श्रवणम्

1.187.7
यद॒दो पि᳚तो॒ अज᳚गन्वि॒वस्व॒ पर्व᳚तानाम् ।
अत्रा᳚ चिन्नो मधो पि॒तो॑रं᳚ भ॒क्षाय᳚ गम्याः ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒दः । पि॒तो॒ इति᳚ । अज᳚गन् । वि॒वस्व᳚ । पर्व᳚तानाम् ।
अत्र᳚ । चि॒त् । नः॒ । म॒धो॒ इति᳚ । पि॒तो॒ इति᳚ । अर᳚म् । भ॒क्षाय᳚ । ग॒म्याः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपितोअन्न त्वांयद्यदाविवस्व सुपोलुक् अन्त्यलोपश्छान्दसः विवासनवतांविद्युद्रूपप्रकाशनवतां- उदकलक्षणधनवतांवापर्वतानांमेघानांसंबन्धिअदः प्रसिद्धंतदुदकं अजगन् अगमत् गच्छेत् अत्रचित् अस्मिन्कालेहेमधोहेपितोमाधुर्योपेतान्नत्वंनोस्मान् अरंअलंसंपूर्णंभक्षायभक्षणायगम्याः गच्छसन्नि हितोभव ॥ ७ ॥