वस्त्रे᳚णेव वासया॒ मन्म᳚ना॒ शुचिं᳚ ज्यो॒तीर᳚थं शु॒क्रव᳚र्णं तमो॒हन᳚म् ॥
पदपाठः (Word-by-word)
वस्त्रे᳚ण॑इव । वा॒स॒य॒ । मन्म᳚ना । शुचि᳚म् । ज्यो॒तिः॑र᳚थम् । शु॒क्र॑व᳚र्णम् । त॒मः॒॑हन᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हेअध्वर्योवेदिषदे वेद्यांसीदतेनित्यं प्रियधामायप्रियधाम्ने प्रियस्थानाय उत्तरवेदिलक्षणप्रियस्था- नाय सुद्युते शोभ्नद्योतनाय अग्नये अग्ननयनादिगुणविशिष्टाय योनिंस्थानं वेद्याख्यं धासिमिव हवी- रूपमन्नमिव प्रभर प्रहर प्रकर्षेणसंपादयेत्यर्थः तच्च स्थानंवस्त्रेणेव तेनयथामार्दवायास्तृणाति तद्वत् मन्मनामननीयेनसंभारेण बर्हिषावा वेदिस्थानं वासय आच्छादय कीदृशंतत्स्थानमितितदुच्ये—शु- चिंउत्पवनप्रोक्षणादिना अमेध्यासुरादीनामपगतत्वाच्छुद्धम् ज्योतीरथंज्योतिषआज्यादेरग्नेर्वारथ- स्थानीयं आधारभूतत्वात् शुक्रवर्णंअग्न्युपेतत्वात् दीप्तवर्णं अतएव तमोहवं तमसोऽन्धकारस्यहन्तारं अज्ञानस्यवा अग्निसाध्ययज्ञादिद्वाराज्ञानविचारकत्वादितिभावः यद्वा तस्यांयोनौ स्थाने वस्त्रेण य- थागोपनीयंवस्तुगोपयन्ति तद्वत् तमग्निं वासय निवासय स्थापय मन्मना मननीयेन हद्येन वस्त्रसदृ- शेन मृदुकाष्ठादिना आच्छादयवा कीदृशं ज्योतीरथं दीप्तरथोपेतं शॆषंपूर्ववत् ॥ १ ॥