यद᳚श्विना ऊ॒हथु᳚र्भु॒ज्युमस्तं᳚ श॒तारि᳚त्रां॒ नाव᳚मातस्थि॒वांस᳚म् ॥
पदपाठः (Word-by-word)
यत् । अ॒श्वि॒ना॒ । ऊ॒हथुः᳚ । भु॒ज्युम् । अस्त᳚म् । श॒त॑अ᳚रित्रान् । नाव᳚म् । आ॒त॒स्थि॒वांस᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनौ अनारंभण आलंबनरहिते समुद्रे तत्कर्मावीरयेथाम् । विक्रांतं कृतवंतौ युवाम् । अनारंभणत्वमेव स्पष्टीकरोति । अनास्थाने । आस्थीयतेऽस्मिन्नित्यौस्थानो भूप्रदेशः । तद्रहिते स्थातुमशक्ये जल इत्यर्थः । अग्रभणेऽग्रहणे । हस्तेन ग्राह्यं शाखादिकमपि यत्र नास्ति तस्मिन्नित्यर्थः । किं पुनस्तत्कर्म । भुज्युं सम्रुदे मग्नं शतारित्रां बह्वरित्राम् । यैः काष्ठैः पार्श्वतो बद्धैर्जलालोडने सति नौः शीघ्रं गच्छति तान्यरित्राणि । ईदृशीं नावमातस्थिवांसमास्थितवंतमारूढवंतं कृत्वास्तम् । गृहनामैतत् । पितुस्तुग्रस्य गृहं प्रति यदूहथुः । तत्प्रापणणन्यैर्दुःशकं युवां समुद्रमध्ये कृतवंतावित्यर्थः ॥ अनारंभणे । आरभ्यत इत्यारंभणम् । कृत्यल्युटो बहुलमिति कर्मणि ल्युट् । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । अवीरयेथाम् । शूर वीर विक्रांतौ । चुरादिरात्मनेपदी । अनास्थानाग्रभणयोः पूर्ववल्ल्युट् स्वरौ । अयं तु विशेषः । हृग्रहोर्भ इति भत्वम् । अस्तम् । अस्यतेऽस्मिन् सर्वमित्यस्तं गृहम् । असिहसीत्यादिना तन्प्रत्ययः । शतारित्राम् । ऋगतौ । अर्तिलूधूसू (पा ३-२-१८४) इति करण इत्रप्रत्ययः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ५ ॥