे॒वः । आ॒॑यु॒यु॒वे । म॒खः ॥
▶ सायणभाष्यम् (Sayana Commentary)

तुविजातस्यबहुयजमानार्थमुत्पन्नस्यास्यपूष्णः पोषकस्यैतन्नामकस्यदेवस्य तवसोमहित्वं बल- स्यमहत्त्वंप्रशस्यते प्रस्तूतेसर्वैः वीप्सापादपूरणे नतंदते नहिनस्तिकश्चित् तदपि किंचास्यपूष्णः स्तो- त्रंनतन्दते नहिनस्तिनविरमति सर्वोपिजनः एनंस्तौतीत्यर्थः जगत्पोषकत्वादितिभावः अतःकारणा- त् अहं अहमपि यजमानः सुम्नयत् सुखमिच्छन् अर्चामिस्तौमि कीदृशंतं अंत्यूतिं आसन्नरक्षणं कादि- लोपोबहुलमितिकलोपः स्तुत्यनन्तरमेववरप्रदमित्यर्थः मयोभुवंसुखस्योत्पादकं भावयितारंवा यः पूषा मखःयज्ञवान् मत्वर्थोलुप्यते विश्वस्यसर्वस्य स्तोतुः ऋत्विजोमनः आयुयुवे समन्तात् मिश्रयति शीघ्रवरप्रदानादितिभावः किंच देवोदीप्यमानः पूषाइतिशेषः मखः मखंयज्ञंआयुयुवेसंपूर्तिपर्यंतंमि- श्रयति यद्वा विश्वस्यमनोमिश्रयणेयजमाने किमायातमितिचेत् उच्यते—मखः यज्ञनिर्वाहकोयंपूषा- देवः यजमानस्यमनः आयुयुवे समन्तान्मिश्रयति सामर्थ्याद्यजमानस्यमनइतिलभ्यते यौतेश्छान्दसो- लिट् ॥ १ ॥

1.138.2
प्र हि त्वा᳚ पूषन्नजि॒रं न याम᳚नि॒ स्तोमे᳚भिः कृ॒ण्व ऋ॒णवो॒ यथा॒ मृध॒ उष्ट्रो॒ न पी᳚परो॒ मृधः᳚ ।
हु॒वे यत्त्वा᳚ मयो॒भुवं᳚ दे॒वं स॒ख्याय॒ मर्त्य᳚ः ।
अ॒स्माक᳚माङ्गू॒षान्द्यु॒म्निन᳚स्कृधि॒ वाजे᳚षु द्यु॒म्निन᳚स्कृधि ॥
▶ पदपाठः (Word-by-word)
प्र । हि । त्वा॒ । पू॒ष॒न् । अ॒जि॒रम् । न । याम᳚नि । स्तोमे᳚भिः । कृ॒ण्वे । ऋ॒णवः᳚ । यथा᳚ । मृधः᳚ । उष्ट्रः᳚ । न । पी॒प॒रः॒ । मृधः᳚ ।
हु॒वे । यत् । त्वा॒ । म॒यः॒॑भुव᳚म् । दे॒वम् । स॒ख्याय᳚ । मर्त्यः᳚ ।
अ॒स्माक᳚म् । आ॒ङ्गू॒षान् । द्यु॒म्निनः᳚ । कृ॒धि॒ । वाजे᳚षु । द्यु॒म्निनः᳚ । कृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपूषन् अजिरं यज्ञदेशंप्रति गमनवन्तं त्वात्वांयामनि गमने निमित्तभूतेसति स्तोमेभिः स्तोत्रैः प्रकृण्वे प्रकृष्टंकरोमि तत्रदृष्टान्तः—यामनिशीघ्रगमने अजिरंन शीघ्रगामिनमश्वमिव सयथा प्रस्तूयते तद्वत् किंच यथामृधः स्ंग्रामान् उद्दिश्यऋणवःगच्छेः तथा प्रकृण्वे यद्वा यथा ऋणवः अस्मद्यज्ञंप्रति- गच्छेः ऋणुगतौ तानादिकः लेट्यडागमः तथात्वांकृण्वे किंच मृधो हिंसकान्योद्धृन् संग्रामे पीपरः पारंनयसि पारयतेर्लुङिरूपं तत्रदृष्टान्तः—उष्ट्रोन उष्ट्रोयथाभारं वोढ्वापारयति तद्वत् मृधः संग्रामात् पीपरः पारंनयसि यत् यतः अतःकारणात् त्वात्वांमयोभुवं सुखस्यभावयितारंदेवं देवनशीलंपूषणं मर्त्योमरणधर्मामनुष्योहं हुवेआह्वयामि किमर्थं सख्यायसमानख्यानाय प्रियकरणायएवमाहूतः सन्नस्माकं आंगूषान् आघोषान् स्तोमान् आंगूषस्तोम आघोषइतियास्कः । द्युम्निनस्कृधि द्योतनवतः कुरु यद्वा स्तोमान् यशोवतः अन्नवतोवा कृधिअस्मत्स्तुत्याप्रीतः त्वमेवंकुर्वित्यर्थः किंच वाजेषु संग्रा- मेषुद्युम्निनः अन्नवतः कृधि अस्मद्वैरिणोजित्वातेषामन्नंकृधिकुर्वित्यर्थः ॥ २ ॥

1.138.3
यस्य᳚ ते पूषन्त्स॒ख्ये वि᳚प॒न्यव॒ः क्रत्वा᳚ चि॒त्सन्तो॑व᳚सा बुभुज्रि॒र इति॒ क्रत्वा᳚ बुभुज्रि॒रे ।
तामनु᳚ त्वा॒ नवी᳚यसीं नि॒युतं᳚ रा॒य ई᳚महे ।
अहे᳚ळमान उरुशंस॒ सरी᳚ भव॒ वाजे᳚वाजे॒ सरी᳚ भव ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । ते॒ । पू॒ष॒न् । स॒ख्ये । वि॒प॒न्यवः᳚ । क्रत्वा᳚ । चि॒त् । सन्तः᳚ । अव᳚सा । बु॒भु॒ज्रि॒रे । इति᳚ । क्रत्वा᳚ । बु॒भु॒ज्रि॒रे ।
ताम् । अनु᳚ । त्वा॒ । नवी᳚यसीम् । नि॒॑युत᳚म् । रा॒यः । ई॒म॒हे॒ ।
अहे᳚ळमानः । उ॒रु॒॑शं॒स॒ । सरी᳚ । भ॒व॒ । वाजे᳚॑वाजे । सरी᳚ । भ॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपूषन्देव यस्यते रक्षकत्वेनप्रसिद्धस्यतवसख्ये सखित्वेहितकरणेसति क्रत्वाचित् क्रतुनाप्रकृतेन- कर्मणैव जसादिषुछन्दसिवावचनमितिनाभावाभावः संतः भवन्तंप्रीणयितारःसन्तःविपन्यवः विशे- षेणस्तोत्रशीलाः यद्वा मेधाविनामैतत् मेधाविनोयजमानाः अवसा त्वत्कृतेनरक्षणेनरक्षिताःसन्तः बुभुज्रिरेभुञ्चते भोगान् इति एवमेवसर्वदाक्रत्वाकर्मणाबुभुज्रिरे भुंजते सर्वेपाल्यन्तइतिवा भुजेश्छ- न्दसिलिटिबहुलंछन्दसीतिरुट् तांतादृशीं नवीयसी नवतरां स्तुत्यांवारक्षां अनुअनुसृत्य रक्षायाअन- न्तरंत्वांनियुतं रायः एतत्संख्याकान् धनानि ईमहे याचामहे किंच हे उरुशंम बहुधास्तुत्य त्वं अहेळ- मानः अक्रुध्यन् अस्मासुसुमनाःसन् सरीभव अस्माभिर्गंतव्योभव सर्तेरौणादिकइनिप्रत्ययः आद्यु- दात्तत्वं किंच त्वंवाजेवाजे सर्वेष्वपिसंग्रामेषु सरीभवगमनशीलोभव पुरतोगन्ताभवेत्यर्थः ॥ ३ ॥

1.138.4
अ॒स्या ऊ॒ षु ण॒ उप᳚ सा॒तये᳚ भु॒वो॑हे᳚ळमानो ररि॒वा{4} अ᳚जाश्व श्रवस्य॒ताम᳚जाश्व ।
ओ षु त्वा᳚ ववृतीमहि॒ स्तोमे᳚भिर्दस्म सा॒धुभि᳚ः ।
न॒हि त्वा᳚ पूषन्नति॒मन्य᳚ आघृणे॒ न ते᳚ स॒ख्यम᳚पह्नु॒वे ॥
▶ पदपाठः (Word-by-word)
अ॒स्याः । ऊं॒ इति᳚ । सु । नः॒ । उप᳚ । सा॒तये᳚ । भु॒वः॒ । अहे᳚ळमानः । र॒रि॒॑वान् । अ॒ज॒॑अ॒श्व॒ । श्र॒व॒स्य॒ताम् । अ॒ज॒॑अ॒श्व॒ ।
ओ इति᳚ । सु । त्वा॒ । व॒वृ॒ती॒म॒हि॒ । स्तोमे᳚॑भिः । द॒स्म॒ । सा॒धु॑भिः᳚ ।
न॒हि । त्वा॒ । पू॒ष॒न् । अ॒ति॒॑मन्ये᳚ । आ॒घृ॒णे॒ । न । ते॒ । स॒ख्यम् । अ॒प॒॑ह्नु॒वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अजाश्व पूषन् अजाशेतिपूषणमाहेतियास्कः । नोऽस्माकं अस्याः अस्यैचतुर्थ्यर्थेषष्ठी सातये- लाभाय अहेळमानः अक्रुध्यन् अनादरमकुर्वन् ररिवान् दाताचसन् सुसुष्ठुउपभुवः समीपस्थोभव रातेश्छान्दसस्यलिटःक्वसुः पदसंज्ञायाअभावेपिपपिवांसंतस्थिवांसमित्यादौ छान्दसोवग्रहोदृश्यते उइतिपादपूरणः किंच श्रवस्यतां अन्नमिच्छतामस्माकं हेअजाश्व अजाएवाश्वस्थानीयायस्यतादृ- शत्वं पूषनामेदं ररिवांश्चसन् उपभुवः ओइति निपातद्वयसमुदायात्मकएकोनिपातः हेदस्म शत्रूणां उपक्षपयितः पूषन् त्वात्वां ओषु ववृतीमहि सर्वतएवसुतरांवर्तयेमहि वृतेरन्तर्भावितण्यर्थाल्लिङि- बहुलंछन्दसीतिशपःश्लुः यज्ञान्तरगमनान्निवर्तयामः इत्यर्थः केनसाधनेनेतितदुच्यते—साधुभिःस्तो- मेभिः त्वांप्रीणयितुंसमर्थैःस्तोत्रैः किंच हे पूषन् आघृणे सर्वतोवृष्टेःक्षारयितः यद्वा आघृणे हविषामा- हर्तः स्वीकर्तः त्वां नह्यतिमन्ये अवमतिंनैवकरोमि नकेवलमनतिक्रममात्रं किंतु ते सख्यं तवसखित्वं- हितकर्तृत्वं नह्यपह्नुवे नैवापनयामि नत्यजामि सर्वतःप्रख्यापयामीत्यर्थः ॥ ४ ॥

अस्तुश्रौषळित्येकादशर्चंषष्ठंसूक्तम् अत्रानुक्रमणिका अस्तुश्रौषळेकादशवैश्वदेवीमैत्रावरुण्याश्वि- न्यस्तिस्रऎन्द्भाग्नेयीमारुत्यैन्द्राग्नीबार्हस्पत्यावैश्वदेव्यंत्यात्रिष्टुप् पंचमीबृहती वैश्वदेवमेतदेवमन्यासा- मपिसूक्तप्रयोगेवैश्वदेवत्वं सूक्तभेदप्रयोगेयल्लिंगंसादेवतेति परुच्छेपऋषिः अन्त्यात्रिष्टुप् पंचमीबृह- ती अन्याअत्यष्टयः विशेषाभावात्कृत्स्नंसूक्तंवैश्वदेवं तत्रआद्यायाविश्वेदेवादेवता द्वितीयायामित्रावरु- णौ अथतिस्रोऽश्विदेवताकाः ऎन्द्रीषष्ठी सप्तम्याग्नेयी अष्टमीमारुतीनवमीऎन्द्राग्नीदशमीबार्हस्पत्या एकादशीवैश्वदेवी सूक्तविनियोगोलैङ्गिकः दशरात्रस्यषष्ठेहनिप्रउगशस्त्रेआद्या वैश्वदेवतृचेप्रथमा ष- ष्ठस्येतिखण्डेसूत्रितम्—अस्तुश्रौषळोषूणोअग्नइति ।