ऋ॒बीसे॒ अत्रि᳚मश्वि॒नाव᳚नीत॒मुन्नि᳚न्यथु॒ः सर्व᳚गणं स्व॒स्ति ॥
पदपाठः (Word-by-word)
ऋ॒बीसे᳚ । अत्रि᳚म् । अ॒श्वि॒ना॒ । अव᳚॑नीतम् । उत् । नि॒न्य॒थुः॒ । सर्व᳚॑गणम् । स्व॒स्ति ॥
सायणभाष्यम् (Sayana Commentary)
अत्रेदमाख्यानम् । अत्रिमृषिमसुराः शतद्वारे पीडायंत्रगृहे प्रवेश्य तुषाग्निनाबाधिषत । तदानीं तेन ऋषिणा स्तुतावश्विनावग्निमुदकेनोपशमय्य तस्मात्पीडागृहादविकलेंद्रियवर्गं संतं निरगमयतामिति । तदेतत्प्रतिपाद्यते । हे अश्विनौ हिमेन हिमवच्छीतेनोदकेन घ्रंसं दीप्यमानमत्रेर्बाधनार्थमसुरैः । प्रक्षिप्तं तुषाग्निमवारयेथाम् । युवां निवारितवंतौ । शीतीकृतवंतावित्यर्थः । अपि चास्मा असुरपीडया कार्श्यं प्राप्तायात्रये पितुमतीम् । पितुरित्यन्ननाम । अन्नयुक्तमूर्जं बलप्रदं रसात्मकं क्षीरादिकमधत्तम् । पुष्ट्यर्थं प्रायच्छतम् । ऋबीसेऽपगतप्रकाशे । पीडायंत्रगृहेऽवनीतमवाङ्मुखतयासुरैः ॥ प्रापितमत्रिं सर्वगणम् । गणः समूहः । सर्वेषामिंद्रियाणां पुत्रादीनां वा गणेनोपेतं स्वस्ति अविनाशो यथा भवति तथोन्निन्यथुः । तस्माद्गृहादुद्गमय्य युवां स्वगृहं प्रापितवंतौ । यद्वा । हिमेन शीतेन वृष्ट्युदकेनाग्निवत्तीक्ष्णं घ्रंसम् । अहर्नामैतत् । सामर्थ्यान्निदाघकालीनमहरवारयेथाम् । तस्याह्नस्तैक्ष्ण्यं निवारितवंतौ । अपि चास्मा अग्नये पितुमतीं चरुपुरोडाशादिलक्षणान्नोपेतमूर्जं बलकरं रसात्मकमुपस्तरणाभिघारणात्मकं घृतमधत्तम् । वृष्ट्युत्पादनेनाग्नेर्यागार्थं हवींषि निष्पादितवंतावित्यर्थः । ऋबीसेऽपगततेजस्के पृथिवीद्रव्येऽवनीतमोषधीनामुत्पादनायावस्तान्नीतम् । पार्थिवाग्निना परिपक्वा उदकेन क्लिन्ना ह्योषधिवनस्पतयो विरोहंति । अत्रिं हविषामत्तारमोषधिवनस्पत्यादीनां वा एवंविधमग्निं सर्वगणं व्रीह्याद्योषधिगणोपेतं हे अश्विनौ युवां स्वस्ति अविनाशो यथा भवति तथोन्निन्यथुः । व्रीह्याद्योषधिवनस्पतिरूपेण भूमेरुपरिष्ठान्नीतवंतौ । कारणात्मना पार्थिवाग्नौ वर्तमानं सर्वमोषधिवनस्पत्यादिकमश्विनौ प्रवर्षणेन व्यक्तीकृतवंतावित्यर्थः । अयं पक्षो यास्केन हिमेनोदकेनेत्यादिनोक्तः । नि ६-३६ ॥ पितुमतीम् । ह्रस्वनुड्भ्यां मतुबिति मतुप उदात्तत्वम् । ऋबीसे । अत्र यास्कः । ऋबीसमपगतभासमपचितभासमपहृतभासं गतभासं वेति (नि ६-३५) पृषोदरादित्वादभिमतरूपस्वरसिद्धिः । अत्रिम् । अद भक्षणे । अदेस्त्रिनि चेति चशब्दात्त्रिः । अवनीतम् । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । स्वस्ति । अस भुवि । भावे क्तिन् । छंदस्युभयथेति सार्वधातु कत्वादस्तेर्भूभावाभावः ॥ ८ ॥