प्रथमं मण्डलम् - सूक्तम् 20

8 ऋचः

ऋषिः: मेधातिथिः काण्वः देवता: ऋभवः छन्दः: गायत्री

सूक्तम् 1.20 - सम्पूर्णम्

1 / 8
ऋक्: 1.20.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
1.20.1
अ॒यं दे॒वाय॒ जन्म᳚ने॒ स्तोमो॒ विप्रे᳚भिरास॒या ।
अका᳚रि रत्न॒धात᳚मः ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । दे॒वाय᳚ । जन्म᳚ने । स्तोमः᳚ । विप्रे᳚भिः । आ॒स॒या ।
अका᳚रि । र॒त्न॒॑धात᳚मः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋभवो हि मनुष्याः संतस्तपसा देवत्वं प्राप्ताः । ते चात्र सूक्ते देवताः । तत्संघो जायमानवाचिना जन्मशब्देनैकवचनांतेनात्र निर्दिश्यते । जन्मने जायमानाय ऋभुसंघरूपाय देवाय तत्प्रीत्यर्थमयं स्तोमः स्तोत्रविशेषो विप्रेभिर्मेधाविभिर्ऋृत्विग्भिरासया स्वकीयेनास्येनाकारि । निष्पादितः । कीदृशः स्तोमः । रत्नधातमोऽतिशयेन रमणीयमणियुक्तादिधनप्रदः । स्तोत्रेण तुषा ऋभवो धनं प्रयच्छंतीत्यर्थः ॥ आसया । आस्यशब्दात्तृतीयै कवचनस्य सुपां सुलुगित्यादिना याजादेशः । व्यत्ययेन प्रकृतियकारस्य लोपः । चित इत्यंतोदात्तः । रत्नधातमः । रत्नानि दधातीति रत्नधाः । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ १ ॥

1.20.2
य इन्द्रा᳚य वचो॒युजा᳚ तत॒क्षुर्मन᳚सा॒ हरी᳚ ।
शमी᳚भिर्य॒ज्ञमा᳚शत ॥
▶ पदपाठः (Word-by-word)
ये । इन्द्रा᳚य । व॒चः॒॑युजा᳚ । त॒त॒क्षुः । मन᳚सा । हरी॒ इति᳚ ।
शमी᳚भिः । य॒ज्ञम् । आ॒श॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये ऋभव इंद्रायेंद्रप्रीत्यर्थं वचोयुजाताडनादिकं विना वाङ्मात्रेण रथे युज्यमानौ सुशिक्षितौ हरी एतन्नामकावश्वौ मनसा ततक्षुः संपादितवंतः । ऋभूणां सत्यसंकल्पत्वात्तत्संकल्पमात्रेणेंद्रस्याश्वौ संपन्नावित्यर्थः । ते ऋभवः शमीभर्ग्रहचमसादिनिष्पादनरूपैः कर्मभिर्यज्ञमस्मदीयमाशत । व्याप्तवंतः । अपोऽप्न इत्यादिषु षड्विंशतिसंख्याकेषु कर्मनामसु शमी शिमीति पठितं ॥ वचोयुजा । वचसा युंजाते । सत्सूद्विष्येत्यादिना क्विप् । सुपां सुलुगित्यादिना विभक्तेराकारः । कृदुत्तरपदप्रकृतिस्वरः । ततक्षुः । तक्षू त्वक्षू तनूकरणे । लिट झोरुसादेशः । पादादित्वादानिघातः । शमीभिः । शमयंति पापानीति शम्यः कर्माणि औणादिक इन् । कृदिकारादक्तिनः (पा ४-१-४५) इति ङीष् । वृषादित्वादाद्युदात्तः । आशत । अशू व्याप्तौ । लङि झस्यादादेशः । स्वादिभ्यः श्नुः तस्य बहुलं छंदसीति लुक् । आडगामः । तिङ्ङतिङ इति निघातः ॥ २ ॥

1.20.3
तक्ष॒न्नास᳚त्याभ्यां॒ परि᳚ज्मानं सु॒खं रथ᳚म् ।
तक्ष᳚न्धे॒नुं स᳚ब॒र्दुघा᳚म् ॥
▶ पदपाठः (Word-by-word)
तक्ष᳚न् । नास᳚त्याभ्याम् । परि᳚॑ज्मानम् । सु॒॑खम् । रथ᳚म् ।
तक्ष᳚न् । धे॒नुम् । स॒बः॒॑दुघा᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नासत्याभ्यामश्विदेवप्रीत्यर्थं रथं तक्षन् । ऋभवो देवाः कंचिद्रथमतक्षन् । तक्षणेन संपादितवंतः । कीदृशम् । परिज्मानं परितो गंतारं सुखं उपर्युपवेशने सुखकरम् । किं च धेनुं कांचिद्गां तक्षन् । धातूनामनेकार्थत्वात्तक्षतिरत्र संपादनवाची । कीदृशीं धेनुम् । सबर्दुघां सबरः क्षीरस्य दोग्ध्रं ॥ तक्षन् । बहुलं छंदसीत्यडभावः । नासत्याभ्याम् । न विद्यते सत्यं ययोस्तावसत्यौ । न असत्यौ नासत्यौ । नभ्राण्नपादित्यादिना नलोपाभावः । परिज्मानम् । अजेः परिपूर्वस्य श्वन्नुक्षन्नित्यादिना (उ १-१५८) मन्प्रत्ययेऽकारलोप आद्युतात्तत्वं च निपातनात् । सबर्दुघाम् । सबः पयो दोग्धीति सबर्दुघा । दुहः कब्घश्च (पा ३-२-७०) इति कप् । सबरिति रेफांतं प्रातिपदकं क्षीरवाचीति संप्रदायविदः । कपः पित्त्वादनुदात्तत्वम् । धातुस्वर एव शिष्यते । समासे तृदुत्तरपदप्रकृतिस्वरः ॥ ३ ॥

1.20.4
युवा᳚ना पि॒तरा॒ पुनः᳚ स॒त्यम᳚न्त्रा ऋजू॒यवः᳚ ।
ऋ॒भवो᳚ वि॒ष्ट्य᳚क्रत ॥
▶ पदपाठः (Word-by-word)
युवा᳚ना । पि॒तरा᳚ । पुन॒रिति᳚ । स॒त्य॑म᳚न्त्राः । ऋ॒जु॒॑यवः᳚ ।
ऋ॒भवः᳚ । वि॒ष्टी । अ॒क्र॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्वितीये छंदोमे वैश्वदेवशस्त्रे युवाना पितरा पुनरित्यार्भवस्तृचः । द्वितीयस्याग्निं वो देवमिति खंडे सूत्रितम् । मही द्यौः पृथिवी च नो युवाना पितरा पुनरिति तृचौ (आ ८-१०) इति ॥

ऋभव एतन्नामका देवाः पितरौ स्वकीयौ मातापितरौ पूर्वं वृद्धावपि पुनर्युवाना तरुणावक्रत । कृतवंतः । कीदृशाः । सत्यमंत्रा अवितथमंत्रसामर्थ्योपेताः । पुरश्चरणाद्यनुष्ठानेन सिद्धमंत्रत्वाद्यद्यत्फलमुद्धिश्य मंत्राः प्रयुज्यंते तत्तत्फलं तथैव संपद्यते । तस्माज्जीर्णयोः पित्रोर्युवत्वं संपादयितुं समर्था इत्यर्थः । ऋजूयव ऋजुतामात्मन इच्छंतः । छलरहिता इत्यर्थः । अत एवैवतेषामनुष्ठिता मंत्राः सिध्यंति । विष्टी विष्टयो व्याप्तियुक्ताः । सर्वेषु कार्येष्वेतदीयस्य मंत्रसामर्थ्यस्याप्रतिघातोऽत्र व्याप्तिरुच्यते । ऋभुशब्दं यास्क एवं निर्वक्ति । ऋभव उर भांतीति वर्तेन भांतीति वर्तेन भवंतीति वा । नि ११-१५ । इति ॥ युवाना । युवन्शब्दो यौतेः कनिनंतो नित्त्वादाद्युदात्तः । सुपां सुलुगित्यादिना विभक्तेराकारः । पितरा । पूर्ववदाकारः । सत्यमंत्राः बहुव्रीहौ पूर्वपदप्रकृतिसरः । ऋजुशब्दो भावपरः । ऋजुत्वमात्मन इच्छंति । क्यच् । अकृत्सार्वधातुकयोदीर्घः (पा ७-४-२५) इति दीर्घः । क्याच्छंदसीत्युप्रत्ययः । प्रत्ययस्वरः । विष्टी । विष्लृ व्याप्तौ । क्तच् क्तौ च संज्ञायामिति क्तिच् । तितुत्रेत्यादिनेट् प्रतिबंधः । तस्माज्जस इयाडियाजीकाराणामुपसंख्यानम् । पा ७-१-३९-१ । इति तस्येकारादेशः । स चालोंऽत्यस्य (पा १-१-५२) इति सकारस्य भवति । तत्र आद्गुण इति गुणे कृते प्रथमयोः पूर्वसवर्णः (पा ६-१-१०२) इति पूर्वसवर्णदीर्घः । तं बाधित्वा परत्वाज्जसि च (पा ७-३-१०९) इति ह्रस्वस्य गुणेन भवितव्यमिति चेन्न । संज्ञापूर्वकस्य विधेरनित्यत्वान् । अक्रत । कृञो लुङ् । आत्मनेपदम् । झस्यादादेशः । मंत्रे घसेत्यादिना (पा २-४-८०) च्लेर्लुक् । यणादेशः । अडागमः । निघातः ॥ ४ ॥

1.20.5
सं वो॒ मदा᳚सो अग्म॒तेन्द्रे᳚ण च म॒रुत्व᳚ता ।
आ॒दि॒त्येभि᳚श्च॒ राज᳚भिः ॥
▶ पदपाठः (Word-by-word)
सम् । वः॒ । मदा᳚सः । अ॒ग्म॒त॒ । इन्द्रे᳚ण । च॒ । म॒रुत्व᳚ता ।
आ॒दि॒त्येभिः᳚ । च॒ । राज᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋभवो वो युष्माकं संबंधिनो मदासो मदहेतवः सोमा इंद्रेण चादित्येभिरादित्यैश्च समग्मत । संगताः । ऋभूणामिंद्रादित्यैः सह सोमापानं तृतीयसवनेऽस्ति । अत एवावाहनिगद आश्वलायनेनैवं पठितः । इंद्रमादित्यवंतमृभुमंतं विभुमंतं वाजवंतं बृहस्पतिमंतं विश्वदेव्यावंतमावहेति (आ ५-३) कीदृशेनेंद्रेण । मरुत्वता । मरुद्भिर्युक्तेन । अत एव मंत्रांतरमेवमाम्नायते । मरुद्भिरिंद्र सख्यं ते अस्तु । ऋग्वे ८-९६-७ । इति कीदृशैरादित्येभिः । राजभिर्दीप्यमानैः ॥ मदासः । माद्यंत्येभिरिति मदाः सोमाः । मदोऽनुपसर्गे (पा ३-३-६७) इत्यप् । तस्य पित्त्वादनुदात्तत्वम् । धातुस्वर एव शिष्यते । आज्ज सेरसुगिति जसोऽसुगागमः । अग्मत । गमेः संपूर्वाल्लुङ् । समो गम्यृच्छेत्यादिना (पा १-३-२९) आत्मनेपदम् । झस्यादादेशः । मंत्रे घसेत्यादिना चेर्ल्लुक् । गमहनेत्यादिना (पा ६-४-९८) उपधालोपः । व्यवहिताश्चेति समो व्यवहितप्रयोगः । निघातः । मरुत्वता । मरुतोऽस्य संतीति मरुत्वान् । तसौ मत्वर्थ इति भसंज्ञया पदसंज्ञाया बाधितत्वाज्जश्त्वाभावः । झयः (पा ८-२-१०) इति मतुपो वत्वम् । आदित्येभिः । बहुलं छंदसीति भिस ऐसादेशाभावे बहुवचने झल्येदित्येवम् । राजभिः । राजन्शब्दस्य कनिनंतत्वेन नित्त्वादाद्युदात्तत्वं ॥ १ ॥ ५ ॥

1.20.6
उ॒त त्यं च᳚म॒सं नवं॒ त्वष्टु᳚र्दे॒वस्य॒ निष्कृ᳚तम् ।
अक᳚र्त च॒तुर॒ः पुनः᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒त । त्यम् । च॒म॒सम् । नव᳚म् । त्वष्टुः᳚ । दे॒वस्य᳚ । निः॑कृ᳚तम् ।
अक᳚र्त । च॒तुरः᳚ । पुन॒रिति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापि च त्वष्टुरेतन्नामकस्य देवस्य संबंधी तक्षणव्यापारः । नवं नूतनं त्यं चमसं तं सोमधारणक्षमं काष्ठपात्रविशेषं निष्कृतं निःशेषेण संपादितमकरोदिति शेषः । तक्षणव्यापारकुशलस्य त्वष्टुः शिष्या ऋभवस्तेन निर्मितं तमेकं चमसं पुनरपि चतुरोऽकर्त । चतुर्धा विभक्तांश्चमसान्कृतवंतः । एकस्य चतुर्विधत्वकरणरूपोऽयमर्थो मंत्रांतरेऽपि विस्पष्टः । एकं चमसं चतुरस्कृणोतन । ऋग्वे १-१६१-२ ॥ इति ॥ नवम् । णु स्तुतौ । नूयत इति नवम् । कर्मणि अप्प्रत्ययः । स हि घञोऽपवादत्वाध्घञर्थे सर्वत्र भवति । घञ् प्रत्ययश्चाकर्तरि च कारिके संज्ञायाम् (पा ३-३-१९) इति कर्तृव्यतिरिक्ते सर्वत्र कारके भवति । यद्यपि तत्र संज्ञायामित्युक्तं तथापि चकारस्य संज्ञाव्यभिचारार्थत्वादसंज्ञायामपि भवत्येव । संबध्यत इति संबंधः । कर्मणि घञित्युक्तम् । त्वष्टुः । तक्षू त्वक्षू तनूकरणे । औणादिकस्तृन् । ऊदित्वात्पक्ष इडभावः पा ७-२-४४ । स्को संयोगाद्योरंते च (पा ८-२-२९) इति ककारलोपः । निष्कृतम् । कृञो निरुस्पष्टात्कर्मणि क्तः । प्रादिसमासे नित्यं समासेऽनुत्तरपदस्थस्य (पा ८-३-४५) इति षत्वम् । अत्र कर्तृकर्मणोः कृति (पा २-३-६५) इति प्राप्ता षष्ठी यद्यपि न लोकाव्ययेति निषिद्धा (पा २-३-६९) तथापि कर्तुः शेषत्वेन विवक्षितत्वात्कर्तृकरणयोस्तृतीया (पा २-३-१८) इत्येतस्याः प्राप्तेः शैषिकी षष्ठी । यथा कर्मणि शेषत्वेन विवक्षिते (पा २-३-५०) माषाणामश्नीयादिति । गतिरनंतर इति निसउदात्तत्वम् । अकर्त । आकृषत । कृञो लुङि झस्य व्यत्ययेन तादेशः । मंत्रे घसेत्यादिना च्लेर्लुक् । छंदस्सुभयथेति तिङ अर्धधातुकत्वाद्ङित्वाभावेन गुणः । चतुरः । चतुरः शसि (पा ६-१-१६७) इत्युकार उदात्तः । पुनः । स्वरादिष्वाद्युदात्तः । पठितः ॥ ६ ॥

1.20.7
ते नो॒ रत्ना᳚नि धत्तन॒ त्रिरा साप्ता᳚नि सुन्व॒ते ।
एक᳚मेकं सुश॒स्तिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
ते । नः॒ । रत्ना᳚नि । ध॒त्त॒न॒ । त्रिः । आ । साप्ता᳚नि । सु॒न्व॒ते ।
एक᳚म्॑एकम् । सु॒श॒स्ति॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तृतीये छंदोमे वैश्वदेवशस्त्रे ते नो रत्नानि धत्तनेति द्वे ऋचावार्भव्यौ । तृतीयस्यागन्म महेति खंडे सूत्रितम् । इंद्र इषे ददातु नस्ते नो रत्नानि धत्तनेत्येका द्वे च (आ ८-११) इति ॥

पूर्वास्वृक्षु ये प्रतिपादिता ऋभवस्ते यूयं सुशस्तिभिः शोभनैरस्मदीय शंसनैर्युक्ताः संतो नोऽस्माकं संबंधिने सुन्वते सोमाभिषवं कुर्वते यजमानाय रत्नानि रमणीयानि सुवर्णमणिमुक्तादीनि धनान्येकमेकं क्रमेण प्रत्येकं धत्तन । प्रयच्छत । सुवर्णादीनां मध्ये प्रतिद्रव्यं यावदपेक्षितं तावदिति विवक्षयै कमेकमित्युक्तम् । कीदृशानि रत्नानि । त्रिरा त्रिवारमावृत्तानि । उत्तमानि मध्यमान्यधमानि चेत्येवं रत्नानां त्रिरावृत्तिः । किं च साप्तानि सप्तसंख्यानिष्पन्नवर्गरूपाणि कर्माणि च धत्तन । संपादयत । कीदृशानि साप्तानि । त्रिरा त्रिवारमा वृत्तानि । अग्न्याधेयदर्शपूर्णमासादीनां सप्तानां हविर्यज्ञा नामेको वर्गः । औपासनहोमो वैश्वदेवमित्यादीनां सप्तानां पाकयज्ञानां वर्गो द्वितीयः । अग्निष्टोमोऽत्यग्निष्टोम इत्यादीनां सप्तानां सोमसंख्यानां वर्गस्तृतीयः ॥ रत्नानि । रमु क्रीडायाम् । निदित्यनुवृत्तौ रमेस्त च (उ ३-१४) इति नप्रत्ययः । तत्सन्नियोगेन मकारस्य तकारः । नित्त्वादाद्युदात्तः । धत्तन । धत्त । तप्तनप्तनथनाश्चेतितशब्दस्य तनादेशः । सप्तानां वर्गः साप्तम् । सप्तनोऽञ् छंदसि (पा ५-१-६१) इति वर्गेऽञ् प्रत्ययः । नस्तद्धिते (पा ६-४-१४४) इति टलोपः । ञित्वादादिवृद्धिराद्युतात्तत्वं च । अत्र वर्गवचनेनानेन वर्गिणो लक्ष्यंते । तेन बहुवचनम् । अन्यथा ह्येक एव वर्गस्त्रिरावृत्त इत्येकवचनमेव स्यात् । सुन्वते । शतुरनुम इति विभक्तेरुदात्तत्वम् । एकमेकम् । नित्यवीप्सयोरिति वीप्सायां द्विर्भावः । एकशब्द इणः कनंतो नित्त्वादाद्यदात्तः । द्वितीयस्यैकशब्दस्य तस्य परमाम्रेडितमित्याम्रेडितसंज्ञायामनुदात्तं चेत्यनुदात्तत्वम् । सुशस्तिभिः शस्यत आभिरिति शस्तय ऋचः । शन्सु स्तुतौ । करणे क्तिन् । तस्य कित्त्वान्नलोपः । शोभनाः शस्तय इति प्रादिसमासे यद्यपि च क्तिनो नित्त्वादाद्युदात्तत्वेन कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव प्राप्तं तत्तु परेण मन् क्तिन्व्याख्यानेत्यादिनोत्तरपदांतोदात्तत्वेन बाध्यते । पा ६-२-१५१ ॥ ७ ॥

1.20.8
अधा᳚रयन्त॒ वह्न॒यो॑भ᳚जन्त सुकृ॒त्यया᳚ ।
भा॒गं दे॒वेषु᳚ य॒ज्ञिय᳚म् ॥
▶ पदपाठः (Word-by-word)
अधा᳚रयन्त । वह्न᳚यः । अभ᳚जन्त । सु॒॑कृ॒त्यया᳚ ।
भा॒गम् । दे॒वेषु᳚ । य॒ज्ञिय᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वह्नयश्चमसादिसाधननिष्पादनेन यज्ञस्य वोढार ऋभवोऽधारयंत । पूर्वं मनुष्यत्वेन मरणयोग्या अप्यमृतत्वलाभेन प्राणान्धारितवंतः । तथा च मंत्रांतरमाम्नायते । मर्तासः संतो अमृतत्वमानशुः । ऋग्वे १-११०-४ । इति । किंचैते सुकृत्यया यज्ञ साधनद्रव्यसंपादनरूपेण शोभनव्यापारेण देवेषु मध्ये स्थिता यज्ञियं यज्ञार्हं भागं हविर्लक्षणमभजंत । सेवितवंतः । अयमर्थः सौधन्वना यज्ञियं भागमानश । ऋग्वे । ३-६०-१ । इत्यादिमंत्रांतरे विस्पष्वः । ब्राह्मणेऽप्यृभवो वै देवेषु तपसा सोमपीथमभ्यजयन् । ऐ ब्रा ३-३० । इत्याद्युपाख्यानं विस्पष्टं ॥ वह्नयः । निदित्यनुवृत्तौ वहिश्रीत्यादिना निप्रत्ययः । अभजंत । पादादित्वादनिघातः । सुकृत्यया । विभाषा कृवृषोः पा ३-१-१२० । इति कृञः कर्मणि क्यप् । शोभनं कृत्यं यस्या भजनक्रियायाः सा सुकृत्या बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं बाधित्वा नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । ननु कृत्यशब्दे क्यपः पित्त्वेनानुदात्तत्वाद्धातुस्वरेणादिरुदात्तः । ततश्चाद्युदात्तं द्व्यच्छंदसीत्यनेनाद्युदात्तत्वेन भवितव्यम् । तेन हि पुरस्तादपवादेन परमपि नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वं बाध्यत इत्युक्तम् । एवं तर्हि कृञः श च (पा ३-३-१००) इति स्त्रियां भावे क्यप्प्रत्ययांतः कृत्याशब्दः । क्यपः पित्त्वेऽपि व्यत्ययेनोदात्तत्वम् । प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते । भागम् । कर्षात्वतः (पा ६-१-१५९) इत्यंतोदात्तः । यज्ञियम् । यज्ञमर्हतीत्यर्थे यज्ञर्त्विग्भ्यां घखञौ (पा ५-१-७१) इति घः । तस्य इयादेशः । प्रत्ययस्वरः ॥ ८ ॥