प्रथमं मण्डलम् - सूक्तम् 187

11 ऋचः

ऋषिः: अगस्त्यो मैत्रावरुणिः देवता: अन्नम् छन्दः: अनुष्टुब्गर्भोष्णिक्

सूक्तम् 1.187 - सम्पूर्णम्

1 / 11
ऋक्: 1.187.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
1.187.1
पि॒तुं नु स्तो᳚षं म॒हो ध॒र्माणं॒ तवि᳚षीम् ।
यस्य᳚ त्रि॒तो व्योज᳚सा वृ॒त्रं विप᳚र्वम॒र्दय᳚त् ॥
▶ पदपाठः (Word-by-word)
पि॒तुम् । नु । स्तो॒ष॒म् । म॒हः । ध॒र्माण᳚म् । तवि᳚षीम् ।
यस्य᳚ । त्रि॒तः । वि । ओज᳚सा । वृ॒त्रम् । वि॑प᳚र्वम् । अ॒र्दय᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहमगस्त्यः नुक्षिप्रंपितुंपालकमन्नंस्तोषंस्तौमि महोमहान्तंधर्माणंसर्वस्यधारकंतविषीं बलत्मकं यद्वा महतोलोकस्यधारकंयस्यान्नस्यौजसाबलेनसामर्थ्येनत्रितोविस्तीर्णतमः प्रख्यातकीर्तिस्त्रिषुक्षि- त्यादिस्थानेषुतायमानोपीन्द्रः वृत्रंविपर्वंविच्छिन्नसन्धिकंयथातथाव्यर्दयत् हिंसितवान् ॥ १ ॥

1.187.2
स्वादो᳚ पितो॒ मधो᳚ पितो व॒यं त्वा᳚ ववृमहे ।
अ॒स्माक᳚मवि॒ता भ᳚व ॥
▶ पदपाठः (Word-by-word)
स्वादो॒ इति᳚ । पि॒तो॒ इति᳚ । मधो॒ इति᳚ । पि॒तो॒ इति᳚ । व॒यम् । त्वा॒ । व॒वृ॒म॒हे॒ ।
अ॒स्माक᳚म् । अ॒वि॒ता । भ॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेस्वादो आस्वादनीयपितोपालक मधोमाधुर्योपेतपितो हेपानसाधनान्न वयंत्वात्वांववृमहे सेवा- महे अत्रसर्वत्राननुदात्तानांपूर्वस्यासामान्यवचनत्वेनानिघातत्वम् अनुदात्तानंतुविशेषवचनत्वान्नि- घातत्वं असकृत्पितुशब्दश्रवणंतस्यप्राशस्त्यज्ञापनार्थं हेपितो अस्माकमवितातर्पयिताभव ॥ २ ॥

1.187.3
उप᳚ नः पित॒वा च᳚र शि॒वः शि॒वाभि᳚रू॒तिभि᳚ः ।
म॒यो॒भुर᳚द्विषे॒ण्यः सखा᳚ सु॒शेवो॒ अद्व᳚याः ॥
▶ पदपाठः (Word-by-word)
उप᳚ । नः॒ । पि॒तो॒ इति᳚ । आ । च॒र॒ । शि॒वः । शि॒वाभिः᳚ । ऊ॒ति॑भिः᳚ ।
म॒यः॒॑भुः । अ॒द्वि॒षे॒ण्यः । सखा᳚ । सु॒॑शेवः᳚ । अद्व᳚याः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपितो यत्स्त्वंशिवः मङ्गलः अतः शिवाभिः मङ्गलयुक्ताभिः ऊतिभीरक्षणैः नोस्मान् उपसमीपं आचरआगच्छ आगत्यचमयोभुः सुखस्यभावयिता अद्विषेण्यः अद्वेष्यरसः प्रियरसइत्यर्थः सखासखि- वत्प्रियकारी सुशेवः अतएवसुष्ठुसुखकरः अद्वयाः द्वयरहितः उक्तगुणएव नतु तद्विपरीतोभवेत्यर्थः अथवादृष्टान्तवादोयं सुशेवः अद्वयाः मनः कर्मविसंवादरहितः सखायथा मयोभुरद्वेष्यश्चभवति तद्वत् त्वमपिभवेत्यर्थः ॥ ३ ॥

1.187.4
तव॒ त्ये पि᳚तो॒ रसा॒ रजां॒स्यनु॒ विष्ठि᳚ताः ।
दि॒वि वाता᳚ इव श्रि॒ताः ॥
▶ पदपाठः (Word-by-word)
तव᳚ । त्ये । पि॒तो॒ इति᳚ । रसाः᳚ । रजां᳚सि । अनु᳚ । वि॑स्थि᳚ताः ।
दि॒वि । वाताः᳚॑इव । श्रि॒ताः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपितो तव त्वत्संबन्धिनः त्येतेस्वाद्वम्लादिषड्र्साः रजांसिलोकान् लोकस्थानर्थाननुआनुकूल्येन- विष्ठिताः विविधंस्थिताः विविधस्थितौदृष्टान्तः—दिविद्युलोकेन्तरिक्षेश्रितावाताइववायवः तेयथा- व्याप्तास्तद्वत् ॥ ४ ॥

1.187.5
तव॒ त्ये पि᳚तो॒ दद᳚त॒स्तव᳚ स्वादिष्ठ॒ ते पि᳚तो ।
प्र स्वा॒द्मानो॒ रसा᳚नां तुवि॒ग्रीवा᳚ इवेरते ॥
▶ पदपाठः (Word-by-word)
तव᳚ । त्ये । पि॒तो॒ इति᳚ । दद᳚तः । तव᳚ । स्वा॒दि॒ष्ठ॒ । ते । पि॒तो॒ इति᳚ ।
प्र । स्वा॒द्मानः᳚ । रसा᳚नाम् । तु॒वि॒ग्रीवाः᳚॑इव । ई॒र॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपितो पालकान्न त्येतेत्वदर्थिनोनरास्तवभोक्तारोभवन्तीतिशॆषः केतेनराः हेस्वादिष्ठस्वादुतम पितोपालक तवत्वदनुग्रहात् तेत्वांददतः प्रयच्छन्तोभवन्ति यद्वातेपितोइत्यादरार्थं अभ्यासेहिभूयां समर्थंमन्यन्ते किञ्च तवरसानां स्वाद्वम्लादीनांषण्णांस्वाद्मानः स्वादयितारोभक्षयितारएवतुविग्री- वाइव तुवीतिबहुनाम प्रवृद्धग्रीवाएवप्रेरतेप्रकर्षेणगच्छन्ति संचरन्ति इवशब्दएवकारार्थः पूरणोवा भूलोकेअत्तारएवदृढाङ्गाभवन्तीतिप्रसिद्धं अनशनेहिग्रीवाअधोलंबते यद्वा तवरसानामत्तारः असं- ख्यातग्रीवाइवभवन्ति रसानांबाहुल्यादितिभावः एवंबहुरसोपेतमन्नमितितस्यस्तुतिः ॥ ५ ॥

1.187.6
त्वे पि᳚तो म॒हानां᳚ दे॒वानां॒ मनो᳚ हि॒तम् ।
अका᳚रि॒ चारु᳚ के॒तुना॒ तवाहि॒मव᳚सावधीत् ॥
▶ पदपाठः (Word-by-word)
त्वे इति᳚ । पि॒तो॒ इति᳚ । म॒हाना᳚म् । दे॒वाना᳚म् । मनः᳚ । हि॒तम् ।
अका᳚रि । चारु᳚ । के॒तुना᳚ । तव᳚ । अहि᳚म् । अव᳚सा । अ॒व॒धी॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपितो महानांपूज्यानांमहतांवादेवानामिन्द्रादीनांमनस्त्वेत्वयिहितंनिहितं अकारिकृतं अमृतं- विहायत्वय्येववर्तते हेपितो तवचारुस्मीचीनेनकेतुनात्वत्कृतेनप्रज्ञालक्षणेनअवसारक्षणेनाहिंमेघं- वृत्रंवाअवधीत् हत्वानिन्द्रः अन्नमयंहिसोम्यमनइतिश्रुतेः । अथवात्वत्केतुनाजगद्रक्षणेन निमित्तेने- तियोज्यं जगद्रक्षणार्थंहीन्द्रेणाहिर्भिद्यते ॥ ६ ॥

1.187.7
यद॒दो पि᳚तो॒ अज᳚गन्वि॒वस्व॒ पर्व᳚तानाम् ।
अत्रा᳚ चिन्नो मधो पि॒तो॑रं᳚ भ॒क्षाय᳚ गम्याः ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒दः । पि॒तो॒ इति᳚ । अज᳚गन् । वि॒वस्व᳚ । पर्व᳚तानाम् ।
अत्र᳚ । चि॒त् । नः॒ । म॒धो॒ इति᳚ । पि॒तो॒ इति᳚ । अर᳚म् । भ॒क्षाय᳚ । ग॒म्याः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपितोअन्न त्वांयद्यदाविवस्व सुपोलुक् अन्त्यलोपश्छान्दसः विवासनवतांविद्युद्रूपप्रकाशनवतां- उदकलक्षणधनवतांवापर्वतानांमेघानांसंबन्धिअदः प्रसिद्धंतदुदकं अजगन् अगमत् गच्छेत् अत्रचित् अस्मिन्कालेहेमधोहेपितोमाधुर्योपेतान्नत्वंनोस्मान् अरंअलंसंपूर्णंभक्षायभक्षणायगम्याः गच्छसन्नि हितोभव ॥ ७ ॥

1.187.8
यद॒पामोष᳚धीनां परिं॒शमा᳚रि॒शाम᳚हे ।
वाता᳚पे॒ पीव॒ इद्भ᳚व ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒पाम् । ओष᳚धीनाम् । प॒रिं॒शम् । आ॒॑रि॒शाम᳚हे ।
वाता᳚पे । पीवः᳚ । इत् । भ॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत् येनअपामोषधीनांचसंबन्धिपरिंशंपरितःलेशं परितःसुखकरमन्नमारिशामहे आस्वादयामः भक्षयामः तेनान्नोदकसारेण हेवातापेवातेनप्राणेनाप्नोतिस्वनिर्वाहमितिवा तेनाप्यायतइतिवावा- तापिशरीरं हेशरीर त्वंपीवइत् आप्यायितएवभव अन्नोदकाभ्यांशरीरवृद्धिः प्रसिद्धा यद्वा यद्यप्य- पामोषधीनांपरिंशंलेशमास्वाद् यामः तथापिहेवातापे वातवत्सर्वव्यापकपितो त्वमल्पमपि पीव- इत् पीवएवभव ॥ ८ ॥

1.187.9
यत्ते᳚ सोम॒ गवा᳚शिरो॒ यवा᳚शिरो॒ भजा᳚महे ।
वाता᳚पे॒ पीव॒ इद्भ᳚व ॥
▶ पदपाठः (Word-by-word)
यत् । ते॒ । सो॒म॒ । गो॑आ᳚शिरः । यव᳚॑आशिरः । भजा᳚महे ।
वाता᳚पे । पीवः᳚ । इत् । भ॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वमन्नसाम्येनस्तुत्वेदानींसोमलक्षणमन्नंस्तौति हेसोम तेतवयत् यमंशंगवाशिरः गोविकारक्षी- राद्याश्रपणद्रव्यं यवाशिरः यवविकाराश्रपणद्रव्यंभजामहे सेवामहे तेन हेवातापे शरीरपीवोभव ॥ ९ ॥

1.187.10
क॒र॒म्भ ओ᳚षधे भव॒ पीवो᳚ वृ॒क्क उ᳚दार॒थिः ।
वाता᳚पे॒ पीव॒ इद्भ᳚व ॥
▶ पदपाठः (Word-by-word)
क॒र॒म्भः । ओ॒ष॒धे॒ । भ॒व॒ । पीवः᳚ । वृ॒क्कः । उ॒दा॒र॒थिः ।
वाता᳚पे । पीवः᳚ । इत् । भ॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

करंभः यः करंभादिरूपःसक्तुपिंडोस्ति तदात्मकहेओषधेत्वंपीवः स्थौल्यवान् वृक्कः व्याधेर्वर्जयि- ताभव उदारथिः ऊर्ध्वगमनः इन्द्रियाणांउद्दीपयिताभव शिष्टोगतः ॥ १० ॥

1.187.11
तं त्वा᳚ व॒यं पि᳚तो॒ वचो᳚भि॒र्गावो॒ न ह॒व्या सु᳚षूदिम ।
दे॒वेभ्य᳚स्त्वा सध॒माद᳚म॒स्मभ्यं᳚ त्वा सध॒माद᳚म् ॥
▶ पदपाठः (Word-by-word)
तम् । त्वा॒ । व॒यम् । पि॒तो॒ इति᳚ । वचः᳚॑भिः । गावः᳚ । न । ह॒व्या । सु॒सू॒दि॒म॒ ।
दे॒वेभ्यः᳚ । त्वा॒ । स॒ध॒॑माद᳚म् । अ॒स्मभ्य᳚म् । त्वा॒ । स्ध॒॑माद᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपितोअन्नसोमरूप तंतादृशंस्तुतंत्वात्वांमहानुभावंवचोभिः स्तुतिवाग्भिः वयंसुषूदिम क्षारया- मोरसान् तत्रदृष्टान्तः—गावोनहव्या गावोयथाहवींषिउत्पादयन्ति तथा त्वत्सकाशात्सोमंसुषूदिम किमर्थंकीदृशंचेतिचेदुच्यते—देवेभ्यइन्द्रादिभ्यः तदर्थंत्वात्वांसधमादंतेषांसहमादयितारं नकेवलं- देवेभ्यएव किन्तुसधमादं अस्माभिः सहमादयितारं हुतशेषरूपं त्वात्वां अस्मभ्यमस्मदर्थमपि ॥ ११ ॥

समिद्दोअद्येत्येकादशर्चंनवमंसूक्तमागस्त्यं पूर्वंगायत्रंत्वित्युक्तत्वादिदंगायत्रं समिद्धाग्नितनूनपा- दादयःएकादशप्रत्यृचंदेवताः यास्केनअथकिंदेवताः प्रयाजाइत्युपक्रम्याग्नेयाः प्रयाजाऋतुदेवताः छ- न्दोदेवताः पशुदेवताः प्राणदेवताआत्मदेवताः इत्यादिनाबहून्पक्षानुपन्यस्यब्राह्मणानिचप्रदर्श्याग्ने- याएवेतिसिद्धान्तितं समिद्धआप्रियइत्यनुक्रान्तम् पशावगस्त्यानामेकादशप्रयाजरूपमिदमाप्रीसूक्त- म् ।