नास᳚त्याभ्यां ब॒र्हिरि᳚व॒ प्र वृ᳚ञ्जे॒ स्तोमा{4}᳚ इयर्म्य॒भ्रिये᳚व॒ वातः᳚ ।
यावर्भ᳚गाय विम॒दाय᳚ जा॒यां से᳚ना॒जुवा᳚ न्यू॒हतू॒ रथे᳚न ॥
नास᳚त्याभ्याम् । ब॒र्हिः॑इ᳚व । प्र । वृ॒ञ्जे॒ । स्तोमा᳚न् । इ॒य॒र्मि॒ । अ॒भ्रिया᳚॑इव । वातः᳚ ।
यौ । अर्भ᳚गाय । वि॒॑म॒दाय᳚ । जा॒याम् । से॒ना॒॑जुवा᳚ । नि॒॑ऊ॒हतुः᳚ । रथे᳚न ॥
सप्तदशेऽनुवाके पंच सूक्तानि । तत्र नासत्याभ्यामिति पंचविंशत्यृचं प्रथमं सूक्तम् । उशिक्संज्ञायामंगराजस्य महिष्या दास्यां दीर्घतमसोत्पादितः कक्षीवानस्य सूक्तस्य ऋषिः । त्रिष्टुप् छंदः । अश्विनौ देवता । तथा चानुक्रांतम् । नासत्याभ्यां पंचाधिका कक्षीवान्दैर्घतमस उशिक्प्रसूत अश्विनं वा इति । तुह्यादिपरिभाषयेदमादीनि पंच सूक्तान्यश्विदेवत्यानि ॥ प्रातरनुवाकस्याश्विने क्रतौ त्रैष्टुभे छंदसीदमादीनि त्रीणि सूक्तानि । अथाश्विन इति खंडे सूत्रितम् । ग्रावाणेव नासत्याभ्यामिति त्रीणि (आ ४-१५) इति ॥ अश्विनशस्त्रे चैतानि शस्यानि प्रातरनुवाकन्यायेन (आ ६-५) इत्यतिदिष्टत्वात् ॥
बर्हिरिव यथा कश्चिद्यजमानो यागार्थ बर्हिः प्र वृंजे प्रकर्षेणान्यूनानतिरिक्तं यागाय पर्याप्तं दर्भं वृंक्ते छिनत्ति । संपादयतीति यावत् । एवमहं नासत्याभ्यामश्विभ्यां स्तोमान् स्तुतीरियर्मि । संपादयामि । एतदेव वितदीक्रियते । अभ्रियेव यथाभ्रियाण्यभ्रेषु मेघेष्ववस्थितान्युदकानि वातो वायुर्वर्षणार्थं बहुशः प्रेरयति एवमहमश्विभ्यां स्तोत्राणीयर्मि । बहुशः प्रेरयामि । कीदृशावश्विनौ । अर्भगाय बालाय स्वयंवरलब्धभार्याय विमदायैतत्संज्ञाय राजर्षये मध्येमार्गं स्वयंवरार्थमागतैस्तामलभमानैरन्यैर्नृपैः सह योद्धुमशक्नुवतेऽपि तस्मै सेनाजुवा शत्रुसेनायाः प्रेरकेण शत्रुभिर्दुष्प्रापेण रथेन यावश्विनौ जायां भार्यां परैरनुक्रांतां न्यूहतुः शत्रून्निहत्य तदीयं गृहं प्रापयामासतुः । ताभ्यामित्यर्थः ॥ नासत्याभ्याम् । सत्सु भवौ सत्यौ । न सत्यावसत्यौ । न असत्यौ नासत्यौ । नभ्राण्नपादित्यादिना नञः प्रकृतिभावः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । वृंजे । वृजी वर्जने । आदादिकः । इदित्वान्नुम् । लोपस्त आत्मनेपदेष्विति तलोपः । इयर्मि । ऋगतौ । जुहोत्यादिकः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । आभ्यासस्यासवर्ण इतीयङ् । अभ्रियेव । समुद्राभ्राद्घ इति भवार्थे घः । घस्येयादेशः । शेश्छंदसि बहुलमिति शेर्लोपः । अर्भगाय । अर्तिगॄभ्यां भन् (उ ३-१५२) इत्यर्तेर्भन् । अर्भ एवार्भकः । संज्ञायां कन् (पा ५-३-८७) छांदसो गकारः । अपर आह । अर्भमल्पं गायति शब्दयतीत्यर्भगः । कै गै शब्दे । गापोष्टक् (पा ३-२-८) आतो लोप इट चेत्याकारलोपः । तदेतत्पदकृतः शाकल्यस्याभिमतम् । सेनाजुवा । जु इति सौत्रो धातुर्गत्यर्थः । अस्मादंतर्भावितण्यर्थात् क्विब्वचिप्रच्छीत्यादिना क्विब्दीर्घौ । तन्वादित्वादुवङ् । पा ६-४-७७-१ । न्यूहतुः । वह प्रापणे । लिट्यतुसि यजादित्वात्संप्रसारणं यद्वृत्तान्नित्यमिति निघातप्रतिषेधः ॥ १ ॥
वी॒ळु॒पत्म᳚भिराशु॒हेम᳚भिर्वा दे॒वानां᳚ वा जू॒तिभि॒ः शाश᳚दाना ।
तद्रास᳚भो नासत्या स॒हस्र᳚मा॒जा य॒मस्य᳚ प्र॒धने᳚ जिगाय ॥
वी॒ळु॒पत्म᳚॑भिः । आ॒शु॒हेम᳚॑भिः । वा॒ । दे॒वाना᳚म् । वा॒ । जू॒ति॑भिः᳚ । शाश᳚दाना ।
तत् । रास᳚भः । ना॒स॒त्या॒ । स॒हस्र᳚म् । आ॒जा । य॒मस्य᳚ । प्र॒॑धने᳚ । जि॒गा॒य॒ ॥
वीळुपत्मभिः । वीड्विति बलनाम । बलवदुत्पतनैः आशुहेमभिः शीघ्रगमनैः वाशब्दः समुच्चये । हे नासत्यावश्विनौ एवंभूतैरश्वैश्च देवानामिंद्रादीनां जूतिभिः प्रेरणैश्च शाशदाना शाशद्यमानयोरत्यर्थं प्रेर्यमाणयोर्युवयोर्वाहनभूतो यो रासभः प्रजापतिना दत्तः स यमस्य वैवस्वतस्य प्रीतिकरे प्रधने प्रकीर्णधनोपेत आजा आजौ संग्रामे तच्छत्रूणां सहस्रं जिगाय । जितवान् । वैवस्वतो हि बहूनां मरणहेतुना संग्रामेण तुष्टो भवति । यद्वा । जेतव्यत्वेन प्रजापतिना निहितमृक्सहस्रं शीघ्रगमनयुक्तो रासभो जिगाय । जयेनालभत । अन्येभ्यो देवेभ्यः पूर्वमेवाजिं प्राप्य युवां जयं प्रापयामास । तथा जास्मिन्नर्थे प्रजापतिर्वै सोमाय राज्ञे दुहितरं प्रायच्छत् । ऐ । ब्रा । ४-७ । इत्यादिकं ब्राह्मणमनुसंधेयं ॥ वीळुपत्मभिः । वीळु बलवत्पतंतीति वीळुपत्मानः आशुहेमभिः । आशु शीघ्रं हिन्वंति गच्छंतीत्याशुहेमानः । तैः । हि गतौ वृद्धौ च । अन्येभ्योऽपि दृश्यंत इति मनिन् । कृदुत्तरपद प्रकृतिस्वरत्वम् । जूतिभिः । ऊतियूतिजूतीत्यादिना क्तिन उदात्तत्वम् । शाशदाना । शद्लृशातने । अत्र गत्यर्थो धातूनामनेकार्थत्वात् । अस्माद्यङिंताल्लटः शानच् । तस्य छंदस्युभयथेत्यार्धधातुकत्वात् श्यनभावः । आतोलोपयलोपौ । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । सुपां सुलुगिति षष्ट्याः पूर्वसवर्णदीर्घः । आजा । तेनैव सूत्रेण डादेशः । जिगाय । जि जये । सन् लिटोर्जेरित्यभ्यासुदात्तरस्य कुत्वं गकारः ॥ २ ॥
तुग्रो᳚ ह भु॒ज्युम᳚श्विनोदमे॒घे र॒यिं न कश्चि᳚न्ममृ॒वा{4} अवा᳚हाः ।
तमू᳚हथुर्नौ॒भिरा᳚त्म॒न्वती᳚भिरन्तरिक्ष॒प्रुद्भि॒रपो᳚दकाभिः ॥
तुग्रः᳚ । ह॒ । भु॒ज्युम् । अ॒श्वि॒ना॒ । उ॒द॒॑मे॒घे । र॒यिम् । न । कः । चि॒त् । म॒मृ॒॑वान् । अव᳚ । अ॒हाः॒ ।
तम् । ऊ॒ह॒थुः॒ । नौ॒भिः । आ॒त्म॒न्॑वती᳚भिः । अ॒न्त॒रि॒क्ष॒प्रुत्॑भिः᳚ । अप᳚॑उदकाभिः ॥
अत्रेयमाख्यायिका । तुग्रो नामाश्विनोः प्रियः कश्चिद्राजर्षिः । स च द्वीपांतरवर्तिभिः शत्रुभिरत्यंतमुपद्रुतः सन् तेषां जयाय स्वपुत्रं भुज्युं सेनया सह नावा प्राहैषीत् । सा च नौर्मध्ये समुद्रमतिदूरं गता वायुवशेन भिन्नासीत् । तदानीं स भुज्युः शीघ्रमश्विनौ तुष्टाव । तौ च स्तुतौ सेनया सहितमात्मीयासु नौष्वारोप्य पितुस्तुग्रस्य समीपं त्रिभिरहोरात्रैः प्रापयामासतुरिति । अयमर्थ इदमादिकेन तृचेन प्रतिपाद्यते । हशब्दः प्रसिद्धौ । तुग्रः खलु पूर्वं शत्रुभिः पीडितः सन् तज्जयार्थमुदमेघे । उदकैर्मिह्यते सिच्यत इत्युदकमेघः समुद्रः । तस्मिन्भुज्युमेतत्संज्ञं प्रियं पुत्रमवाहाः । नावा गंतुं पर्यत्याक्षीत् । तत्र दृष्टांतः । ममृवान् म्रियमाणः सन्धनलोभी कश्चिन्मनुष्यो रयिं न । यथा धनं परित्यजति तद्वत् । हे अश्विनौ तं च भुज्युं मध्येसमुद्रं निमग्नं नौभिः पितृसमीपमूहथुः । युवां प्रापितवंतौ । कीदृशीभिः । आत्मन्वतीभिरात्मीयाभिः । युवयोः स्वभूताभिरित्यर्थः । यद्वा । धृतिरात्मा । धारणवतीभिरित्यर्तः । अंतरिक्षप्रुद्भिर तिस्वच्छत्वादंतरिक्षे जलस्योपरिष्ठादेव गंत्रीभिः अपोदकाभिः । सुश्लिष्टत्वादपगतोदकाभिः । अप्रविष्टोदकाभिरित्यर्थः ॥ उदमेघे । मिह सेचने । कर्मणि घञ् । न्यंक्वादीनां च (पा ७-३-५३) इति कुत्वम् । उदकस्योदः संज्ञायाम् (पा ६-३-५७) थाथादिनोत्तरपदांतोदात्तत्वम् । ममृवान् । मृङ् प्राणत्यागे । लिटः क्वसुः । क्रादिनियमात्प्राप्तस्येटो वस्वेकाजाद्घसामिति नियमादभावः । अहाः । ओहाक् त्यागे । लुङि । तिपि च्लेः सिच् । आगमानुशासनस्यानित्यत्वात्सगिटौ न क्रियेते । बहुलं छंदसीतीडभावः । हल् ङ्याब्भ्य इति तिलोपः । रुत्वविसर्गौ । यद्वा । मंत्रे घसेति च्लेर्लुक् । च्लेर्लुप्तद्वादिण् न क्रियते । नौभिः । सावेकाच इति विभक्तेरुदात्तत्वम् । आत्मन्वतीभिः । आत्मनो मतुप् । मादुपधाया इति वत्वम् । अनो नुडिति नुट् । नलोपः । ह्रस्वनुण्भ्यां मतुबिति मतुप उदात्तत्वम् । अंतरिक्षप्रुद्भिः । प्रुङ् गतौ । क्विप्चेति क्विप् ॥ ३ ॥
ति॒स्रः क्षप॒स्त्रिरहा᳚ति॒व्रज᳚द्भि॒र्नास᳚त्या भु॒ज्युमू᳚हथुः पतं॒गैः ।
स॒मु॒द्रस्य॒ धन्व᳚न्ना॒र्द्रस्य᳚ पा॒रे त्रि॒भी रथै᳚ः श॒तप᳚द्भि॒ः षळ᳚श्वैः ॥
ति॒स्रः । क्षपः᳚ । त्रिः । अहा᳚ । अ॒ति॒व्रज᳚त्॑भिः । नास᳚त्या । भु॒ज्युम् । ऊ॒ह॒थुः॒ । प॒त॒ङ्गैः ।
स॒मु॒द्रस्य᳚ । धन्व᳚न् । आ॒र्द्रस्य᳚ । पा॒रे । त्रि॒॑भिः । रथैः᳚ । श॒तप᳚त्॑भिः । षट्॑अ᳚श्वैः ॥
हे नासत्यौ सेनया सहोदके निमग्नं भुज्युं तिस्रः क्षपस्त्रिसंख्याका रात्रीस्त्रिरहा त्रिवारमावृत्तान्यहानि चातिव्रजद्भिरतिक्रम्य गच्छद्भिरेतावंतं कालमतिव्याप्य वर्तमानैः पंतगैः पतद्भिस्त्रिभिस्त्रिसंख्याकै रथैरूहथुः । युवामूढवंतौ । क्वेति चेत् उच्यते । समुद्रस्यांबुराशेर्मध्ये धन्वन् धन्वनि जलवर्जिते प्रदेशे । आर्द्रस्योदकेनार्द्रीभूतस्य समुद्रस्य पारे तीरदेशे च । कथंभूतै रथैः । शतपद्भिः । शतसंख्याकैश्चक्रलक्षणैः पादैरुपेतैः । षळश्वैः । षड्भिरश्वैर्युक्तैः ॥ तिस्रः । तिचतुरोः स्त्रियामिति त्रिशब्दस्य तिस्रादेशः । स चांतोदात्तः । अचि र ऋत इति रेफादेश उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वम् । क्षपः । विभक्त्यंतस्य छांदसं ह्रस्वत्वम् । यद्वा । शस्यात इति योगविभागदधातोरप्याकारलोपः । अहा । शेश्छंदसि बहुलमिति शेर्लोपः । पतंगैः । पत्लृगतौ । पतेरंगच् (उ १-११८) धन्वन् । धविर्गत्यर्थः । इदित्त्वान्नुम् । कनिन्युवृषीत्यादिना कनिन् । सुपां सुलुगिति सप्तम्या लुक् । शचपद्भिः । शतं पादा येषाम् । संख्यासुपूर्वस्येति पादशब्दस्यांत्यलोपः समासांतः । अयस्मयादित्वेन भत्वात्पादः पदिति पद्भावः । यद्वा । पादसमानार्थः पच्छब्दः प्रकृत्यंतरं द्रष्टव्यं ॥ ४ ॥
अ॒ना॒र॒म्भ॒णे तद᳚वीरयेथामनास्था॒ने अ᳚ग्रभ॒णे स᳚मु॒द्रे ।
यद᳚श्विना ऊ॒हथु᳚र्भु॒ज्युमस्तं᳚ श॒तारि᳚त्रां॒ नाव᳚मातस्थि॒वांस᳚म् ॥
अ॒ना॒र॒म्भ॒णे । तत् । अ॒वी॒र॒ये॒था॒म् । अ॒ना॒स्था॒ने । अ॒ग्र॒भ॒णे । स॒मु॒द्रे ।
यत् । अ॒श्वि॒ना॒ । ऊ॒हथुः᳚ । भु॒ज्युम् । अस्त᳚म् । श॒त॑अ᳚रित्रान् । नाव᳚म् । आ॒त॒स्थि॒वांस᳚म् ॥
हे अश्विनौ अनारंभण आलंबनरहिते समुद्रे तत्कर्मावीरयेथाम् । विक्रांतं कृतवंतौ युवाम् । अनारंभणत्वमेव स्पष्टीकरोति । अनास्थाने । आस्थीयतेऽस्मिन्नित्यौस्थानो भूप्रदेशः । तद्रहिते स्थातुमशक्ये जल इत्यर्थः । अग्रभणेऽग्रहणे । हस्तेन ग्राह्यं शाखादिकमपि यत्र नास्ति तस्मिन्नित्यर्थः । किं पुनस्तत्कर्म । भुज्युं सम्रुदे मग्नं शतारित्रां बह्वरित्राम् । यैः काष्ठैः पार्श्वतो बद्धैर्जलालोडने सति नौः शीघ्रं गच्छति तान्यरित्राणि । ईदृशीं नावमातस्थिवांसमास्थितवंतमारूढवंतं कृत्वास्तम् । गृहनामैतत् । पितुस्तुग्रस्य गृहं प्रति यदूहथुः । तत्प्रापणणन्यैर्दुःशकं युवां समुद्रमध्ये कृतवंतावित्यर्थः ॥ अनारंभणे । आरभ्यत इत्यारंभणम् । कृत्यल्युटो बहुलमिति कर्मणि ल्युट् । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । अवीरयेथाम् । शूर वीर विक्रांतौ । चुरादिरात्मनेपदी । अनास्थानाग्रभणयोः पूर्ववल्ल्युट् स्वरौ । अयं तु विशेषः । हृग्रहोर्भ इति भत्वम् । अस्तम् । अस्यतेऽस्मिन् सर्वमित्यस्तं गृहम् । असिहसीत्यादिना तन्प्रत्ययः । शतारित्राम् । ऋगतौ । अर्तिलूधूसू (पा ३-२-१८४) इति करण इत्रप्रत्ययः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ५ ॥
यम᳚श्विना द॒दथु᳚ः श्वे॒तमश्व᳚म॒घाश्वा᳚य॒ शश्व॒दित्स्व॒स्ति ।
तद्वां᳚ दा॒त्रं महि᳚ की॒र्तेन्यं᳚ भूत्पै॒द्वो वा॒जी सद॒मिद्धव्यो᳚ अ॒र्यः ॥
यम् । अ॒श्वि॒ना॒ । द॒दथुः᳚ । श्वे॒तम् । अश्व᳚म् । अ॒घ॑अ᳚श्वाय । शश्व᳚त् । इत् । स्व॒स्ति ।
तत् । वा॒म् । दा॒त्रम् । महि᳚ । की॒र्तेन्य᳚म् । भू॒त् । पै॒द्वः । वा॒जी । सद᳚म् । इत् । हव्यः᳚ । अ॒र्यः ॥
अत्रेदमाख्यायते । पेदुर्नाम कश्चित् स चाश्विनौ तुष्टाव । तस्मै प्रीतौ कंचिच्छ्वेतवर्णमश्वं दत्तवंतौ । स चाश्वस्तस्य प्रौढं जयं चकारेति । एतदत्र प्रतिपाद्यते । हे अश्विनौ युवामघाश्वायाहंतव्याश्वाय पेदुनाम्ने राजर्षये यं श्वेतवर्णमश्वं ददथुः दत्तवंतौ सोऽश्वस्तस्मै स्वस्ति जयलक्षणं मंगलं शश्वदित् नित्यमेव चकार । वां युवयोस्तद्दात्रं दानं महि महदतिगंभीरम् । अत एव कीर्तेन्यं सर्वैः कीर्तनीयं प्रशस्यं भूत् । अभूत् । तस्मात्पैद्वः पेदो संबंधी पतनशीलः शीघ्रगामी वार्यः शत्रूणां प्रेरयिता युद्धेषु प्रेरयितव्यो वा वाजी वेजनवान्सोऽश्वः सदमित् सदैव हव्योऽस्माभिरप्याह्वातव्यः ॥ दात्रम् । ददातेर्भाव औणादिकस्त्रप्रत्ययः । महि । मह पूजायाम् । इन् सर्वधातुभ्य इतीन् । कीर्तेन्यम् । कॄत संशब्दने । कृत्यार्थे तवैकेन्केन्यत्वन इति केन्यप्रत्ययः । ॠत इद्धातोरितीत्वम् । भूत् । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । पैद्वः । पेदोः संबंधी । तस्येदमित्यण् । छांदसो वर्णलोपः । हव्यः । ह्वयतेरचो यदिति यत् । बहुलं छंदसीति संप्रसारणम् । गुणो धातोस्तन्निनिमित्तस्यैवेत्यवादेशः । आर्यः । ऋ गतौ अघ्न्यादयश्च (उ ४-१११) इत्यौणादिको यत् । व्यत्ययेनांतोदात्तत्वं ॥ ६ ॥
यु॒वं न᳚रा स्तुव॒ते प᳚ज्रि॒याय᳚ क॒क्षीव᳚ते अरदतं॒ पुरं᳚धिम् ।
का॒रो॒त॒राच्छ॒फादश्व᳚स्य॒ वृष्ण᳚ः श॒तं कु॒म्भा{4} अ᳚सिञ्चतं॒ सुरा᳚याः ॥
यु॒वम् । न॒रा॒ । स्तु॒व॒ते । प॒ज्रि॒याय᳚ । क॒क्षीव᳚ते । अ॒र॒द॒त॒म् । पुर᳚म्॑धिम् ।
का॒रो॒त॒रात् । श॒फात् । अश्व᳚स्य । वृष्णः᳚ । श॒तम् । कु॒म्भान् । अ॒सि॒ञ्च॒त॒म् । सुरा᳚याः ॥
अत्रेयमाख्यायिका । कक्षीवानृषिः पुरा तमसातिरोहितज्ञानः सन् ज्ञानार्थमश्विनौ तुष्टाव । तस्मा अश्विनौ प्रभूतां धियं दत्तवंताविति तदाह । हे नरा नेतारावश्विनौ युवं युवां पज्रियाय । प्रजा इत्यंगिरसामाख्या पज्रा वा अंगिरस इत्याम्नातत्वात् । तेषां कुले जाताय कक्षीवते । कक्ष्या रज्जु रश्वस्य । तद्वते तत्संज्ञाय स्तुवते युवयोः स्तुतिं कुर्वते मह्यं पुरंधिं प्रभूतां धियं बुद्धिमरदशम् । व्यलिखतम् । यथा सर्वार्थगोचरा भवति तथा कृतवंतावित्यर्थः । अपि च कारोशरात् । कारोतरो नाम वैदलश्चर्मवेष्टितो भाजनविशेषो यस्मिन्सुरायाः स्रावणं क्रियते । लुप्तोपममेतत् । कारोतराद्यथा सुरायाः संपादकास्तां स्रावयंति एवमेव युवां वृष्णः सेचनसमर्थस्य युष्मदीयस्याश्वस्य शफात् खुरात् सुरायाः शतं कुंभान् असंख्यातान्सुराघटानसिंचतम् । अक्षारयतम् । यद्वा । सिंचतिः पूरणार्थः । कारोतरस्थानीयाद्युष्मदीयाश्वखुरात् या सुरा प्रवहति तयासंख्यातान् घटानसिंचितम् । अपूरयतम् । ये जनाः सौत्रामण्यादिकर्मणि युष्मद्यागय सुरां याचंते तेषामित्यर्थः ॥ स्तुवते । स्तौतेर्लटः शतृ । अदादित्वाच्छपो लुक् । शतुरनुम इति विभक्तेरुदात्तत्वम् । पज्रियाय पज्रशब्दाच्छैषिको घच् । कक्षीवते । आसंदीवदष्ठीवच्चक्रिवत्कक्षीवदिति निपातनात् कक्ष्याशब्दस्य संप्रसारणं वत्वं च । अरदतम् । रद विलेखने । पुरंधिम् । पुरंधिर्बहुधीरिति यास्कः (नि ६-१३) पृषोदरादित्वात्पुरंधिभावः । यद्वा । पुरं पूरयितव्यं सर्वविषयजातमस्यां धीयतेऽवस्थाप्यत इति पुरंधिर्बुद्दिः । कर्मण्यधिकरणे चेति दधातेः किप्रत्ययः । तत्पुरुषे कृति बहुलमिति बहुलवचनादलुक् । इदं तु व्युत्पत्तिमात्रं वस्तुतः पृषोदरादिरेव । असिंचितम् । षिचिर् क्षरणे । तौदादिकः । शे मुचादीनामिति नुम् ॥ ७ ॥
हि॒मेना॒ग्निं घ्रं॒सम᳚वारयेथां पितु॒मती॒मूर्ज᳚मस्मा अधत्तम् ।
ऋ॒बीसे॒ अत्रि᳚मश्वि॒नाव᳚नीत॒मुन्नि᳚न्यथु॒ः सर्व᳚गणं स्व॒स्ति ॥
हि॒मेन᳚ । अ॒ग्निम् । घ्रं॒सम् । अ॒वा॒र॒ये॒था॒म् । पि॒तु॒॑मती᳚म् । ऊर्ज᳚म् । अ॒स्मै॒ । अ॒ध॒त्त॒म् ।
ऋ॒बीसे᳚ । अत्रि᳚म् । अ॒श्वि॒ना॒ । अव᳚॑नीतम् । उत् । नि॒न्य॒थुः॒ । सर्व᳚॑गणम् । स्व॒स्ति ॥
अत्रेदमाख्यानम् । अत्रिमृषिमसुराः शतद्वारे पीडायंत्रगृहे प्रवेश्य तुषाग्निनाबाधिषत । तदानीं तेन ऋषिणा स्तुतावश्विनावग्निमुदकेनोपशमय्य तस्मात्पीडागृहादविकलेंद्रियवर्गं संतं निरगमयतामिति । तदेतत्प्रतिपाद्यते । हे अश्विनौ हिमेन हिमवच्छीतेनोदकेन घ्रंसं दीप्यमानमत्रेर्बाधनार्थमसुरैः । प्रक्षिप्तं तुषाग्निमवारयेथाम् । युवां निवारितवंतौ । शीतीकृतवंतावित्यर्थः । अपि चास्मा असुरपीडया कार्श्यं प्राप्तायात्रये पितुमतीम् । पितुरित्यन्ननाम । अन्नयुक्तमूर्जं बलप्रदं रसात्मकं क्षीरादिकमधत्तम् । पुष्ट्यर्थं प्रायच्छतम् । ऋबीसेऽपगतप्रकाशे । पीडायंत्रगृहेऽवनीतमवाङ्मुखतयासुरैः ॥ प्रापितमत्रिं सर्वगणम् । गणः समूहः । सर्वेषामिंद्रियाणां पुत्रादीनां वा गणेनोपेतं स्वस्ति अविनाशो यथा भवति तथोन्निन्यथुः । तस्माद्गृहादुद्गमय्य युवां स्वगृहं प्रापितवंतौ । यद्वा । हिमेन शीतेन वृष्ट्युदकेनाग्निवत्तीक्ष्णं घ्रंसम् । अहर्नामैतत् । सामर्थ्यान्निदाघकालीनमहरवारयेथाम् । तस्याह्नस्तैक्ष्ण्यं निवारितवंतौ । अपि चास्मा अग्नये पितुमतीं चरुपुरोडाशादिलक्षणान्नोपेतमूर्जं बलकरं रसात्मकमुपस्तरणाभिघारणात्मकं घृतमधत्तम् । वृष्ट्युत्पादनेनाग्नेर्यागार्थं हवींषि निष्पादितवंतावित्यर्थः । ऋबीसेऽपगततेजस्के पृथिवीद्रव्येऽवनीतमोषधीनामुत्पादनायावस्तान्नीतम् । पार्थिवाग्निना परिपक्वा उदकेन क्लिन्ना ह्योषधिवनस्पतयो विरोहंति । अत्रिं हविषामत्तारमोषधिवनस्पत्यादीनां वा एवंविधमग्निं सर्वगणं व्रीह्याद्योषधिगणोपेतं हे अश्विनौ युवां स्वस्ति अविनाशो यथा भवति तथोन्निन्यथुः । व्रीह्याद्योषधिवनस्पतिरूपेण भूमेरुपरिष्ठान्नीतवंतौ । कारणात्मना पार्थिवाग्नौ वर्तमानं सर्वमोषधिवनस्पत्यादिकमश्विनौ प्रवर्षणेन व्यक्तीकृतवंतावित्यर्थः । अयं पक्षो यास्केन हिमेनोदकेनेत्यादिनोक्तः । नि ६-३६ ॥ पितुमतीम् । ह्रस्वनुड्भ्यां मतुबिति मतुप उदात्तत्वम् । ऋबीसे । अत्र यास्कः । ऋबीसमपगतभासमपचितभासमपहृतभासं गतभासं वेति (नि ६-३५) पृषोदरादित्वादभिमतरूपस्वरसिद्धिः । अत्रिम् । अद भक्षणे । अदेस्त्रिनि चेति चशब्दात्त्रिः । अवनीतम् । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । स्वस्ति । अस भुवि । भावे क्तिन् । छंदस्युभयथेति सार्वधातु कत्वादस्तेर्भूभावाभावः ॥ ८ ॥
परा᳚व॒तं ना᳚सत्यानुदेथामु॒च्चाबु᳚ध्नं चक्रथुर्जि॒ह्मबा᳚रम् ।
क्षर॒न्नापो॒ न पा॒यना᳚य रा॒ये स॒हस्रा᳚य॒ तृष्य᳚ते॒ गोत᳚मस्य ॥
परा᳚ । अ॒व॒तम् । ना॒स॒त्या॒ । अ॒नु॒दे॒था॒म् । उ॒च्चा॑बु᳚ध्नम् । च॒क्र॒थुः॒ । जि॒ह्म॑बा᳚रम् ।
क्षर᳚न् । आपः᳚ । न । पा॒यना᳚य । रा॒ये । स॒हस्रा᳚य । तृष्य᳚ते । गोत᳚मस्य ॥
अत्रेदमाख्यानम् । कदाचिन्मरुभूमौ वर्तमानस्य स्तोतुर्गोतमस्य ऋषेः समीपं देशांतरे वर्तमानं कूपमुत्खायाश्विनौ प्रापयेताम् । प्रापय्य च तं कूपं स्नानपानादिसौकर्यायोपरिमूलमधोबिलमवास्थापयतामिति । तदेतदाह । हे नासत्या सत्यस्वभावौ सत्यस्य नेतारौ नासिकाप्रभवौ वा । एतत्संज्ञावश्विनौ युवामवतम् । कूपनामैतत् । अवस्तात्ततं कूपं परानुदेथाम् । गोतमस्य ऋषेः समीपे प्रैरिषाथाम् । तदनंतरं तं कूपमुच्चा बुध्नम् । उच्चैरुपरिष्ठाद्बुद्नो मूलं यस्य स तथोक्तः । जिह्मबारम् । जिह्ममधस्ताद्वर्तमानतया वक्रं बारं द्वारं यस्य स तथोक्तः । एवंगुणविशिष्टं चक्रथुः । युवामकृषाथां तस्मात्कूपात्तृष्यते । पिपासतो गोतमस्य पायनाय पानार्थमापो न आपश्च । अयं नशब्दश्चार्थे । क्षरन् । प्रवाहरूपेण निरगमन् । कीदृशस्य । राये । हवींषि दत्तवतः । सहस्राय सहनशीलाय । यद्वा । सहस्रसंख्याकाय । राये धनाय एतत्संख्याधनलाभार्थं चाक्षरन् ॥ अनुदेथाम् । णुद प्रेरणे । तौदादिक । जिह्मबारम् । द्वारशब्दस्य पृषोदरादित्वाद्बारादेशः । क्षरन् । क्षर संचलने । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । शपः पित्त्वादनुदात्तत्वम् । तिङो लसार्वधातुकस्वरेण धातुस्वरः । पायनाय । हेतुमति णिच् । शाछासाह्वेति युक् । भावे ल्युट् । राये । रा दाने । राति ददातीति राः । रातेर्डैः (उ २-६६) ऊडिदमिति विभक्तेरुदात्तत्वम् । तृष्यते । ञितृषा पिपासायाम् । श्यन् । लटः शतृ । श्यनो नित्त्वादाद्युदात्तत्वम् । षष्ठ्यर्थे चतुर्थी वक्तव्या । पा २-३-६२-१ । इति चतुर्थी ॥ ९ ॥
जु॒जु॒रुषो᳚ नासत्यो॒त व॒व्रिं प्रामु᳚ञ्चतं द्रा॒पिमि᳚व॒ च्यवा᳚नात् ।
प्राति᳚रतं जहि॒तस्यायु᳚र्द॒स्रादित्पति᳚मकृणुतं क॒नीना᳚म् ॥
जु॒जु॒रुषः᳚ । ना॒स॒त्या॒ । उ॒त । व॒व्रिम् । प्र । अ॒मु॒ञ्च॒त॒म् । द्रा॒पिम्॑इ᳚व । च्यवा᳚नात् ।
प्र । अ॒ति॒र॒त॒म् । ज॒हि॒तस्य᳚ । आयुः᳚ । द॒स्रा॒ । आत् । इत् । पति᳚म् । अ॒कृ॒णु॒त॒म् । क॒नीना᳚म् ॥
अत्रेदमाख्यानम् । वलीपलितादिभिरुपेतो जीर्णांगः पुत्रादिभिः परित्यक्तश्च्यवनाख्य ऋषिरश्विनौ तुष्टाव । स्तुतावश्विनौ तस्मा ऋषये जरामपगमय्य पुनर्यौवनमकुरुतामिति । तदेतदाह । हे नासत्यावश्विनौ जुजुरुषो जीर्णात् च्यवानात् चवनख्यादृषेः सकाशाद्वव्रिं कृत्स्नं शरीरमाव्यत्यावस्थितां जरां प्रामुंचतम् । प्रकर्षेणामोचयतम् । तत्र दृष्टांतः । द्रापिमिव । द्रापिरिति कवचस्याख्या । यथा कश्चित्कवचं कृत्स्नशरीरव्यापकं धृत्वा पश्चाच्छरीरात्पृथक्करोति तद्वत् । उतापि च हे दस्रा एतत्संज्ञौ दर्शनीयौ वाश्विनौ जहितस्य पुत्रादिभिः परित्यक्तस्य ऋषेरायुर्जीवनं प्रातिरतम् । प्रावर्धयतम् । प्रपूर्वस्तिरतिर्वर्धनार्थः । आदित् अनंतरमेव युवानं संतं कनीनां कन्यानां पतिं भर्तारमकृणुतम् । अकुरतं ॥ जुजुरुषः । जॄष् वयोहानौ । लिटः क्वसुः । बहुलं छंदसीत्युत्वम् । द्विर्भावः । पंच्यमेकवचने वसोः संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वम् । वव्रिम् । वृञ् वरणे । आदृगमहन इति किप्रत्ययः । जहितस्य । ओहाक् त्यागे । कर्मणि निष्ठा । तस्य छंदस्युभयथेति सार्वधातुकत्वाद्यक् । तस्य बहुलं छंदसीति श्लुः । जहातेश्च (पा ६-४-११६) इतीत्वम् । कनीनाम् । रयेर्मतौ बहुलमिति बहुलवचनात्कन्याशब्दस्यात्र संप्रसारणं ॥ १० ॥
तद्वां᳚ नरा॒ शंस्यं॒ राध्यं᳚ चाभिष्टि॒मन्ना᳚सत्या॒ वरू᳚थम् ।
यद्वि॒द्वांसा᳚ नि॒धिमि॒वाप᳚गूळ्ह॒मुद्द᳚र्श॒तादू॒पथु॒र्वन्द᳚नाय ॥
तत् । वा॒म् । न॒रा॒ । शंस्य᳚म् । राध्य᳚म् । च॒ । अ॒भि॒ष्टि॒॑मत् । ना॒स॒त्या॒ । वरू᳚थम् ।
यत् । वि॒द्वांसा᳚ । नि॒धिम्॑इ᳚व । अप᳚॑गूळ्हम् । उत् । द॒र्श॒तात् । ऊ॒पथुः᳚ । वन्द᳚नाय ॥
अत्रेदमाख्यानम् । वंदनो नाम कश्चिदृषिः । स चासुरैः कूपे निखात उत्तरीतुमशक्नुवन्नश्विनावस्तौत् । तमश्विनौ कूपादुन्निन्यतुरिति । तदाह । नरारो ग्यस्य नेतारौ हे नासत्यावश्विनौ वां युवयोः संबंध्यभिष्टिमदभ्येषणयुक्तमाभिमुख्येन प्राप्तव्यं तथा वरूथं वरणीयं कामयितव्यं तत्कर्म शंस्यम् । अस्माभिः प्रशंसनीयम् । राध्यम् । आराधनीयं च । किं पुनस्तत्कर्म । विद्वांसा जानंतौ युवां निधिमिव निक्षिप्तं धनमिवापगूळ्हमरण्ये निर्जने देशे कूपमध्येऽसुरैर्निगूढं वंदनाय वंदनमृषिं दर्शतादध्वगैः पिपासुभिर्द्रष्टव्यात्कूपादुदूपथुः । उदहार्ष्टम् । एवं यदेतत्कूपादुद्धरणं तदित्यर्थः ॥ शंस्यम् । शन्सु स्तुतौ । अस्माण्ण्यंतादचो यदिति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । अभिष्टिमत् । अभिपूर्वादिष गतावित्यस्माद्भावे क्तिन् । मंत्रे वृषेति क्विन उदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते । शंकध्वादित्वात्पररूपत्वम् । तादौ चेति तु गतिस्वरस्य सर्वविधीनां छंदसि विकल्पितत्वादप्रवृत्तिः । ततो मतुप् । अंतोदात्तादुत्तरस्य तस्य ह्रस्वनुड्भ्यामित्यदात्तत्वम् । वरूथम् । जॄवृञ्भ्यामूथन् (उ २-६) विद्वांसा । सुपां सुलुगिति विभक्तेराकारः । अपगूळ्हम् । गुहू संवरणे । कर्मणि निष्ठा । यस्य विभाषेतीट्प्रतिषेधः । ढत्वधत्वष्टुत्वढ्रलोपदीर्घाः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । दर्शतात् । भृमृदृशीत्यादिनातच् । ऊपथुः । डुवप् बीजतंतुसंताने । लिट्यथुसि यजादित्वात्संप्रसारणम् । द्विर्वचनादि । वंदनाय । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थी ॥ ११ ॥
तद्वां᳚ नरा स॒नये॒ दंस᳚ उ॒ग्रमा॒विष्कृ᳚णोमि तन्य॒तुर्न वृ॒ष्टिम् ।
द॒ध्यङ्ह॒ यन्मध्वा᳚थर्व॒णो वा॒मश्व᳚स्य शी॒र्ष्णा प्र यदी᳚मु॒वाच᳚ ॥
तत् । वा॒म् । न॒रा॒ । स॒नये᳚ । दंसः᳚ । उ॒ग्रम् । आ॒विः । कृ॒णो॒मि॒ । त॒न्य॒तुः । न । वृ॒ष्टिम् ।
द॒ध्यङ् । ह॒ । यत् । मधु᳚ । आ॒थ॒र्व॒णः । वा॒म् । अश्व᳚स्य । सी॒र्ष्णा । प्र । यत् । ई॒म् । उ॒वाच᳚ ॥
अत्रेयमाख्यायिका । इंद्रो दधीचे प्रवर्ग्यविद्यां मधुविद्यां चोपदिश्य यदीमामन्यस्मै वक्ष्यसि शिरस्ते छेत्स्यामीत्युवाच । ततोऽश्विनावश्वस्य शिरश्छित्त्वा दधीचः शिरः प्रच्छिद्यान्यत्र निधाय तत्राश्व्यं शिरः प्रत्यधत्ताम् । तेन च दध्यङ् ऋचः सामानि यजूंषि च प्रवर्ग्यविषयाणि मधुविद्याप्रतिपादकं ब्राह्मणं चाश्विनावध्यापयामास । तदिंद्रो ज्ञात्वा वज्रेण तच्छिरोऽच्छिनत् । अथाश्विनौ तस्य स्वकीयं मानुषं शिरः प्रत्यधत्तामिति शाट्यायनवाजसनेययोः प्रपंचेनोक्तम् । तदेतत्प्रतिपाद्यते । हे नरा नरावश्विनौ वां युवयोः संबंध्युग्रमुद्गूर्णमन्यैर्दुशकं दंसः । कर्मनामैतत् । युवाभ्यां पुरा कृतं तत्कर्म सनये धनलाभार्थमाविष्कृणोमि । प्रकटीकरोमि । तत्र दृष्टांतः । तन्यतुर्न । यथा मेघस्थः शब्दो वृष्टिं मेघांतर्वर्तमानमुदकं प्रवर्षणेन सर्वत्र प्रकटयति तद्वत् । किं तत्कर्म । अथर्वणः पुत्रो दध्यङ् एत्संज्ञ ऋषिरश्वस्य शीर्ष्णा युष्मत्समर्थ्येन प्रतिहितेन शिरसा वां युवाभ्यामीमिमां मधुविद्यां यद्ध यदा खलु प्रोवाच प्रोक्तवान् । तदानीमश्वस्य शिरसः संधानलक्षणं पुनर्मानुषस्य शिरसः प्रतिसंधानलक्षणं च यद्भवदीयं कर्म तदाविष्कृणोमीत्यर्थः ॥ सनये । षणु दाने । खनिकषिकस्यंज्यसिवसिध्वनिस्तनिवनिसनिग्रंथिचरिभ्यश्चेतीप्रत्ययः । तन्यतुः । तनु विस्तारे । ऋतन्यंजीत्यादिना यतुच् । यद्वा । स्तन शब्दे । बाहुलकाद्यतुच् । छांदसः सलोपः । वृष्टिम् । वृष्यते सिच्यतेऽनेनेति वृष्टिः । मंत्रे वृषेत्यादिना क्तिन उदात्तत्वम् । आथर्वणः । अपत्यार्थेऽण्यन् (पा ६-४-१६७) इति प्रकृतिभावाट्वलोपाभावः । शीर्ष्णा । शीर्षन् छंदसि (पा ६-१-६०) इति शिरःशब्दपर्यायः शीर्षन् शब्दोंऽतोदात्तो निपात्यते । अल्लोपे सत्युदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वं ॥ १२ ॥
अजो᳚हवीन्नासत्या क॒रा वां᳚ म॒हे याम᳚न्पुरुभुजा॒ पुरं᳚धिः ।
श्रु॒तं तच्छासु᳚रिव वध्रिम॒त्या हिर᳚ण्यहस्तमश्विनावदत्तम् ॥
अजो᳚हवीत् । ना॒स॒त्या॒ । क॒रा । वा॒म् । म॒हे । याम᳚न् । पु॒रु॒॑भु॒जा॒ । पुर᳚म्॑धिः ।
श्रु॒तम् । तत् । शासुः᳚॑इव । व॒ध्रि॒॑म॒त्याः । हिर᳚ण्य॑हस्तम् । अ॒श्वि॒नौ॒ । अ॒द॒त्त॒म् ॥
वध्रिमती नाम कस्यचिद्राजर्षेः पुत्री नपुंसकभर्तृका । सा पुत्रलाभार्थ मश्विनावाजुहाव । तदाह्वानं श्रुत्वाश्विनावागत्य तस्यै हिरण्यहस्ताख्यं पुत्रं ददतुः । तदेतदाह । पुरुभुजा बहूनां पालकौ प्रभूतहस्तौ वा हे नासत्यावश्विनौ महे महनीये पूजनीये यामन् यामनि । याति गच्छतीति याम स्तोत्रम् । तस्मिन्सति कराभिमतफलस्य कर्तारौ वां युवां पुरंधिर्बहुधीर्वध्रिमती । वध्रीः पुत्रोत्पादनाशक्तः पंडकः । तद्वती एतत्संज्ञा राजपुत्र्यजोहवीत् । पुनःपुनः स्तुत्या पुत्रलाभार्थमाहूतवती । युवां च वध्रिमत्यास्तदाह्वानं श्रुतम् । अशृणुतम् । तत्र दृष्टांतः । शासुरिव । यथा शासुराचार्यस्य वचनं शिष्योऽवहितः सन्नैकाग्र्येण शृणोति तद्वत् । श्रुत्वा च हे अश्विनौ तस्मै हिरण्यहस्तं सुवर्णमयपाणिं हितरमणीयपाणिं वा । एतत्संज्ञं पुत्रमदत्तम् । प्रायच्छतं ॥ अजोहवीत् । हूयतेर्यङ् लुगंताल्लङ् । यङो वेति तिप ईडागमः । करा । करोतेः पचाद्यच् । सुपां सुलुगिति विभक्तेराकारः । यामन् । आतो मनिन्क्वनिब्वनिपश्चेति मनिन् । सुपां सुलुगिति सप्तम्या लुक् । श्रुतम् । लङि बहुलं छंदसीति विकरणस्य लुक् । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । शासुः । शास्तुः । शासु अनुशिष्टौ । शंसिशसिशासीत्यादिना (उ २-९४) संज्ञायां तृन् । इडभावः छांदसस्तलोपः ॥ १३ ॥
आ॒स्नो वृक᳚स्य॒ वर्ति᳚काम॒भीके᳚ यु॒वं न᳚रा नासत्यामुमुक्तम् ।
उ॒तो क॒विं पु᳚रुभुजा यु॒वं ह॒ कृप᳚माणमकृणुतं वि॒चक्षे᳚ ॥
आ॒स्नः । वृक᳚स्य । वर्ति᳚काम् । अ॒भीके᳚ । यु॒वम् । न॒रा॒ । ना॒स॒त्या॒ । अ॒मु॒मु॒क्त॒म् ।
उ॒तो इति᳚ । क॒विम् । पु॒रु॒॑भु॒जा॒ । यु॒वम् । ह॒ । कृप᳚माणम् । अ॒कृ॒णु॒त॒म् । वि॒॑चक्षे᳚ ॥
वर्तिका चटकसदृशस्य पक्षिणः स्त्री । तामरण्ये वर्तमानेन शुना ग्रस्तां पुरा किलाश्विनावमोचयताम् । तदेतदाह । हे नरा नेतारौ नासत्यावश्विनौ युवं युवामभीकेऽभिगते वृकवर्तिकयोः संग्रामे वृकस्य विकर्तकस्य शुन आस्न आस्याद्वर्तिकां चटकसदृशीममुमुक्तम् । अमोचयतम् । यास्कस्त्वाह । पुनः पुनर्वर्तते प्रतिदिवसमावर्तत इति वर्तिकोषाः । तां वृकेणावरकेण सर्वजगत्प्रकाशेनाच्छादयित्रा सूर्येण ग्रस्तां तदीयमुखादश्विनावमुंचतामिति । उतो अपि च पुरुभुजा महाबाहू प्रभूतहस्तौ वा युवं ह युवां खलु कृपमाणं स्तुवंतं कविं एतत्संज्ञमंधमृषिं विचक्षे विशेषेण द्रष्टुम् । समर्थमकृणुतम् । आकुरुतं ॥ आस्नः । पद्दन्नित्यादिनास्यस्यासन्नादेशः । अल्लोपोऽन इत्यकारलोप उदात्तनिवृत्तिस्वरेणोडिदमिति विभक्तेरुदात्तत्वम् । अमुमुक्तम् । मुचेरंतर्भावितण्यर्थाल्लङि बहुलं छंदसीति विकरणस्य श्लुः । कृपिः । स्तुतिकर्मा तुदादिषु द्रष्टव्यः विकरणस्वरे प्राप्ते । वृषादीनां चेत्याद्युदात्तत्वम् । विचक्षे । तुमर्थे सेसेनिति सेन्प्रत्ययः । स्कोः संयोगाद्योरिति सलोपः ॥ १४ ॥
च॒रित्रं॒ हि वेरि॒वाच्छे᳚दि प॒र्णमा॒जा खे॒लस्य॒ परि᳚तक्म्यायाम् ।
स॒द्यो जङ्घा॒माय᳚सीं वि॒श्पला᳚यै॒ धने᳚ हि॒ते सर्त᳚वे॒ प्रत्य᳚धत्तम् ॥
च॒रित्र᳚म् । हि । वेः॑इ᳚व । अच्छे᳚दि । प॒र्णम् । आ॒जा । खे॒लस्य᳚ । परि᳚॑तक्म्यायाम् ।
स॒द्यः । जङ्घा᳚म् । आय᳚सीम् । वि॒श्पला᳚यै । धने᳚ । हि॒ते । सर्त᳚वे । प्रति᳚ । अ॒ध॒त्त॒म् ॥
अगस्त्यपुरोहितः खेलो नाम राजा । तस्य संबंधिनी विश्पला नाम स्त्री संग्रामे शत्रुभिश्छिन्नपादासीत् । पुरोहितेनागस्त्येन स्तुतावश्विनौ रात्रावागत्यायोमयं पादं समधत्ताम् । तदेतदाह । आजा आजौ संग्रामेऽगस्त्य पुरोहितस्य खेलस्य संबंधिन्या विश्पलाख्यायाश्चरित्रं चरणं वेरिव वेः पक्षिणः पर्णं पतत्रमिवाच्छेदि हि । पुरा छिन्नमभूत्खलु । हे अश्विनौ युवामगस्त्येन स्तुतौ संतौ परितक्म्यायाम् । परितक्म्या रात्रिः परित एनां तकतीति यास्कः । नि ११-२५ । एनामुभयतः सूर्यो गच्छतीति तस्यार्थः । रात्रावागत्य सद्यस्तदानीमेव हिते शत्रुषु निहिते धने जेतव्ये विषयभूते सति सर्तवे सर्तुं गंतुं विश्पलाया आयसीमयोमयीं जंघां जंघोपलक्षितं पादं प्रत्यधत्तम् । संधानमेकीकरणं कृत । वंतावित्यर्थः ॥ चरित्रम् । अर्तिलूधूसूखनसहचर इत्र इति करण इत्रः । आजा । सुपां सुलुगिति विभक्तेर्डादेशः । आयसीम् । अयःशब्दाद्विकारार्थे प्राणिरजतादिभ्योऽञ् पा ४-३-१५४ । टड्ढाणञिति ङीप् ॥ १५ ॥
श॒तं मे॒षान्वृ॒क्ये᳚ चक्षदा॒नमृ॒ज्राश्वं॒ तं पि॒तान्धं च᳚कार ।
तस्मा᳚ अ॒क्षी ना᳚सत्या वि॒चक्ष॒ आध᳚त्तं दस्रा भिषजावन॒र्वन् ॥
श॒तम् । मे॒षान् । वृ॒क्ये᳚ । च॒क्ष॒दा॒नम् । ऋ॒ज्र॑अ᳚श्वम् । तम् । पि॒ता । अ॒न्धम् । च॒का॒र॒ ।
तस्मै᳚ । अ॒क्षी इति᳚ । ना॒स॒त्या॒ । वि॒॑चक्षे᳚ । आ । अ॒ध॒त्त॒म् । द॒स्रा॒ । भि॒ष॒जौ॒ । अ॒न॒र्वन् ॥
वृषागिरः पुत्र ऋज्राश्वो नाम राजर्षिः । तस्य समीपेऽश्विनोर्वाहनभूतो रासभो वृकी भूत्वावतस्थे । स च तस्या आहारार्थमेकोत्तरशतसंख्याकान्पौरजनानां स्वभूतान्मेषान् शकलीकृत्य प्रददौ । ऋज्राश्वः शतमेकं नेत्रहीनमकरोत् । तेन स्तूयमानावश्विनावस्मद्वाहननिमित्तमस्यांध्यं जातमिति जानंतौ तस्मा अक्षिणी प्रायच्छतामिति । तदेतदाह । अत्र तच्छब्दश्रुतेर्यच्छब्दाध्याहारः । य ऋज्राश्वः । शतं शतसंख्याकान्मेषान्वृक्य आत्मनापोषितायै वृकस्त्रियै शकलीकृत्य प्रादात् तं चक्षदानम् । क्षदतिरत्तिकर्मात्र शकलीकरणार्थः । शकलीकृत्य दत्तवंतमृज्रांश्वं पिता शापेनांधं दृष्टिहीनं चकार । कृतवान् । हे नातस्या सत्यस्वभावौ सत्यस्य नेतारौ वा भिषजौ देवानां वैद्यभूतौ । अश्विनौ वै देवानां भिषजौ । ऐ ब्रा १-१८ । इति श्रुतेः । दस्रा दर्शनीयावेतत्संज्ञौ वा हे अश्विनावनर्वन्ननर्वणे द्रष्टव्यं प्रति पितृशापाद्गमनरहिते अक्षी चक्षुषी विचक्षे विविधं द्रष्टुं समर्थे तस्मै ऋज्राश्वायाधत्तम् । व्यधत्तम् । अकुरुतं ॥ वृक्ये । वृकोऽरण्यश्वा । तस्य स्त्री वृकी । जातेरस्त्रीविषयात् (पा ४-१-६३) इति दिति ङीष् । जसादिषु छंदसि वावचनमिति चतुर्थ्येकवचनस्याडभावे यणादेश उदात्तस्वरितर्योयण इति परस्यानुदात्तस्य स्वरितत्वम् । चक्षदानम् । क्षदेर्लिटः कानच् । चित्स्वरः । अक्षी । ई च द्विवचने (पा ७-१-७७) इति परत्वादक्षशब्दस्येकारांतादेशः । स चोदात्तः । तस्मिन्कृते सकृद्गतौ विप्रतिषेधे । परि ४० । इति परिभाषया पुनर्नुम्न भवति । विचक्षे । चक्षेः संपदादिलक्षणो भावे क्विप् । अनर्वन् । ऋ गतौ । अस्मादन्येभ्योऽपि दृश्यंत इति दृशिग्रहणस्य विध्यंतरोपसंग्रहार्थत्वाद्भावे वनिप् । अर्वगमनं विषयं प्रत्येनयोर्नास्तीति बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । सुपां सुलुगिति द्विवचनस्य लुक् । छादंसो नलोपाभावः ॥ १६ ॥
आ वां॒ रथं᳚ दुहि॒ता सूर्य᳚स्य॒ कार्ष्मे᳚वातिष्ठ॒दर्व᳚ता॒ जय᳚न्ती ।
विश्वे᳚ दे॒वा अन्व᳚मन्यन्त हृ॒द्भिः समु᳚ श्रि॒या ना᳚सत्या सचेथे ॥
आ । वा॒म् । रथ᳚म् । दु॒हि॒ता । सूर्य᳚स्य । कार्ष्म᳚॑इव । अ॒ति॒ष्ठ॒त् । अर्व᳚ता । जय᳚न्ती ।
विश्वे᳚ । दे॒वाः । अनु᳚ । अ॒म॒न्य॒न्त॒ । हृ॒त्॑भिः । सम् । ऊं॒ इति᳚ । श्रि॒या । ना॒स॒त्या॒ । स॒चे॒थे॒ इति᳚ ॥
सविता स्वदुहितं सूर्याख्यां सोमाय राज्ञे प्रदातुमैच्छत् । तां सूर्यं सर्वे देवा वरयामासुः । तेऽन्योन्यमूचुः । आदित्यम वधिं कृत्वाजिं धावाम । योऽस्माकं मध्य उज्जेष्यति तस्येयं भविष्यतीति । तत्राश्विनावुदजयताम् । सा च सूर्या जितवतोस्तयो रथमारुरोह । अत्र प्रजापतिर्वै सोमाय राज्ञे दुहितरं प्रायच्छत् । ऐ । ब्रा ४-७ । इत्यादिकं ब्राह्मण मनुसंधेयम् । इदं चाख्यानं सूर्याविवाहस्य स्तावकेन सत्येनोत्तभिता भूमिरिति सूक्तेन विस्पष्टयिष्यते । हे अश्विनौ वां युवयो रथं कार्ष्मेव । कार्ष्मशब्दः काष्ठवाची । यथा काष्ठ माजिधावनस्यावधितया निर्धिष्टं लक्ष्यमाशुगामी कश्चित्सर्वेर्भ्यो धावद्भ्यः पूर्वं प्राप्नोति । एवमेव सर्वेभ्यो देवेभ्यः पूर्वमर्वता शीघ्रमवधिं प्राप्नुवता युष्मदीयेनाश्वेन करणभूतेन युवाभ्यां जयंती जीयमाना सूर्यस्य सवितुर्दुहितातिष्ठत् । अरूढवती । विश्वे सर्व इतरे देवा एतदारोहणस्थानं हृद्भिर्हृदयैरन्वमन्यंत । अन्वजानन् । तदानीं हे नासत्यावश्विनौ श्रिया ऋक्सहस्रलाभरूपया संपदा कांत्या वा युवां सं सचेथे । संगच्छेथे ॥ जयंती । व्यत्ययेन कर्मणि शतृप्रत्ययः । हृद्भिः । पद्दन्नित्यादिना हृदयशब्दस्य हृद्भावः । सचेथे । षच समवाये । स्वरितेत्त्वादात्मनेपदं ॥ १७ ॥
यदया᳚तं॒ दिवो᳚दासाय व॒र्तिर्भ॒रद्वा᳚जायाश्विना॒ हय᳚न्ता ।
रे॒वदु᳚वाह सच॒नो रथो᳚ वां वृष॒भश्च᳚ शिंशु॒मार᳚श्च यु॒क्ता ॥
यत् । अया᳚तम् । दिवः᳚॑दासाय । व॒र्तिः । भ॒रत्॑वा᳚जाय । अ॒श्वि॒ना॒ । हय᳚न्ता ।
रे॒वत् । उ॒वा॒ह॒ । स॒च॒नः । रथः᳚ । वा॒म् । वृ॒ष॒भः । च॒ । शिं॒शु॒मारः᳚ । च॒ । यु॒क्ता ॥
हे अश्विनौ हयंता स्तुतिभिराहूयमानौ युवां भरद्वाजाय संभ्रियमाणहविर्लक्षणान्नाय यजमानाय दिवोदासायैतत्संज्ञाय राजर्षयेऽभीष्टं फलं दातुं वर्तिस्तदीयं गृहं यद्यदायातं अगच्छतं तदानीं रेवद्धनयुक्तमन्नं वां युवयोः सचनः सेवनो रथ उवाह । तस्मै दिवोदासाय प्रापयामास । अपि च तस्मिन्रथे वृषभोऽनड्वान् शिंशुमारो ग्राहश्च परस्परविरुद्धावपि स्वसामर्थ्यप्रकटनाय युक्ता । वाहनतया संयुक्तावास्तां ॥ दिवोदासाय । दिवश्च दासे षष्ठ्या अलुग्वक्तव्यः । का ६-३ २१-५ । इत्यलुक् । दिवोदासादीनां छंदस्युपसंख्यानमिति पूर्वपदाद्युदात्तत्वम् । हयंता । ह्वेञः कर्मणि लटो व्यत्ययेन शतृ । बहुलं छंदसीति संप्रसारणम् । शपि गुणे छांदसोऽयादेशः । रेवत् । रयिशब्दान्मतुप् । रयेर्मतौ बहुलमिति संप्रसारणम् । छंदसीर इति मतुपो वत्वम् । रयिशब्दाच्च । का ६-१-१७६-१ । इति मतुप उदात्तत्वम् । सचनः । षच सेवने । अनुदात्तेतश्च हलादेरिति युच् । युक्ता । सुपां सुलुगिति विभक्तेराकारः ॥ १८ ॥
र॒यिं सु᳚क्ष॒त्रं स्व᳚प॒त्यमायु᳚ः सु॒वीर्यं᳚ नासत्या॒ वह᳚न्ता ।
आ ज॒ह्नावीं॒ सम᳚न॒सोप॒ वाजै॒स्त्रिरह्नो᳚ भा॒गं दध᳚तीमयातम् ॥
र॒यिम् । सु॒॑क्ष॒त्रम् । सु॒॑अ॒प॒त्यम् । आयुः᳚ । सु॒॑वीर्य᳚म् । ना॒स॒त्या॒ । वह᳚न्ता ।
आ । ज॒ह्नावी᳚म् । स॑म᳚नसा । उप᳚ । वाजैः᳚ । त्रिः । अह्नः᳚ । भा॒गम् । दध᳚तीम् । अ॒या॒त॒म् ॥
हे नासत्यावश्विनौ सुक्षत्रं शोभनबलं रयिं धनं स्वपत्यं शोभनैः पुत्रादिभिरुपेतं सुवीर्यं शोभनविर्योपेतमायुः । अन्ननामैतत् । एवंगुणविशिष्टमन्नं च वहंता धारयंतौ युवां समनसा समानमनस्कौ संतौ जह्नावीं जह्नोर्महर्षेः संबंधिनीं प्रजामायातं ॥ अभिमुख्येनागच्छतम् । कीदृशीम् । वाजैर्हविर्लक्षणैरन्नैरुपेतां अह्नः । अत्राहःशबेन तत्रानुष्ठेयः सोमयागो लक्ष्यते । तस्य प्रातःसवनादिरूपेण त्रिस्त्रिधा विभक्तं भागमंतं दधतीं बिभ्रतीम् । अनुसवनं हविर्भिर्यजमानामित्यर्थः ॥ सुक्षत्रम् । बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । सुवीर्यम् । वीरवीर्यौ चेति बहुव्रीहावुत्तरपदाद्युदात्तत्वम् । जह्नावीम् । जह्नुशब्दात्तस्येदमित्यर्थेऽण् । टड्ढाणञिति ङीप् । जाह्नवीह्रस्वदीर्घयोर्विनिमयः पृषोदरादित्वात् । उक्तं च । वर्णागमो वर्णविपर्ययश्च । का ६-३-१०९ । इति अत एव मध्योदात्तत्वं ॥ १९ ॥
परि᳚विष्टं जाहु॒षं वि॒श्वतः᳚ सीं सु॒गेभि॒र्नक्त᳚मूहथू॒ रजो᳚भिः ।
वि॒भि॒न्दुना᳚ नासत्या॒ रथे᳚न॒ वि पर्व᳚ता{4} अजर॒यू अ᳚यातम् ॥
परि᳚॑विष्टम् । जा॒हु॒षम् । वि॒श्वतः᳚ । सी॒म् । सु॒॑गेभिः᳚ । नक्त᳚म् । ऊ॒ह॒थुः॒ । रजः᳚॑भिः ।
वि॒॑भि॒न्दुना᳚ । ना॒स॒त्या॒ । रथे᳚न । वि । पर्व᳚तान् । अ॒ज॒र॒यू इति᳚ । अ॒या॒त॒म् ॥
जाहुषो नाम कश्चिद्राजा । विश्वतः सर्वतः परिविष्टं शत्रुभिः परिवृतं तं राजानं हे नासत्या वश्विनावजरयू जरारहितौ नित्यतरुणौ युवां विभिंदुना विशेषेण सर्वस्य भेदकेनात्मीयेन रथेन नक्तं रात्रौ सुगेभिः सुष्ठु गंतुं शक्यै रजोभी रंजकैर्मार्गैरूहथुः । तस्माच्छत्रुसमूहान्निरगमयतम् । सीमित्येतत्पादपूरणम् । निर्गतेन तेन सह पर्वतान् शत्रुभिरारोढुमशक्यान् शिलो च्चयान्व्ययातम् । विशेषेणागच्छतं ॥ परिविष्टम् । विश प्रवेशने । कर्मणि निष्ठा । गतिरनंतर इति गतेः । प्रकृतिस्वरत्वम् । सुगेभिः सुदुरोरधिकरण इति गमेर्डः । विभिंदुना । भिदिर् विदारणे औणादिक उप्रत्ययो नुमागमश्च । अजरयू न जरा अजरा । तामात्मन इच्छतः सुप आत्मनः क्यच् । न छंदस्यपुत्रस्येतीत्य दीर्घः । योर्निषेधः क्याच्छंदसीत्युप्रत्ययः ॥ २० ॥
एक᳚स्या॒ वस्तो᳚रावतं॒ रणा᳚य॒ वश᳚मश्विना स॒नये᳚ स॒हस्रा᳚ ।
निर᳚हतं दु॒च्छुना॒ इन्द्र᳚वन्ता पृथु॒श्रव᳚सो वृषणा॒वरा᳚तीः ॥
एक᳚स्याः । वस्तोः᳚ । आ॒व॒त॒म् । रणा᳚य । वश᳚म् । अ॒श्वि॒ना॒ । स॒नये᳚ । स॒हस्रा᳚ ।
निः । अ॒ह॒त॒म् । दु॒च्छुनाः᳚ । इन्द्र᳚॑वन्ता । पृ॒थु॒॑श्रव᳚सः । वृ॒ष॒णौ॒ । अरा᳚तीः ॥
हे अश्विनौ वशमेतत्संज्ञमृषिमेकस्या वस्तोरेकस्याह्नो रणाय रमणीयाय सहस्रा सहस्रसंख्याकाय सनये धनलाभायावतम् । अरक्षतम् । स ऋषिः प्रत्यहं यधा सहस्रसंख्यं धनं लभते तथा रक्षितवंतावित्यर्थः , । अपि च हे वृषणौ कामानां वर्षितारावश्विनौ । इंद्रवंता इंद्रेण संयुक्तौ युवां दुच्छाना दुष्टसुखान्दुःखस्य कर्तॄन् पृथुश्रवसो विस्तीर्णयशसोऽरातीः शत्रून्नि रहतम् । निःशेषेणावधिष्टम् । यद्वा । कानीनस्य पृथुश्रवः संज्ञ स्य राज्ञः शत्रूनिति योज्यं ॥ सहस्रा । सुपां सुलुगिति चतुर्थ्या डादेशः । अहतम् । लङि थसस्तम् । अनुदात्तोपदेशेत्यादिनानुसिकलोपः । दुच्छुनाः । शुनिमिति सुखनाम । दुष्टं सुखं यासां तास्तथोक्ताः । परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वं ॥ २१ ॥
श॒रस्य᳚ चिदार्च॒त्कस्या᳚व॒तादा नी॒चादु॒च्चा च᳚क्रथु॒ः पात᳚वे॒ वाः ।
श॒यवे᳚ चिन्नासत्या॒ शची᳚भि॒र्जसु᳚रये स्त॒र्यं᳚ पिप्यथु॒र्गाम् ॥
श॒रस्य᳚ । चि॒त् । आ॒र्च॒त्॑कस्य᳚ । अ॒व॒तात् । आ । नी॒चात् । उ॒च्चा । च॒क्र॒थुः॒ । पात᳚वे । वारिति॒ वाः ।
श॒यवे᳚ । चि॒त् । ना॒स॒त्या॒ । शची᳚भिः । जसु᳚रये । स्त॒र्य᳚म् । पि॒प्य॒थुः॒ । गाम् ॥
अर्चत्कस्य ऋचत्कपुत्रस्य शरस्मैतत्संज्ञस्यापि स्तोतुः पिपासितस्य पातवे पानार्थं नीचान्नीचीनादवतात्कूपादुच्चा उच्च्वॆरुपरिष्ठाद्वारुदकं हे अश्विनौ युवामा चक्रथुः । आभिमुख्येन कृतवंतौ । तथा हे नासत्यावश्विनौ शचीभिर्युष्मदीयैः कर्मभिः परिचरणैर्जसुरये श्रांताय शयवे चित् शयुनाम्न ऋषये स्तर्यं निवृत्तप्रसवां गामग्नि होत्रार्थस्य पयसो दोग्ध्रिं पिप्युथुः । पयसा युवामापूरितवंतौ ॥ पातवे । पा पाने । तुमर्थेसेसेनिति तवेन्प्रत्ययः । जसुरये । जसु हिंसायाम् । जसिसहोरुरिन् (उ २-७३) स्तर्यम् । स्तीर्यत आच्छाद्यते प्रसवसामर्थ्याभावेनेति स्तरीः । अवितॄस्तृतंत्रिभ्य ईः (उ ३-१५८) इतीकारप्रत्ययः । वा छंदसीत्यमि पूर्वत्वस्य विकल्पितत्वादभावे यणादेशः । उदात्तस्वरितयोर्यण इति परस्यानुदात्तस्य स्वरितत्वम् । पिप्यथुः । प्यायी वृद्धौ । लिट व्यत्ययेन परस्मैपदम् । लिङ्यङोश्च (पा ६-१-२९) इति पीभावः ॥ २२ ॥
अ॒व॒स्य॒ते स्तु᳚व॒ते कृ᳚ष्णि॒याय᳚ ऋजूय॒ते ना᳚सत्या॒ शची᳚भिः ।
प॒शुं न न॒ष्टमि᳚व॒ दर्श᳚नाय विष्णा॒प्वं᳚ ददथु॒र्विश्व᳚काय ॥
अ॒व॒स्य॒ते । स्तु॒व॒ते । कृ॒ष्णि॒याय᳚ । ऋ॒जु॒॑य॒ते । ना॒स॒त्या॒ । शची᳚भिः ।
प॒शुम् । न । न॒ष्टम्॑इ᳚व । दर्श᳚नाय । वि॒ष्णा॒प्व᳚म् । द॒द॒थुः॒ । विश्व᳚काय ॥
अवस्यतेऽवनं रक्षणमात्मन इच्छते स्तुवते स्तुतिं कुर्वते कृष्णियाय । कृष्णो नाम कश्चित् । तस्य पुत्राय ऋजूयत आर्जवमिच्छते विश्वकायेत्स्मंज्ञाय ऋषये हे नासत्यौ युवां शचीभिरात्मीयैः कर्मभिर्विष्णाप्वं नाम विनष्टं पुत्रं दर्शनाय दर्शनार्थं ददथुः । दत्तवंतौ । तत्र दृष्टांतः । पशुं न नष्टमिव । एक उपमार्थीयः पूरकः । यथा कश्चिद्विनष्टं पशुं स्वामिनो दृष्टिपथं प्रापयति तद्वत् ॥ आवस्यते । अवस् शब्दात्सुप आत्मनः क्यच् । शतुरनुम इति विभक्तेरुदात्तत्वम् । कृष्णियाय । कृष्णशब्दादपत्यार्थे छांदसो घञ् ॥ २३ ॥
दश॒ रात्री॒रशि᳚वेना॒ नव॒ द्यूनव᳚नद्धं श्नथि॒तम॒प्स्व१॒᳚न्तः ।
विप्रु᳚तं रे॒भमु॒दनि॒ प्रवृ᳚क्त॒मुन्नि᳚न्यथु॒ः सोम᳚मिव स्रु॒वेण᳚ ॥
दश᳚ । रात्रीः᳚ । अशि᳚वेन । नव᳚ । द्यून् । अव᳚॑नद्धम् । श्न॒थि॒तम् । अ॒प्॑सु । अ॒न्तरिति᳚ ।
वि॑प्रु᳚तम् । रे॒भम् । उ॒दनि᳚ । प्र॑वृ᳚क्तम् । उत् । नि॒न्य॒थुः॒ । सोम᳚म्॑इव । स्रु॒वेण᳚ ॥
पुरा खलु रेभमृषिं पाशैर्बद्ध्वासुराः कूपे कस्यचिद्दिवसस्य सायंकाले प्रचिक्षिपुः । स चाश्विनौ स्तुवन् दश रात्रीर्नवाहानि च कूपमध्ये तथैवावतस्थे । दशमेऽहनि प्रातरश्विनौ तं कूपादुदतारयतामिति । तदाह । अप्सु कूपांतर्वर्तमानास्वंतर्मध्येऽसुरैः पातितमशिवेन दुःखहेतुना दाम्नावनद्धं बद्धं श्नथितं शत्रुभिर्हिंसितं दश रात्रीर्दशसंख्याका निशा नव द्यून् नवसंख्याकान्यहानि च । अत्यंतसंयोगे द्वितीया । एतावंतं कालं तत्रैव कूपेऽवस्थितम् । आत एवोदन्युदके विप्रुतं विप्लुतं व्याक्षिप्तसर्वांगं प्रवृत्तम् । लुप्तोपमेतत् । प्रवृंजनेन संतप्तं घर्ममिव व्यथया संतप्यमानं एवंभूतं रेभं हे अश्विनौ युवामुन्निन्यथुः । तस्मात्कूपादुन्नीतमुत्तीर्णं कृतवंतौ । तत्र दृष्टांतः । सोममिव यथाग्नि होत्रहोमार्थमभिषुतं सोमरसं कूपसदृशेऽग्नि होत्रस्थालीमध्ये वर्तमानं स्रुवेणाध्वर्युरुन्नयत्यूर्ध्वं नयति तद्वत् ॥ अवनद्धम् । णह बंधने । कर्मणि निष्ठा । नहो धः (पा ८-२-३४) झषस्तथोर्धोऽध इति निष्ठातकारस्य धत्वम् । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । श्नथितम् । श्नथ हिंसार्थः । निष्ठा । विप्रुतम् । प्रुङ् गतौ । अवनद्धवत्प्रत्ययस्वरौ । कपिलकादित्वाल्लत्वविकल्पः । उदनि । पद्दन्नित्यादिनोदकशब्दस्योदन्भावः ॥ २४ ॥
प्र वां॒ दंसां᳚स्यश्विनाववोचम॒स्य पति᳚ः स्यां सु॒गवः᳚ सु॒वीरः᳚ ।
उ॒त पश्य᳚न्नश्नु॒वन्दी॒र्घमायु॒रस्त᳚मि॒वेज्ज᳚रि॒माणं᳚ जगम्याम् ॥
प्र । वा॒म् । दंसां᳚सि । अ॒श्वि॒नौ॒ । अ॒वो॒च॒म् । अ॒स्य । पतिः᳚ । स्या॒म् । सु॒॑गवः᳚ । सु॒॑वीरः᳚ ।
उ॒त । पश्य᳚न् । अ॒श्नु॒वन् । दी॒र्घम् । आयुः᳚ । अस्त᳚म्॑इव । इत् । ज॒रि॒माण᳚म् । ज॒ग॒म्या॒म् ॥
एवमनेन सूक्तेनाश्विनोर्महिमानं प्रशस्याधुना मंत्रद्रष्टा स्वाभीष्टं प्रार्थयते । हे अश्विनौ वां युवयोर्दंसांसि पुरा कृतानि कर्माणि प्रावोचम् । इत्थमुक्तवानस्मि । सोऽहं सुगवः शोभनगोयुक्तः सुवीरः शोभनवीरश्च भूत्वास्य राष्ट्रस्य पतिरधिपतिः स्याम् । भवेयम् । उतापि च पश्यन्नक्षिभ्यां पश्यन् । उपलक्षणमेतत् । सर्वैरिंद्रियैः स्वस्वविषयसमर्थैर्दीर्घं वर्षशतरूपेणायतमायुर्जीवितं चाश्नुवन्न प्राप्नुवन्नहमस्तमिव यथा गृहं स्वामीःनिष्कंटकं प्रविशति एवं जरिमाणं जरां जगम्याम् । कंटकराहित्येन प्राप्नुयाम् । वृद्धः संश्चिरकालं निवसेयमित्यर्थः ॥ स्याम् । अस्तेः प्रार्थनायां लिङ् । यासुट् । श्नसोरल्लोप इत्यकारलोपः । अश्नुवन् । अशू व्याप्तौ । व्यत्ययेन शतृ । जरिमाणम् । जॄष् वयोहानौ । अस्मादौणादिक इमनिच् । जगम्याम् । गमेः प्रार्थनायां लिङि बहुलं छंदसीति विकरणस्य श्लुः ॥ २५ ॥