अ॒स्माक᳚मग्ने म॒घव᳚त्सु दीदि॒ह्यध॒ श्वसी᳚वान्वृष॒भो दमू᳚नाः ।
अ॒वास्या॒ शिशु᳚मतीरदीदे॒र्वर्मे᳚व यु॒त्सु प᳚रि॒जर्भु᳚राणः ॥
अ॒वास्या॒ शिशु᳚मतीरदीदे॒र्वर्मे᳚व यु॒त्सु प᳚रि॒जर्भु᳚राणः ॥
पदपाठः (Word-by-word)
अ॒स्माक᳚म् । अ॒ग्ने॒ । म॒घव᳚त्॑सु । दी॒दि॒हि॒ । अध᳚ । श्वसी᳚वान् । वृ॒ष॒भः । दमू᳚नाः ।
अ॒व॒॑अस्य᳚ । शिशु᳚॑मतीः । अ॒दी॒देः॒ । वर्म᳚॑इव । यु॒त्॑सु । प॒रि॒॑जर्भु᳚राणः ॥
अ॒व॒॑अस्य᳚ । शिशु᳚॑मतीः । अ॒दी॒देः॒ । वर्म᳚॑इव । यु॒त्॑सु । प॒रि॒॑जर्भु᳚राणः ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने अस्माकं मघवत्सु अस्मत्संबन्धिष्वन्नवत्सु यागेषु गृहेषुवा दीदिहि दीप्यस्व अध अथान- न्तरं श्वसीवान् श्वसनवान् ज्वालाभिश्चेष्टावान् अस्मत्प्राणनवान्वा वृषभोवर्षिता अभिमतानां दमू- नाः दममनाः दान्तमनावा सर्वत्रभवेतिशेषः सउक्तलक्षणस्त्वंशिशुमतीरवास्य शिशुशब्देनतदवस्था- लक्ष्यते शैशववतीर्ज्वालाअपक्षेप्य विहाय अदीदेः भशं दीप्यस्व कीदृशस्त्वं युत्सु संग्रामेषु वर्मेवकव- चमिव परिजर्भुराणः अस्मद्वेष्टॄन्पुनःपुनः परिहरन् यद्वा युत्सु संग्रामेषु वर्मेव परिजर्भुराणोभव हरते- र्यङ्लुगन्ताद्भ्यत्ययेनशानच् अभ्यस्तानामादिरित्याद्युदात्तत्वं उक्तगुणकोभवान् मघवत्सु यज्ञेषु दीप्यस्व ॥ १० ॥