श्रवणम्

1.140.2 समानपद
अ॒भि द्वि॒जन्मा᳚ त्रि॒वृदन्न᳚मृज्यते संवत्स॒रे वा᳚वृधे ज॒ग्धमी॒ पुनः᳚ ।
अ॒न्यस्या॒सा जि॒ह्वया॒ जेन्यो॒ वृषा॒ न्य१॒᳚न्येन᳚ व॒निनो᳚ मृष्ट वार॒णः ॥
▶ पदपाठः (Word-by-word)
अ॒भि । द्वि॒॑जन्मा᳚ । त्रि॒॑वृत् । अन्न᳚म् । ऋ॒ज्य॒ते॒ । सं॒व॒त्स॒रे । व॒वृ॒धे॒ । ज॒ग्धम् । ई॒मिति᳚ । पुन॒रिति᳚ ।
अ॒न्यस्य᳚ । आ॒सा । जि॒ह्वया᳚ । जेन्यः᳚ । वृषा᳚ । नि । अ॒न्येन᳚ । व॒निनः᳚ । मृ॒ष्ट॒ । वा॒र॒णः ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्विजन्मा द्वाभ्यामरणीभ्यांजायमानत्वात् यद्वा मथनेनाधनसंस्कारेणचोत्पन्नत्वात् द्विजन्मत्वं अन्येभ्योऽपिदृश्यन्तइतिमनिन् अयमग्निः त्रिवृदन्नं आज्यपुरोडाशसोमरूपेण त्रिप्रकारमन्नं अदनीयं अभिऋज्यते प्राप्नोति अभितआभिमुख्येननयति भक्षयति ऋजगतिस्थानार्जनोपार्जनेषु व्यत्ययेन- श्यन् यद्वा भृज्यते भ्रस्जपाके पक्वंकरोतिवा किंच ई इदं ईमित्यत्र सांहितिकोमलोपश्छान्दसः जग्धं भक्षितं संवत्सरेपूर्णे पुनर्ववृधे अग्निर्वर्धयति जीर्णस्यपुनर्वृध्यभावात् यजमानं हविर्वृध्याप्रतिसंवत्सरं यागसमर्थं करोतीत्यर्थः यद्वा एकवारं भक्षितं हविः पुनःसंवत्सरेपूर्णेसंवत्सरउदरस्थंवर्धतेवर्धयति- वाभक्षितारं किंचायमग्निर्वृषावर्षकःसन् अन्यस्यहविषः आसा आस्येन जिह्वयागृह्णन् जेन्यःप्रभूतो- भवतीतिशेषः यद्वा वर्षितासन् एकेनरूपेण अन्यस्ययज्ञे होत्रादेः जिह्वयातदुपलक्षितयास्रुचाजेन्यः प्रवृद्धोभवति तथाअन्येन दावाग्निरूपेणवारणः सर्वेषांवारकःसन् वनिनोवनसंबन्धिनोवृक्षान् निमृष्ट निमार्ष्टि दहतीत्यर्थः मृजेश्छान्दसेलङिव्यत्ययेनात्मनेपदम् ॥ २ ॥